संस्कृतकलाशालायाम् आचार्यानुस्मरणं डो. के.बी. राजीव् अनुस्मरणनिधिवितरणं च।

तिरुवनन्तपुरम्- सर्वकारीय संस्कृतकलाशालायां प्राध्यपकपदवीं वहन् अकालमृत्युं प्राप्तस्य डो. के.बी. राजीव् वर्यस्य स्मरणार्थम् आयोजितस्य अनुस्मरणनिधेः वितरणं आचार्यानुस्मरणं च कलालयश्रोतशालायां सम्पन्नमभवत्। समारोहः संस्कृतसर्वकलाशाला कुलपतिचरः डो. एन्.पी.उण्णि वर्यः उदघाटयत्। राज्य-शैक्ष्कानुसन्धान-परिषदः निदेशकः डो. जे प्रसाद् वर्यः मुख्यभाषणमकरोत्। प्राध्यापकः डो. के. उण्णिकृष्णन् वर्यः अध्यक्षः आसीत्।

कलालयशिक्षाविभागस्य उपाध्यक्षचरः पुत्तुर् बालकृष्णन् नायर्, मृत्युमुपगतान् भूतपूर्वान् अध्यापकान् प्राध्यापकान् च अन्वस्मरत्। भूतपूर्वछात्रसंघस्य कार्यदर्शी आर् गिरीष् कुमार् प्रभृतयः आशंसामर्पयन्।

ज्योतिषे स्नातकोत्तरपरीक्षायां प्रथमस्थानमाप्तायाः पि.एस् वर्षा इति छात्रायाः कृते स्मारकनिधिं समार्पयत्। त्रिशताधिकाः जनाः भागमभजन्त।

Leave a Reply

Your email address will not be published. Required fields are marked *