Daily Archives: February 25, 2018

नार्यो राष्ट्रस्य सम्पदः – 03-03-2018

 

नूतनी समस्या-

“नार्यो राष्ट्रस्य सम्पदः”

ഒന്നാംസ്ഥാനം

वनस्य सम्पदो वृक्षाः
गावश्च गृहसम्पदः।
सुपुत्राः परिवारस्य
नार्यो राष्ट्रस्य सम्पदः।।

पुरुषोत्तमः वेल्लञ्चिरा

“അഭിനന്ദനങ്ങള്‍”

PRSNOTHARAM – 03-03-2018

 

प्रश्नोत्तरम्

 

Last date: 03-03-2018

 

  1. “अटवी ” इत्यस्य समानपदम् ? (क) तटाकम् (ख) कूपः (ग) वनम्
  2.  ” एकोनविंशतिः ” इति संस्कृतसंख्या कथं लिखति ? (क) १८  (ख) १९  (ग) २१
  3. कस्य मुखात् परीक्षित् महाराजः भागवतं श्रुतवान् ? (क) श्रीशुकस्य (ख) वालमीकेः (ग) नारदस्य
  4. संस्कृतम् उपभाषारूपेण घोषितस्य राज्यस्य नाम किम् ? (क) तमिल्नाटु (ख) उत्तराखण्ड् (ग) हिमाचल् प्रदेशः
  5. वेदेषु एव प्रयुज्यमानः लकारः कः ? (क) लृट्  (ख) लङ् (ग) लेट्
  6. ” अस्मद् ” शब्दस्य षष्ठी बहुवचनरूपम् ? (क) अस्माभिः (ख) अस्मत् (ग) अस्माकम्
  7. संस्कृतेन ज्ञानपीठपुरस्कारं प्राप्तवान् कः? (क) सत्यव्रतशास्त्री (ख) डा. विश्वासः  (ग) वासुदेवन् पोट्टी
  8. ” विद्याञ्च  ” इत्यस्य पदच्छेदः कथम् ? (क) विद्याः + च (ख) विद्या + च (ग) विद्याम् +च
  9. मम ——- परितः वृक्षाः सन्ति । (क) गृहात् (ख) गृहस्य (ग) गृहम्
  10. श्रीशङ्कराचार्यस्य मातुः नाम किम् ? (क) आर्याम्बा (ख) भुवनेश्वरीदेवी (ग) पुत्तलीभायी

ഈയാഴ്ചയിലെ വിജയി

Smitha nambiar GHS Nellikkurussi

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • Smitha nambiar GHS Nellikkurussi
  • കൃഷ്ണൻ ഓ പി
  • Bushara . V. P. G U P S. Nediyanga 

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

विख्याता चलचित्राभिनेत्री श्रीदेवी अन्तरगात्।

मुम्बै- बोलिवुड् अभिनेत्री श्रीदेवी दिवंगता। सा ५४ वयस्का आसीत्। शनिवासरे रात्रौ दुबाय् राष्ट्रे हृदयाघातेन आसीदन्त्यम्।

     मलयालं, तमिल्, तेलुगु, कन्नटा, हिन्दी प्रभृतिषु भाषासु सा अभिनेत्री आसीत्। शताधिकेषु चलचित्रेषु अभिनीय भारतस्य लेडी सूप्पर् स्टार् पदवीमारूढा श्रीदेवी १९७१ तमे वर्षे पूम्पाट्टा इति कैरलीचलचित्रे बालताररूपेण चलचित्रमण्डलमागता आसीत्। सा २६ मलयालचलचित्रेषु नायिका आसीत्।

     १९९७ तमे वर्षे अभिनयरंगात् विरम्य कञ्चित्कालम् अतिष्ठत्। पुनः २०१२ तमे वर्षे इङ्गीष् विङ्ग्लीष् इति चित्रद्वारा पुनः रङ्गं प्राविशत्। २०१७ तमे वर्षे/पि सा अभिनयरङ्गे निरता आसीत्। अस्याः भौतिकं देहम् अद्य मुम्बै नगरमानेष्यति।