कविवर्यं कुरीप्पुष श्रीकुमारं प्रति आक्रमणम्, दृढकर्मस्वीकारार्थं मुख्यमन्त्री रक्षिदलं निरदिशत्।

कोल्लम् – कुरीप्पुष श्रीकुमारवर्यं कश्चन सङ्घः प्रतिरुरोध। कोल्लं कटक्कल् समीपे कोट्टुङंकल् देशे एव तं कविवर्यं प्रति आक्रमणं जातम्। कोट्टुक्कल् ग्रन्थालयेन आयोजिते सामान्याधिवेशने भाषणार्थमागत आसीत् कविः।

     वटयम्पाटी जातिसमरमनुबन्ध्य स अधिवेशने भाषितवानासीत्। भाषणानन्तरम् आगतैः कैश्चन जनैः स  प्रतिरुद्धो/भवत्। सङ्घर्षे जाते ग्रन्थालयप्रवर्तकाः आगत्य तं ततः बहिरानयत्। तथापि ईदृशानि प्रवर्तनानि असहनीयानि इति मत्वा स तान् आक्रमणकारिणः विरुद्ध्य रक्षिदलाय आवेदनमदात्। अत एव मुख्यमन्त्रिणः अयमादेशः

Leave a Reply

Your email address will not be published. Required fields are marked *