Monthly Archives: February 2018
अशान्तस्य मृतदेहं प्रति अनादरः, एतादृशी घटना नावर्तनीया। प्रोफ. एम्.के. सानू।
कोच्ची – अशान्तः इति चित्रकारस्य मृतदेहं प्रति जातः अनादरः असहनीय एव। एतादृशाः सम्भवाः इतः परं न आवर्तनीय इति प्रोफ. एम्.के. सानूवर्यः। सास्कृतिकलोकाः एतादृशान् सम्भवान् प्रति जागरूकाः भवेयुरिति स अवदत्।
एतादृशः अनादरः नाङ्कीकर्तुं शक्यते। कस्यचन अनुगृहीतकलाकारस्य मृतदेहः ललितकला अक्कादमीं विहाय कुत्र प्रदर्शयितुं शक्यते इति स अपृच्छत्। मन्दिराधिकारिणः एतादशात् विरुद्धकार्यात् प्रतिनिवर्तनीयाः इत्यपि स असूचयत्।
कविवर्यं कुरीप्पुष श्रीकुमारं प्रति आक्रमणम्, दृढकर्मस्वीकारार्थं मुख्यमन्त्री रक्षिदलं निरदिशत्।
कोल्लम् – कुरीप्पुष श्रीकुमारवर्यं कश्चन सङ्घः प्रतिरुरोध। कोल्लं कटक्कल् समीपे कोट्टुङंकल् देशे एव तं कविवर्यं प्रति आक्रमणं जातम्। कोट्टुक्कल् ग्रन्थालयेन आयोजिते सामान्याधिवेशने भाषणार्थमागत आसीत् कविः।
वटयम्पाटी जातिसमरमनुबन्ध्य स अधिवेशने भाषितवानासीत्। भाषणानन्तरम् आगतैः कैश्चन जनैः स प्रतिरुद्धो/भवत्। सङ्घर्षे जाते ग्रन्थालयप्रवर्तकाः आगत्य तं ततः बहिरानयत्। तथापि ईदृशानि प्रवर्तनानि असहनीयानि इति मत्वा स तान् आक्रमणकारिणः विरुद्ध्य रक्षिदलाय आवेदनमदात्। अत एव मुख्यमन्त्रिणः अयमादेशः
पण्यसेवाकरं प्रति रूक्षविमर्शनेन सह मुख्यमन्त्री।
तिरुवनन्तपुरम्- केन्द्रप्रशासनेन प्रवृत्तिपथमानीतं पण्यवस्तुसेवाकरं विरुध्य केरलमुख्यमन्त्री पिणरायि विजयः अभाषत। पण्य वस्तुसेवाकरस्य प्राबल्येन सामान्यजनानां जीवनं दुस्सहमभवत् राष्ट्रे आर्थिक अराजकत्वं प्रचलतीति च स उक्तवान्।
मार्क्स् वादी साम्यवादी दलस्य तिरुवनन्तपुरं जनपदाधिवेशनम् उद्घाटयन् भाषमाण आसीत् सः। जी.एस्.टी. प्राबल्येन आर्थिकगतिः अधस्तात् जाता। अतः साधारणजनानां प्रयोजकरूपेण वस्तुसेवाकरस्य पुनःक्रमीकरणम् आवश्यकमिति स उक्तवानासीत्।
PRASNOTHARAM – 10-02-2018
प्रश्नोत्तरम्।
- केरलकलामण्डलं कल्पितसर्वकलाशालायाः नूतन उपकुलपतिः कः ? (क) डोः धर्मराज् अटाट् (ख) डोः टी के नारायणः (ग) डोः के जी पौलोस्
- ” 2018 Under 19 World Cup Cricket ” क्रीडायाः अन्तिमस्पर्धायां विजयं प्राप्तस्य राष्ट्रस्य नाम किम् ?(क) भारतम् (ख)आस्ट्रेलिया (ग)पाक्किस्थान्
- ” अथ शब्दानुशासनम् ” सूत्रमेतत् – (क) ब्रह्मसूत्रस्य (ख)महाभाष्यस्य (ग) प्रक्रियासर्वस्य
- कारकाणि – (क) ६ (ख) ७ (ग) ८
- ” भीत्रार्थानां भयहेतुः ” किं कारकम् अभिप्रेतम् ? (क) करणम् (ख) अपादानम् (ग) अधिकरणम्
- पृथिव्याः स्वभावः – (क) शब्दः (ख) स्पर्शः (ग) गन्धः
- ———उच्छिष्टं जगत्सर्वम् । (क) बाणस्य (ख) भारवेः (ग) पाणिनेः
- शकुन्तलापुत्रः ——–। (क) श्वेतकेतुः (ख) सर्वदमनः (ग) आरुणिः
- मेघदूतम् एकम् ———-।(क)महाकाव्यम् (ख) चम्पूकाव्यम् (ग) खण्डकाव्यम्
