Daily Archives: September 19, 2019

संस्कृतशिक्षायै सर्वकारः प्रोत्साहनं दद्यात्।- प्रमीला शशिधरन्।

पालक्काट्- संस्कृतभाषायै युक्तं प्राधान्यं सर्वकारैः न दीयते इत्येतत् खेदकरमेव, अतः विद्यालयेषु पर्याप्तसंख्यकान् शिक्षकान् नियोजयेयुः इति पालक्काट् नगरसभाघ्यक्षा प्रमीला शशिधरन् अवादीत्। केरलसर्वकारस्य सार्वजनीनशिक्षाविभागस्य नेतृत्वे वटक्कन्तरा कृष्णकृपा अधिवेशनालये राज्यस्तरीय-संस्कृतदिनाचरणमे उद्घाटयन्ती भाषमाणा आसीत् सा।

छात्रेषु सच्छीलं संवर्धयितुं संस्कृतभाषाध्ययनं पारयति। उपनिषदादयः संस्कृतभाषायामेव रचिताः। वरिष्ठाः भक्तिमार्गं यदा प्रविशन्ति तदा भक्तिग्रन्धानध्येतुं संस्कृताध्यय सन्नद्धाः भवन्ति। अतः संस्कृतशिक्षाविकासाय सर्वकारैः इतोप्यधिकं प्रोत्साहनं देयमिति सा न्यगादीत्।

नगरसभासमित्यङ्गं सुमति सुरेष् अध्यक्षा आसीत्। राज्य-पाठ्यपद्धतिसमित्यङ्गं प्रो. वि. माधवन् पिल्ला वर्यः संस्कृतदिनसन्देशं प्रास्तौत्। पण्डितरत्नं डो. पी.के. माधवन् वर्यः मुख्यप्रभाषकः आसीत्।

अभिनयतिलकं कूटियाट्टकलाकारः पी.के.जी. नम्ब्यार्, पि.एन्. नटराजः, डो. एन्.एं इन्दिरा प्रभृतयः संस्कृतपण्डिताः समारोहे समादृताः। अध्यापकेभ्यः आयोजितायां साहित्यरचनाप्रतियोगितायां विजेतृभ्यः पुरस्कारान् अदात्।