Daily Archives: February 2, 2018

केरलराज्यस्य २०१८-१९ वर्षस्य कृते आर्थिकसङ्कल्पः प्रस्तुतीकृतः। शिक्षाक्षेत्रे नूतनी पद्धतिः।

तिरुवनन्तपुरम् – केरलस्थान् सामान्यविद्यालयान् श्रेष्ठतायाः केन्द्ररूपेण परिवर्तयिष्यतीति वित्तमन्त्री तोमस् ऐसक् वर्यः अवदत्। विधानसभायां २०१८-१९ वर्षस्य आर्थिकसङ्कल्पं प्रस्तुतीकृत्य भाषमाण आसीत् सः। ४५००० अतिसाङ्केतिककक्ष्याप्रकोष्ठः ४०००० पेशलकक्ष्याप्रकोष्ठः अस्मिन्नेव वर्षे प्रवृत्तिपथमानेष्यति। अपि च ५०० तः अधिकं छात्रयुक्तानां विद्यालयाना कृते एककोटि रूप्यकाणि च प्रदास्यति। विद्यालयानां सिद्धतासंवर्धनाय तथा अध्ययनस्य श्रेष्ठतापरिवर्धनाय च अनेकाः परियोजनाः प्रख्यापिताः।

     प्राथमिक-माध्यमिकविद्यालयानां कृते सङ्गणककक्ष्यास्थापनार्थं किफ्बी द्वारा ३०० कोटि रूप्यकाणि १३८ विद्यालयान् सिद्धताकेन्द्रान् कर्तुं ६१४ कोटिरूप्यकाणि च किफ्बी द्वारा प्रदास्यति १०००अधिकं छात्रयुक्ताय ७० विद्यालयाय २१० कोटिरूप्यकाणि सुविधासंवर्धनार्थं दास्यति। फिब्रुवरीमासान्तात् पूर्वम् एतस्य आरम्भं करिष्यति।

फिटल् कास्ट्रोवर्यस्य पुत्रः आत्मानं जुहाव, परिक्रान्तिनेतुः पुत्रस्य दारुणम् अन्त्यम्।

हवान – क्यूबा परिक्रान्तिनेतुः फिटल् कास्ट्रोवर्यस्य वरिष्ठपुत्रः डयस् बल्लार्ट वर्यः आत्महत्यामकरोत्। गुरुवासरे प्रातः एव तम् आत्माहुतम् अपश्यत्। बहुकालपर्यन्तं विषादरोगस्य चिकित्सायामासीत् इति क्यूबा औद्योगिकमाध्यमस्य सूचना। ६८ वयस्कः बल्लार्ट् मासान् यावत् वैद्यसङ्घस्य चिकित्सायामासीदिति क्यूबा डिबेट् जालपुटे/पि सूचना अस्ति।

     परमाणुशास्त्रज्ञः बल्लार्ट् सोवियट् रष्यायामेव पठनमकरोत्। अधुना क्यूबन् कौण्सिल् आफ् स्टेट्स् संस्थायाः शास्त्रोपदेशकरूपेण तथा क्यूबन् अक्कादमि आफ् सयन्स् इत्यस्य उपाध्यक्षरूपेण च प्रवर्तयन्नासीत्