- पठत संस्कृतम्। अत्र कर्तृपदं किम् ? (क) त्वम् (ख) वयम् (ग) यूयम्
ഈയാഴ്ചയിലെ വിജയി
ARCHANA.K. V , Kannur university B.Ed centre, Dharmasala
“അഭിനന്ദനങ്ങള്”
1. ടി.കെ.നാരായണ:
2. ഭാരതം
3 .മഹാഭാഷ്യസ്യ
4. ഷട്
5. അപാദാനം
6. ഗന്ധ:
7. ബാണസ്യ
8. സർവദമന:
9. ഖണ്ഡകാവ്യം
10. യൂയം
9 ശരിയുത്തരങ്ങളയച്ചവര്:
- Dr. P. Narayanan
- ARCHANA.K. V , Kannur university b.ed centre, Dharmasala
- Rajalekshmi.A
- GOKUL P
- RAJANI
- Smitha nambiar GHS Nellikkurussi
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
कार्यं नित्यं हि सज्जनैः – 10-02-2018
नूतनी समस्या-
“कार्यं नित्यं हि सज्जनैः”
Last date: 10-02-2018
സമസ്യ ഒന്നാംസ്ഥാനം
दुर्जनैः सह संल्लापः
कलहोपि निरन्तरम्।
परुषं भाषणं नैव
कार्यं नित्यं हि सज्जनैः।।
ആര്യാംബിക
“അഭിനന്ദനങ്ങള്”
अधस्तात् संलग्नेन मृतदेहेन साकं लोकयानं ७० कि.मी.दूरं गतम्।
बङ्गलूरु – वाहनस्य अधस्तात् संलग्नं मृतदेहमदृष्ट्वा चालकः बस् यानं ७० कि.मी. दूरं चालितम्। तमिल्नाटु कूनूर् तः बङ्गलूरु नगरं प्रति प्रस्थितं कर्णाटक परिवहण निगमस्य वातानुकूलितशयनयानमेव एवं यातम्। अस्मिन् प्रकरणे शान्तिनगर् यानास्थानस्थः चालकः मोहिनुद्दीन् नामकः रक्षिदलेन गृहीतः। तमिल् नाटु तः कर्णाटके चन्नपट्टणं प्राप्ते याने यानन्तर्भागात् घोररवमशृणोत् इति चालकः रक्षिदलमवदत्। अश्मसंघट्टनेन स्यात् रवमिति मत्वा पुनः प्रस्थित इति च चालको/वदत्। निस्थानं प्राप्तं बस्यानं यदा क्षालनाय नीतं तदा अधोभागे मृतदेहमपश्यत्। झटिति क्षालकः अधिकारिणं सूचयति स्म।
विख्यातः संस्कृतपण्डितः महाकविश्च मुतुकुलं श्रीधरः दिवं गतः।
मुतुकुलम्- प्रसिद्धः संस्कृतपण्डितः महाकविश्च श्रीमान् मुतुकुलं श्रीधर् वर्यः कालयवनिकामगच्छत्। संस्कृते कैरल्यां च नैकान् ग्रन्थान् प्रणीतवानयम्।
१९२६ जनुवरी २६ दिनाङ्के कायंकुलं समीपे मुतुकुलं देशे अयं जातः। वासुदेवन् नायर् गौरियम्मा च तस्य पितरौ। नीलकण्ठशर्मावर्यस्य शिष्यात् नारायणनाशान् वर्यात् अयं संस्कृतस्य बालपाठान् स्वायत्तीकृतवान्। मुतुकुलं संस्कृतविद्यालयात् प्रथमतया शास्त्री परीक्षाम् उत्तीर्णवानयम्। षोडशे वयसि संस्कृतविद्यालये अध्यापको जातः। अनन्तरं नववर्षपर्यन्तं सेनायां सेवनमकरोत्। पुनः प्रत्यागत्य अध्यापनरङ्गे एव निरतो/भूत्।
अस्य प्रथमां कवितां षोडशे वयस्येव प्रकाशितवान्। १९७६ तमे वर्षे केन्द्रसर्वकारसाहाय्येन नवभारतं नामकं अस्य प्रथमं संस्कृतमहाकाव्यं च प्रकाशितवान्। ततः विद्याधिराजविजयं, नायकाभरणम्, शुभानन्दगुरुदेवचरितम्, अमृतायनम्, धर्मस्थलीयम्, नीलकण्ठगुरुपादचरितम्, इत्येतानि महाकाव्यानि रचितवान्।अश्रुपूजा इति संस्कृतविलापकाव्यमपि अनेनैव प्रणीतम्।
