शिक्षामन्त्रिणः श्रावणोत्सवाशंसाः

तिरुवनन्तपुरम्- केरलदेशः पुनरपि श्रावणोत्सवं स्वागतीकर्तुं सन्नह्यति। अतिभीकरे जलोपप्लवे ईषत् शान्ते जाते केरलीयाः स्वकीयम् उत्सवं सम्यगाचरितुं सज्जाः भवन्ति। हस्तनक्षत्रादारभ्य श्रावणोत्सवः आचर्यते केरलीयैः।
अस्मिन् वर्षे सेप्तम्बर् द्वितीये दिने एव हस्तनक्षत्रम् आयाति। तद्दिने केरलीयेषु सर्वेषु विद्यालयेषु श्रावणोत्सवसमारोहः भवतीति शिक्षा विभागस्य सूचना आसीत्। अनेन सह शिक्षामन्त्रिणः सन्देशः सर्वेषु विद्यालयेषु पठनीयः इत्यपि सूचना आसीत्। सन्देशे/स्मिन् शिक्षामन्त्री सूचयति यत् केरलीयानां सर्ग-राग-वर्ण-उत्सवः भवति ओणम् इत्याख्य‌ःश्रावणोत्सवः। एषः मनः शरीरं अन्तरिक्षं च शुद्धीक्रियमाणः वर्णोत्सवः भवति। अस्मिन् वर्णोत्सवे अस्माभिः अधिकतया उपयुज्यमानः प्रकृतिविभवः भवति वर्णपुष्पाणि। प्रतीकात्मकरूपेणैव पुष्पाणि अस्माभिः एतदर्थम् उपयुज्यन्ते।
सहजीविनां प्रकृतेश्च वेदनाः प्रत्यभिज्ञाय सा स्वस्यैव वेदना इति निर्णीयमानस्य मनसः स्वामी भवितुम् अयमुत्सवः अस्मान् प्रेरयति। समत्वभावानां लय एव ओणोत्सवः। तथा सन्तुलनस्य केन्द्रबिन्दुश्च भवति। मानवमनसः श्रेष्ठतायाः प्रभवस्थानं भवति अयमुत्सवः। धर्मनिरपेक्षं मन एव अस्योत्सवस्य योगदानम्।
सन्देशोयं ह्यस्तने सर्वेषु विद्यालयेषु पठितः अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *