Monthly Archives: December 2017

अन्ताराष्ट्र चलचित्रोत्सवस्य अद्य शुभारम्भः।

अनन्तपुरी – अन्ताराष्ट्रिय चलचित्रोत्सवस्य अद्य अनन्तपुर्यां शुभारम्भः। सियाद् दौयिरी वर्यस्य निदेशने द इन्सल्ट् इति लेबनीस् चलच्चित्रं प्रदर्शयन् एव अष्टदिनात्मकस्य उत्सवस्य आरम्भः क्रियते। निशागन्धी वेदिकायाम् अद्य उद्घाटनानन्तरं सायं षट् वादने चित्राणि प्रदर्शयिष्यति। माधवी मुखर्जी प्रकाश् राज् प्रभृतयः भागं भजिष्यति।
१४ वेदिकायां ४४५ चित्राणि अस्मिन्नुत्सवे प्रदर्शयिष्यन्ति , तानि ६५ राष्ट्रेभ्यः आगतानि।दिदृक्षूणां कृते आरक्षणसुविधा आयोजिता।

ओखी चक्रवातेन बाधितानां कृते १५० कोटिमितसहायपद्धतिः प्रख्यापितः।

तिरुवनन्तपुरम् – ओखी चक्रवातेन मृतानां परिवाराय २०लक्षरूप्यकाणि एवम् दुराबाधितानां कृते च आहत्य १५० कोटिमिता साहाय्यपद्धतिः केरलसर्वकारेण प्रख्यापितः। तदन्तरे गुजरातस्य तटवर्तिक्षेत्रे अस्य प्रभावः नैव भविष्यतीति सम्भाव्यते। परं अहम्मदाबादस्थितेन ऋतुविज्ञानविभागेनोक्तं  यत् दक्षिणगुजराते चक्रवातस्य किञ्चित् प्रभावः भवितुं शक्यते।

जेरुसलें नगरम् इस्रायेलस्य राजधानीं कर्तुम् उद्यमः, विरुध्य अरब् राष्ट्राणि यूरोपीयराष्ट्राणि च।

जरुसलें नगरम् इस्रायेलस्य राजधानीं कर्तुं तस्य राष्ट्रस्य अद्यमे तुर्की राष्ट्रपतिः रजब् त्वायिब् उरुदुगान् वर्यः विप्रतिपत्तिं प्राकटयत्। इस्लामिकलोकस्य रक्तरेखास्ति अयं निर्णय इति वदन् स इस्रायेलेन सह नयतन्त्रबन्धं समापयिष्यति इति भीषां च सूचितवान्। इस्लामीयानां तृतीयं विशुद्धकेन्द्रं मस्जिदुल् अख्सा जरुसलेमे अस्ति। तादृशं नगरम् इस्रायेलस्य राजधानीं कर्तुं कृतं निर्णयं विरुध्यैव विश्वव्यापकः प्रतिषेधः। अमेरिक्का नयतन्त्रकार्यालयं टेल् अवीव् तः जेरुसवें नगरं नेष्यति इति अमेरिक्का राष्ट्रपतिः डोणाल्ड् ट्रम्पः न्यगादीत्। ट्रम्पस्य प्रस्तावनां विरुध्य अरब् राष्ट्राणि यूरोपीय राष्ट्राणि च तिष्ठन्ति।

अम्बेद्कराय श्रद्धाञ्जलिः।

नवदिल्ली – कृतज्ञराष्ट्रम् अद्य डो. बीमाराव अम्बेद्करस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिः समर्पयति। दिवसोsयं महापरिनिर्वाणदिवसत्वेन समायोज्यते। अत्रावसरे सामाजिक-न्यायाधिकारिता-मन्त्रालयस्य तत्वावधाने डो. अम्बेद्करप्रतिष्ठानेन संसदः परिसरे मुख्यकार्यक्रमः समायोजयिष्यते। यस्मिन् जनाः अम्बेद्कराय श्रद्धाञ्जलिं समर्पयिष्यन्ति।

सामान्यविद्याभ्यास-संरक्षणयज्ञः अस्माभिः दृढयितव्यः – शिक्षामन्त्री।

आलुवा – अत्र प्रचलितायां अद्यतनीय- सामान्यविद्याभ्यास-संरक्षणयज्ञस्य समालोचनायां प्राध्यापकैः सह सम्भाषमाणः प्रोफ. सी रवीन्द्रनाथः अकथयत् यत् समाजे पार्श्वीकृतानां रक्षायै समतायै च सामान्यविद्याभ्यासस्य पन्थाः संरक्षणीयाः। पूर्वकाले या अध्यापककेन्द्रीकृता पठनप्रणाली आसीत् सा इदानीं छात्रकेन्द्रीकृता सञ्जाता। सामान्यविद्याभ्यास-संरक्षणे त्रयः स्तराः तेन स्मारिताः। प्रथमं तस्य दर्शनं, द्वितीया प्रवर्तनपद्धतिः, तृतीयस्तु कार्यक्रमाश्च। तस्मिन् संरक्षिते सत्येत सर्वं समाजं संरक्षितं भवेत्, शुचित्वयुक्ता पाकशाला-भोजनशाला, जैववैविद्ययुक्ताङ्कणः, शोचनालयादयश्च सर्वकारीयः तथा इतरविद्यालयेषु अवश्यं स्थापयितव्याः इति च स अस्मारयत्।

     एऱणाकुलं जिल्ला विद्याभ्यासाधिकारी अस्मिन् योगे आध्यक्ष्यम् आवहत्। श्री सुधीर् बेबि ऐ.ए.एस्, श्रीमती जया ऐ.ए.एस् च आशंसाः अर्पितवन्तौ।

बोलीवुड् चलच्चित्रलोके इतिहासतारकं शशिकपूर् वर्यः दिवंगतः।

मुम्बै – वरिष्ठः हिन्दी चलच्चित्रनटः शशिकपूर् दिवंगतः अभूत्। स ७९ वयस्कः आसीत्। वार्धक्येन अवशतामनुभूयमानः अयं मुम्बै कोकिल बेन् चिकित्सालये चिकित्सायामासीत्। सोमवासरे सायाह्ने एव अन्त्यो जातः।शताधिकेषु चलच्चित्रेषु अयं नायकः आसीत्। १९४० कालघट्टे बालतारत्वेन अभिनयरंगं प्राप्तः अयं १९६१ तमे वर्षे याष् चोप्रा वर्यस्य निदेशने धर्मपुत्र इति चलचित्रे प्रथमं नायकः अभवत्। १९८६ तमे वर्षे न्यूडेल्ही टैम्स् इति चित्रे अभिनीय राष्ट्रियपुरस्कारम् अवाप्तवान्। २०१५ तमे वर्षे चलचित्रमण्डलस्य परमोन्नतेन दादासाहेब् फाल्के पुरस्कारेणापि स समादृतो/भवत्।

भोपाल् दुरन्तस्य त्रयस्त्रिंशत्तमं वार्षिकं, क्षतिपूर्तिमलभमानाः बहवः।

भोपाल् वातकदुरन्तानन्तरं ३३ वर्षेषु अतीतेषु न्याय्यां निष्कृतिं तथा उत्तमां चिरित्सां च अलभमानाः दुरन्तबाधिताः नीतिलब्धये संग्रामं कुर्वन्ति।

     आमेरिक्कायाः रासायनिकौद्योगिकसंस्थाभूतस्य यूणियन् कार्बैड् निगमस्य भोपालस्थायां कीटनाशकनिर्माणशालायां संजातः दुरन्त एव भोपाल् दुरन्तः।

     प्रवर्तनमारभ्य अष्टमे वर्षे १९८४ दिसम्बर् २ दिनाङ्के मीथैल् ऐसो सयनेट् वातकपूरितायां सम्भरण्यां जलसान्निध्येन सञ्जातस्य रासप्रवर्तनस्य अनन्तरफलत्वेव सम्भरण्यां तापमानं २०० ड्ग्रि सेल्ष्यस् अधिकं जातम्। अपि च हैड्रजन् सयनेट् कार्बण् मोणोक्सैड् प्रभृतीनि वातकमिश्राणि मीथैल् ऐसो सयनेड् च अन्तरिक्षे व्यापृतानि। वातस्य दिशागत्यनुसारं वातकं भोपाल् नगरम् आसमन्तात् व्याप्तमभवत्। प्रायः ३०००० जनाः मारिताः। द्विलक्षाधिकं जनाः नित्यरोगिणश्च सञ्जाताः। कासः अर्बुदं तिमिरं बालान्धता क्षयरोगः विषादरोगः ज्वरः इत्येतैः रोगैः अभिभूताः दुरन्तबाधिताः तस्यानन्तरफलं परम्परया अद्यापि अनुभूयन्ते।

