Daily Archives: September 22, 2019

राज्ये प्रशस्तेषु सर्वकारीणविद्यालयेषु द्वितीयस्थानमाप्तस्य कोषिक्कोट् नटक्काव् सर्वकारीण विद्यालयस्य कृते अभिनन्दनम्।

तिरुवनन्तपुरम् – राज्ये प्रशस्तेषु सर्वकारीणविद्यालयेषु द्वितीयस्थानमाप्तं कोषिक्कोट् नटक्काव् सर्वकारीण -बालिका- उच्चतरविद्यालयं मुख्यमन्त्री पिणरायि विजयः अभ्यनन्दयत्। अकेरलम् अभिमानास्पदः अयमुत्कर्षः विद्यालयेनानेन प्राप्तः इत्यतः तत्रस्थान् अध्यापकान् छात्रान् रक्षाकर्तृन् च अभिनन्दयामि। अन्ताराष्ट्रतले एनं विद्यालयम् उन्नतपदवीं नेतुं साहाय्यं दत्तवते समाजाय च कृतज्ञतां ब्रवीमि इति मुख्यमन्त्री अवदत्।

एड्यूक्केशन् वेल्ड् इति संस्थया सज्जीकृतायां भारतीय-विद्यालयपरिगणना २०१९ इति लेखायामेव अयं विद्यालयः उत्कृष्टपदवीमन्ववाप। पठनकार्याणि पाठ्येतरप्रवर्तनानि अध्यापकानां कार्यक्षमता प्रशिक्षणं इत्यादीनि परिगणय्यैव स्थाननिर्णयमभवत्।

गतवर्षे अस्य विद्यालयस्य तृतीयं स्थानमासीत्। केरलस्थान् इतरान् उत्कृष्टविद्यालयानपि मुख्यमन्त्री अभ्यनन्दयत्। सार्वजनीनशिक्षाक्षेत्रे सर्वकारस्य श्रद्धा एव अस्योत्कर्षल्य मूलमिति मुख्यमन्त्री अवदत्। विद्यालयस्यास्य भौतिकसौविध्यविकासाय सामाजिकः ए प्रदीप् कुमार् वर्य‌ः बहुप्रयत्नं कृतवान्।

सार्वजनीनशिक्षासंरक्षणयज्ञस्य भागत्वेन सर्वकारस्य प्रवर्तनम् अतिविशिष्टमासीत्। अनेन ५.०४ लक्षं छात्राः सार्वजनीन विद्यालयेषु पठितुम् अधिकतया आगताः। ४७५२ माध्यमिक-उच्चतर विद्यालयस्थाः ४४७०५ कक्ष्याप्रकोष्ठाः अतितान्त्रिकरूपेण परिवर्तिता‌ः। प्राथमिकविद्यालयानपि अतितान्त्रिकसुविधान् कर्तुं योजनाः समारब्धाः इत्यपि मुख्यमन्त्री अवदत्।

PRASNOTHARAM – 28-09-2019

EPISODE – 98

 

प्रश्नोत्तरम्।

 

 

 

  1. कर्मकराः ——-निर्मान्ति। (क) गृहे  (ख) गृहं  (ग) गृहस्य
  2. ——–गृहं  निर्मीयते। (क) कर्मकराः (ख) कर्मकरौ  (ग) कर्मकरैः
  3. विवेकी दुर्व्यसनं ——–। (क) त्यजति (ख) त्यजसि (ग) त्यजामि
  4. विवेकिना दुर्व्यसनं ——–। (क) त्याज्यते (ख) त्याज्येते (ग) त्याज्यन्ते
  5. ——— कार्यालयं गच्छति।(क) प्राध्यापकेन (ख) प्राध्यापकैः प्राध्यापकः
  6. प्राध्यापकेन ——–गम्यते। (क) कार्यालयः (ख) कार्यालयं (ग) कार्यालये
  7. बालः —–लिखति।(क) अक्षराणां (ख) अक्षरेषु (ग) अक्षराणि
  8. बालेन अक्षराणि ———। (क) लिख्यते (ख)लिख्येते (ग) लिख्यन्ते
  9.  ——–धान्यानि वर्धयति। (क) कृषिकः (ख) कृषिकौ (ग) कृषिकाः
  10. कृषिकेन धान्यानि ———। (क) वर्ध्यते (ख) वर्ध्यन्ते (ग)वर्ध्येते

ഈയാഴ്ചയിലെ വിജയി

Sangeetha C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Divyachithran N V
  • Dawn Jose
  • Adidev C S
  • Satwik M B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”