पण्यसेवाकरं प्रति रूक्षविमर्शनेन सह मुख्यमन्त्री।

तिरुवनन्तपुरम्- केन्द्रप्रशासनेन प्रवृत्तिपथमानीतं  पण्यवस्तुसेवाकरं विरुध्य केरलमुख्यमन्त्री पिणरायि विजयः अभाषत। पण्य वस्तुसेवाकरस्य प्राबल्येन सामान्यजनानां जीवनं दुस्सहमभवत् राष्ट्रे आर्थिक अराजकत्वं प्रचलतीति च स उक्तवान्।

     मार्क्स् वादी साम्यवादी दलस्य तिरुवनन्तपुरं जनपदाधिवेशनम् उद्घाटयन् भाषमाण आसीत् सः। जी.एस्.टी. प्राबल्येन आर्थिकगतिः अधस्तात् जाता। अतः साधारणजनानां प्रयोजकरूपेण वस्तुसेवाकरस्य पुनःक्रमीकरणम् आवश्यकमिति स उक्तवानासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *