Monthly Archives: September 2019

विद्यालयीयशिक्षा गुणस्तरसूचिका प्रसिद्धीकृता, केरलं प्रथमस्थाने।

नवदिलल्ली- राज्यस्थेषु केन्द्रशासितप्रदेशेषु च शिक्षारंगस्य प्रवर्तनानि मूल्यनिर्णयं कुर्वन्ती विद्यालय०शिक्षा-गुणवत्ता-सूचिका नीती आयोगेन प्रसिद्धीकृता। ८२.१७ अङ्केन केरलमेव पट्टिकायां प्रथमस्थानमावहति। तमिल् नाटु द्वितीयस्थाने-(१७३.३५ अङ्काः), हरियाणा तृतीयस्थाने-(६९.५४ अङ्काः) च स्तः।
गतवर्षे अपि केरलमेव प्रथमस्थानमवाप। तदानीम् अङ्काः ७७.६४ आसीत्। गतवर्षे पञ्चमस्थानस्थं कर्णाटकराज्यमे अस्मिन् वर्षे त्रयोदशस्थानमेवावाप। हरियाणा गतवर्षे अष्टमस्थाने आसीत् परम् अस्मिन् वर्षे तृतीयस्थानमागतम्।

ओडीषाराज्यमपि गतवर्षापेक्षया औत्कृष्ट्यं प्राकटयत्। अस्मिन् वर्षे ओडीषा सप्तमस्थानमलंकरोति। गतवर्षे त्रयोदशस्थानीयमासीदिदम्।

तदेव विधिकल्पितम् – 05-10-2019

EPISODE – 99

नूतना समस्या –

“तदेव विधिकल्पितम्”

ഒന്നാംസ്ഥാനം

മരണം പരമം സത്യം
സർവേഷാം ജീവിനാം ഖലു
തേനൈവ മുക്തിസാഫല്യം
തദേവ വിധികല്പിതം.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

राज्यस्तरीयः विद्यालयकलोत्सवः २०१९ नवम्बर् २८ तः डिलम्बर् १ पर्यन्तम्।

कासरगोड्- केरल-राज्यस्तरीयः विद्यालयकलोत्सवः अस्मिन् वर्षे नवम्बर् २८ तः डिसम्बर् १पर्यन्तं कासरगोड् मण्डले प्रचलिष्यति। अष्टाविंशति वर्षानन्तरमेव अयं कलोत्सव‌ः कासरगोड् देशे आयोज्यते। हरितनियमानुसारं तथा भिन्नशेषीसौहृदपरं चायमुत्सवः अस्मिन् वर्षे सम्पत्स्यते इति अधिकारिणः अवदन्।

     कलोत्सवाय संघाटकसमितेः रूपवत्करणम् कासरगोडे सम्पन्नम्। मन्त्रिणः इ चन्द्रशेखरवर्यस्य आध्यक्ष्ये २१ उपसमितियुक्ता समितिः रूपीकृता। कलोत्सवार्थं त्रिंशत् वेदिकाः आयोक्ष्यते। प्रधानवेदिका काञ्ञङ्ङाट् देशे भविष्यति।

वयलार् पुरस्कारः वी.जे. जेयिंस् महोदयाय।

तिरुवनन्तपुरम्- अस्मिन् वर्षे वयलार् रामवर्मा स्मारकसाहित्यपुरस्कार‌ाय वि.जे. जेयिंस् वर्यस्य निरीश्वरन् इति नोवल् अर्हमभवत्। लक्षं रूप्यकाणि प्रशस्तिपत्रं शिल्पं च पुरस्कारे अन्तर्भवति। सुप्रसिद्धः श्ल्पी कानायि कुञ्ञीरामन् वर्यः शिल्पस्य रूपकल्पनमकरोत्। वयलार् रामवर्म स्मारक निधिरेव पुरस्कारं ददाति।

वयलार् वर्यस्य चरमदिने ओक्टोबर् २७ दिनाङ्के अनन्तपुर्यां निशागन्धी श्रोतालये एव पुरस्कारदानं समायोजयत्। निधेः अध्यक्षः पेरुम्पटवं श्रीधरः वार्ताहरमेलने इदमसूचयत्।

विक्रं साराबाय् शून्याकाशानुसन्धानकेन्द्रे अभियान्त्रिको भवति जेयिस् वर्यः। अयं चङ्ङनाश्शेरि वाषप्पल्ली देशीयः।

PRASNOTHARAM – 05-10-2019

EPISODE – 99

 

प्रश्नोत्तरम्।

 

 

 

  1. सः ग्रन्थं ——-। (क) पठसि (ख) पठामि (ग) पठति
  2. तेन ग्रन्थः ——। (क) पठ्यते (ख) पठ्येते  (ग) पठ्यन्ते
  3.  ——-शब्दं शृणोति। (क) ताः (ख) सा (ग) ते
  4.  ——शब्दः श्रूयते। (क) तया  (ख) तं  (ग) सा
  5. एषः —– वदति । (क) कथा  (ख) कथया (ग) कथाम्
  6. एतेन ——-उच्यते ।(क) कथाम् (ख) कथा (ग) कथाः
  7. माता ——पठति । (क) गीताम्  (ख) गीतायाः (ग) गीता
  8. मात्रा —— पठ्यते । (क) गीता (ख) गीताम् (ग) गीताः
  9.  ——-वाक्यं पठति । (क) छात्राः (ख) छात्रौ  (ग) छात्रः
  10.  ——वाक्यं पठ्यते ।(क) छात्रेण (ख) छात्राः (ग) छात्रः

ഈയാഴ്ചയിലെ വിജയി

THANOOJA P V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Thanooja P V
  • Adidev C S
  • Dhanya M I
  • Divyachithran N V
  • Sangeetha C K
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

आगामिवर्षादारभ्य विद्यालयाः कलालयाः इतराः शिक्षासंस्थाः च जूण् प्रथमे दिने एव प्रवर्तनमारभ्स्यन्ते इति उन्नतशिक्षामन्त्री।

तिरुवनन्तपुरम्- आगामिनेः वर्षादारभ्य विद्यालयानां कलालयानां इतराणां शिक्षासंस्थानां च प्रवर्तनं जूण् प्रथमे दिने एव आरभ्स्यते इति उन्नतशिक्षामन्त्री डो. के.टी. जलील् वर्यः अवदत्। एतदर्थं तीव्रं यत्नमेव सर्वकारः आयोजयति इत्यपि स अवदत्।

वृत्तिमन्विष्य यथा जनाः केरलानागच्छन्ति तथा उन्नतशिक्षायै कोपि नागच्छति। तत् पठनारम्भसमस्यया एवेत्यपि स न्यगादीत्। मुतुवेल्लूर् ऐ.एच्.आर्.डी. मन्दिरम् उद्घाटयन् भाषमाण आसीत् स‌ः।

संस्कृतकलाशालायाम् आचार्यानुस्मरणं डो. के.बी. राजीव् अनुस्मरणनिधिवितरणं च।

तिरुवनन्तपुरम्- सर्वकारीय संस्कृतकलाशालायां प्राध्यपकपदवीं वहन् अकालमृत्युं प्राप्तस्य डो. के.बी. राजीव् वर्यस्य स्मरणार्थम् आयोजितस्य अनुस्मरणनिधेः वितरणं आचार्यानुस्मरणं च कलालयश्रोतशालायां सम्पन्नमभवत्। समारोहः संस्कृतसर्वकलाशाला कुलपतिचरः डो. एन्.पी.उण्णि वर्यः उदघाटयत्। राज्य-शैक्ष्कानुसन्धान-परिषदः निदेशकः डो. जे प्रसाद् वर्यः मुख्यभाषणमकरोत्। प्राध्यापकः डो. के. उण्णिकृष्णन् वर्यः अध्यक्षः आसीत्।