कालिदासस्य मेघदूतं श्रीहर्षस्य नागानन्दं चायं कैरल्यामनूदितवान्। कैरलीभाषाव्याकरणम् अलङ्कारशास्त्रं चाधिकृत्य प्रक्रियासागरः अलङ्कारप्रदीपिका चेति ग्रन्थद्वयं प्रणीतवानयं यदस्य पाण्डित्यप्रकाशकं भवति। अस्य विशिष्टे कृती भवतः श्रीनारायणगुरुदेवचरितामृतम् विद्याधिराजचरितामृतं च।
१९७७ तःअनुस्यूततया एकदशककालं यावत् आकाशवाणीतः सुभाषितानि अवतारितवानयम्।
आदिकविपुरस्कारः,तुलसीवनपुरस्कारः, कविराजपुरस्कारः पण्डितरत्नपुरस्कारश्च अनेन प्राप्तः। परन्तु केन्द्र,राज्यसर्वकाराणाम् अङ्गीकारः अनेन न प्राप्तः इति खेदकर एव।
पद्मावत् चलच्चित्रं रजपुत्राणां प्रतापस्य त्यागस्य च महत्वम् उपपादयति – कर्णिसेना।
दिल्ली- रजपुत्रान् अधिक्षिपतीति आरोपणमुन्नीय पद्मावत् इति चलचित्रं विरुद्ध्य अक्रमसङ्घर्षाः प्रचलिताः आसन्। चलचित्रमदृष्ट्वा प्रतिषेधं प्रकटितवन्तः अधुना चित्रं दृष्ट्वा प्रतिषेधात् विरमन्ति।
सञ्जय् लील बन्सालीवर्यस्य पद्मावत् इति चलच्चित्रं विरुध्य प्रक्षोभः समापयतीति रजपुत्रकर्णिसेनावक्तारः अवदत्। चित्रं कदापि सजपुत्रान् न अधिक्षिपतीति बोधेनैव प्रक्षोभमवसीयते इति ते अवदन्।
केरलराज्यस्य २०१८-१९ वर्षस्य कृते आर्थिकसङ्कल्पः प्रस्तुतीकृतः। शिक्षाक्षेत्रे नूतनी पद्धतिः।
तिरुवनन्तपुरम् – केरलस्थान् सामान्यविद्यालयान् श्रेष्ठतायाः केन्द्ररूपेण परिवर्तयिष्यतीति वित्तमन्त्री तोमस् ऐसक् वर्यः अवदत्। विधानसभायां २०१८-१९ वर्षस्य आर्थिकसङ्कल्पं प्रस्तुतीकृत्य भाषमाण आसीत् सः। ४५००० अतिसाङ्केतिककक्ष्याप्रकोष्ठः ४०००० पेशलकक्ष्याप्रकोष्ठः अस्मिन्नेव वर्षे प्रवृत्तिपथमानेष्यति। अपि च ५०० तः अधिकं छात्रयुक्तानां विद्यालयाना कृते एककोटि रूप्यकाणि च प्रदास्यति। विद्यालयानां सिद्धतासंवर्धनाय तथा अध्ययनस्य श्रेष्ठतापरिवर्धनाय च अनेकाः परियोजनाः प्रख्यापिताः।
प्राथमिक-माध्यमिकविद्यालयानां कृते सङ्गणककक्ष्यास्थापनार्थं किफ्बी द्वारा ३०० कोटि रूप्यकाणि १३८ विद्यालयान् सिद्धताकेन्द्रान् कर्तुं ६१४ कोटिरूप्यकाणि च किफ्बी द्वारा प्रदास्यति १०००अधिकं छात्रयुक्ताय ७० विद्यालयाय २१० कोटिरूप्यकाणि सुविधासंवर्धनार्थं दास्यति। फिब्रुवरीमासान्तात् पूर्वम् एतस्य आरम्भं करिष्यति।
फिटल् कास्ट्रोवर्यस्य पुत्रः आत्मानं जुहाव, परिक्रान्तिनेतुः पुत्रस्य दारुणम् अन्त्यम्।
हवान – क्यूबा परिक्रान्तिनेतुः फिटल् कास्ट्रोवर्यस्य वरिष्ठपुत्रः डयस् बल्लार्ट वर्यः आत्महत्यामकरोत्। गुरुवासरे प्रातः एव तम् आत्माहुतम् अपश्यत्। बहुकालपर्यन्तं विषादरोगस्य चिकित्सायामासीत् इति क्यूबा औद्योगिकमाध्यमस्य सूचना। ६८ वयस्कः बल्लार्ट् मासान् यावत् वैद्यसङ्घस्य चिकित्सायामासीदिति क्यूबा डिबेट् जालपुटे/पि सूचना अस्ति।
परमाणुशास्त्रज्ञः बल्लार्ट् सोवियट् रष्यायामेव पठनमकरोत्। अधुना क्यूबन् कौण्सिल् आफ् स्टेट्स् संस्थायाः शास्त्रोपदेशकरूपेण तथा क्यूबन् अक्कादमि आफ् सयन्स् इत्यस्य उपाध्यक्षरूपेण च प्रवर्तयन्नासीत्