Daily Archives: February 18, 2018

संस्कृतं मम जीवनम् – 24-02-2018

 

नूतनी समस्या

“संस्कृतं मम जीवनम्”

 

ഒന്നാംസ്ഥാനം

येनेदं भारतं भाति
भाति येन च भारती।
द्वयोरप्येकमूलत्वात्
संस्कृतं मम जीवनम्।।

सुकुमारः।

“അഭിനന്ദനങ്ങൾ”

कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये शास्त्रयान् पद्धतिः फेब्रुवरी २०,२१ दिनाङ्कयोः।

कालटी – विश्वनिद्यालयस्य प्रवर्तनानि योगदानानि च सम्यगवगन्तुं साधारणजनानामवकाशः कल्पनीयः इति विज्ञाय सर्वकारैः रूपवत्कृता पद्धतिर्भवति शास्त्रयान्। अस्याः पद्धतेः भागत्वेन कालटी श्रीशङकराचार्य संस्कृत सर्वकलाशालायां विविधाः कार्यक्रमाः आयोजिताः।

     नाक् समितेः ए ग्रेड् अङ्गीकारः प्राप्तः केरलस्थः प्रथमः विश्वविद्यालयः भवति कालटी संस्कृतविश्वविद्यालयः। कालटीस्थं मुख्यकेन्द्रमतिरिच्य अष्टौ प्रादेशिककेन्द्राणि सन्ति अस्य विश्वविद्यालयस्य। भाषाः मानविकविषयाः अभिनयप्रकारः नृत्तं सङ्गीतं चित्रकला सामाजिकप्रवृत्तयः कायिकपठनम् इत्यादयः वैविध्यपूर्णाः पठनविभागाः अत्र सन्ति।

     पूर्वोक्तां शास्त्रयान् पद्धतिमनुसृत्य २०१८ फिब्रुवरी २०,२१ दिनाङ्कयोः अत्रायोजिते कार्यक्रमे सामान्यजनानां कृते प्रभूतः अवकाशः कल्पितः। ते अत्रागन्तुं प्रभवन्ति, विविधानां पठनविभागानां प्रवर्तनानि निरीक्ष्य मूल्यनिर्णयं कर्तुमपि प्रभवन्ति। सममेव २० तमे दिनाङ्के विद्यालयीयछात्राणां कृते चित्ररचनामत्सरः आयोजितः। अस्मिन् मत्सरे प्रतिविभागं प्रथमं, द्वितीयं, तृतीयं च स्थानमाप्तवतां कृते यथाक्रमं ५०००,३०००,२००० रूप्यकाणां पारितोषिकमपि ददाति।

     अस्याः पद्धतेः उद्धाटनं २० तमे दिनाङ्के उपकुलपतेः धर्मराज् अटाट् वर्यस्य आध्यक्ष्ये कालटी ग्रामपञ्चायत् अध्यक्षा श्रीमती तुलसीभाय् वर्या विधास्यति। राष्ट्रिय-उच्चतरशिक्षा-अभियानस्य राज्यस्तरीया पद्धतिसंयोजिका एं.एस्. जया ऐ.ए.एस्. वर्या  मुख्यप्रभाषणं विधास्यति। द्वयेरपि दिनयोः सर्वे  अक्कादमिकविभागाः तत्तत्पठनगवेषणादीनाम् अवतारणं करिष्यन्ति। संस्कृतशास्त्रविषये केरलीयानां पारम्पर्यम् इति विषये एका विचारगोष्ठिरपि अस्याः भागत्वेनायोजिता।

     सर्वैः अस्यावसरस्य सदुपयोगः करणीयः इति भारवाहिणः अवदन्।

PRASNOTHARAM – 24-02-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. सङ्गीतप्रधानवेदः कः? (क) सामवेदः (ख) यजुर्वेदः (ग) ऋग्वेदः
  2. संस्कृतस्य प्रथमः चम्पूग्रन्थः भवति नलचम्पुः। तस्य कर्ता कः? (क)त्रिविक्रमः (ख)माघः (ग)कालिदासः
  3. नाट्यशास्त्रस्य कैरली विवर्तकः कः?(क) अच्युतपिषारटिः (ख) एषुत्तच्छन् (ग)के पि नारायणपिषारटिः
  4. मत्तूर् संस्कृतग्रामः कर्णाटकस्य कस्यां जिल्लायां वर्तते ? (क) शिवमोगा (ख) होसूर् (ग)बङ्गलूरु
  5. पञ्चमहाकाव्यानाम् व्याख्याता कः? (क)मल्लीनाथः (ख)दण्डिः (ग) भारविः
  6. अधो दत्तेषु केरलीयसमाजपरिष्कर्ता कः?(क) श्रीरामकृष्णपरमहंसः (ख) स्वामी विवेकानन्दः (ग)श्रीनारायणगुरुः
  7. नौकागानकर्ता कः?(क) रामपुरत्तु वार्यर्  (ख)वल्लत्तोल् (ग) कुमारनाशान्
  8. चट्टम्पिस्वामी कुत्र जनिमलभत ? (क) कालटि (ख) मेल्पत्तूर् (ग)कोल्लूर्
  9. बाल्ये विवेकानन्दस्य नाम किमासीत् ? (क) भास्करः (ख)रवीन्द्रः (ग) नरेन्द्रः
  10. अधोदत्तेषु ‘ वारि ‘ इत्यर्थकं पदं चित्वा लिखत ।(क)तटिनी (ख)सुधा (ग)सलिलम्

ഈയാഴ്ചയിലെ വിജയി

Bushara . V. P. G U P S. Nediyanga . Kannur dist.

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരമയച്ചവർ:

  • Bushara . V. P. G U P S. Nediyanga . Kannur dist.
  • Rohith M S
  • Gokul P
  • Rajani PG
  • सुकुमारः
  • Dr. P Narayanan
  • Wilson T
  • Suresh babu
  • Sreedevi V
  • Manikandan K K
  • Mariya K W

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”