कलालयशिक्षाविभागस्य उपाध्यक्षचरः पुत्तुर् बालकृष्णन् नायर्, मृत्युमुपगतान् भूतपूर्वान् अध्यापकान् प्राध्यापकान् च अन्वस्मरत्। भूतपूर्वछात्रसंघस्य कार्यदर्शी आर् गिरीष् कुमार् प्रभृतयः आशंसामर्पयन्।

ज्योतिषे स्नातकोत्तरपरीक्षायां प्रथमस्थानमाप्तायाः पि.एस् वर्षा इति छात्रायाः कृते स्मारकनिधिं समार्पयत्। त्रिशताधिकाः जनाः भागमभजन्त।

अमिताब् बच्चन् वर्याय दादासाहेब् फाल्के पुरस्कारः।

नवदिल्ली- भारतीयचलचित्ररंगे बिग् बी इति विख्यातः अमिताब् बच्चन् वर्यः दादासाहेब् फाल्के इत्याख्येन भारतीय चलचित्ररंगस्य परमोन्नतपुरस्कारेण समादृतः। सूचना-प्रसारणमन्त्री प्रकाश् जावदेकर् वर्यः इदमुदघोषयत्। ऐककण्ठ्येनैव बच्चन् वर्यः पुरस्काराय चितः इति मन्त्री अवदत्।

     उत्कृष्टनटाय दीयमानः राष्ट्रियपुरस्कारः चतुर्वारम् अनेन समासादितः। अपि च पद्मश्री पद्मभूषण् पद्मविभूषण् पुरस्कारेणापि अयं समादृतः अभवत्।

     १९६९ तमे वर्षे सात् हिन्दुस्थानी इति हिन्दी चलचित्रस्य नायकत्वेन रंगमागतः अयं महानुभावः दशकचतुष्टयं यावत् स्वकीयम् अभिनयपाटवं प्रदर्शयन् विललास।

     हरिवंश राय् बच्चन् तेजस्वी दम्पत्योः पुत्रः भवत्ययम्। विख्याता नटी जया बादुरी तस्य पत्नी। अस्य श्वेता, नन्दा इति द्वे पुत्री स्तः। विख्यातः नटः अभिषेक् बच्चन् तस्य पुत्रः, ऐश्वर्या राय् इति नटी स्नुषा च भवति।

२०२१ तमे वर्षे अङ्कीयजनगणतिः। एकं परिचायनपत्रम् इति रीतिः आविषकरोति- अमित्षा, केन्द्रगृहमन्त्री।

नवदिल्ली- २०२१ तमे वर्षे अङ्कीयदनगणतिः इत्याशयं प्रवृत्तिपथमायाति इति केन्द्रिय गृहमन्त्री अमित्षावर्यः अवदत्। मोबैल् आप् द्वारा सूचनासञ्चय एव भविष्यति। विविधानाम् उपयोगानां कृते एकं परिचायनपत्रम् दातुम् चिन्तयतीति स व्यक्तमकरोत्।

पत्रिकाद्वारा सूचनासञ्चयं विहाय तदर्थं मोबैल् आप् परीक्षितुम् उद्दिश्यते। अङ्कीयजनगणनार्थं १२००० कोटि रूप्यकाणि व्ययीकरिष्यन्ति।

दुःखेषु च सुखेषु च – 28-09-2019

EPISODE – 98

नूतना समस्या –

“दुःखेषु च सुखेषु च”

ഒന്നാംസ്ഥാനം

വിവേകോ ഹി മനുഷ്യാണാം
ദൈവദത്തം മഹാധനം
നൈവ ത്യാജ്യം കദാ പി തത്
ദു: ഖേഷു ച സു ഖേഷു ച

Narayanan Namboothiri

“അഭിനന്ദനങ്ങള്‍”