     विश्वस्य सर्वोच्चः औद्योगिकदुरन्त एव भोपाल् नगरे सञ्जातः। अमेरिक्कायाम् आस्थानभूतः यूणियन् कार्बैड् निगमः अद्यावधि केवलं ७१५ कोटि रूप्यकाणि एव क्षतिपूर्तये अदात्। १००० कोटि रूप्यकाण्यपि दातव्यानि इत्यावश्यमुन्नीय दुरन्तबाधिताः सर्वोच्चन्यायालये व्यवहारं कुर्वन्तः सन्ति।

ओखी दुरन्तः, रक्षामन्त्री निर्मला सीताराम् वर्या अद्य अनन्तपुरीं प्राप्नोति।

अनन्तपुरी- ओखी चक्रवातः दक्षिणकेरले महान्तं दुरन्तमवपत्। अस्मिन् प्रकरणे अत्र सञ्जातानि कष्टनष्टानि अवलोकयितुं केन्द्र-रक्षामन्त्री निर्मला सीताराम महाभागा अद्य अनन्तपुरीं प्राप्नोति। अनन्तपुर्यां व्योमसेना विमानपत्तने सायं त्रिवादने सा आगमिष्यति। अद्य अत्र सञ्जातानि नष्टानि पर्यालोच्य सा कन्याकुमारीं गमिष्यति इति सूचना।

PRASNOTHARAM – 09-12-2017

 

प्रश्नोत्तरम्

 

Last date : 09-12-2017

 

  1. ध्वनेः आचार्यः कः ?
  2. कति भासनाटकानि सन्ति ?
  3. “यास्यत्यद्य शकुन्तलेति हृदयं  ” कस्य उक्तिरियम् ?
  4. नागानन्दं कस्य कृतिः भवति ?
  5. “दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम्  ” कस्य वचनम् ?
  6. तर्कसङ्ग्रहस्य कर्ता कः ?
  7. कालटी श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः अधुनातन उपकुलपतिः (Vice Chancellor ) कः ?
  8. दक्षिणकेरलस्य समुद्रतीरे आगतस्य जञ्जावातस्य (Storm ) नाम किम् ?
  9. चैनामध्ये  प्रचलिते एष्यन् मारत्तोण् चाम्प्यन् षिप् ( Asian Marathon Championship ) स्पर्धायां सुवर्णं प्राप्तः प्रथमभारतीयः कः ?
  10. अष्टचत्वारिंशत्तमस्य गोवा अन्ताराष्ट्र चलचित्रोलत्सवे उत्तमा नटी (Best Actress )  का ?

ഈയാഴ്ചയിലെ പ്രശ്നോത്തരമത്സരവിജയി

RAJALAKSHMI A

NATIONAL HSS IRINJALAKUDA

“അഭിനന്ദനങ്ങള്‍”

ഉത്തരങ്ങളയച്ചവര്‍:

  1. RAJALAKSHMI A, National HSS Irinjalakuda
  2. KEERTHI,  sagarkeerthana1@gmail.com
  3. ATHULYA, Holy Cross HSS, Mapranam
  4. SMITHA NAMBIAR, GHS Nallikkurussi
  5. GOKUL P, Gokulam House, Thottakkara, Ottappalam
  6. RAJANI P G, Anangannadi HSS, Panamanna, Ottappalam
  7. UMA NEELAMANA, neelamana.uma@gmail.com
  8. SEETHA K KAPOTHAN, kapothan@gmail.com

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नैव जानामि भाषितुम् – 09-12-2017

 

नूतनी समस्या –

“नैव जानामि भाषितुम्”

Last Date : 09-12-2017

 

ഒന്നാംസ്ഥാനം

ഭാഷാസു മധുരാം മുഖ്യാം
ദിവ്യാം ഗീർവാണ ഭാരതീം
മേ തു വിദ്വത്സഭാമധ്യേ
നൈവ ജാനാമി ഭാഷിതും

Sankaranarayanan

“വിജയികൾക്ക് അഭിനന്ദനങ്ങൾ”