Daily Archives: October 15, 2017
राज्ये ६००० औषधानि निरुद्धानि। स्वास्थ्याय हानिकराणि इत्यवगतानि।
कोच्चि – दैनन्दिनरोगस्य प्रतिविधिरूपेण साधारणजनैः उपयुज्यमानानि ४४४औषधसंयुक्तानि केन्द्रीय स्वास्थ्यमन्त्रालयेन पुनरपि निरुद्धानि। तान्यन्तर्भूतानि ६००० पर्यन्तानि औषधानि इतःपरं निर्मातुंं विक्रेतुं वा न शक्यन्ते।
गतवर्षे मार्चमासे संभूतं निरोधनं विरुद्ध्य राष्ट्स्य विविधेषु उच्चन्यायालयेषु प्रवर्तनानाः व्यवहाराः सर्वोच्चन्यायालयेन स्थगिताः आसन्। तदनन्तरमेव औषधनियन्त्रकस्य जालपुटे शुक्रवासरे रात्रौ पुनरपि विज्ञापनं प्रसिद्धीकृतम्। पारसेट्टमोल्, कफीन्, अमोक्सलिन् प्रभृतिभिः सह विविधानि औषधसंयुक्तानि स्वास्थ्याय हानिकराणि इत्यतः तानि निरुद्धानि।
वेंगरा निर्वाचने के.एन्.ए. खादरः।
मलप्पुरम् – केरलराज्यस्य वेंगरा मण्डले संभूते उपनिर्वाचने मुस्लीमलीगस्य श्री के.एन्.ए खादरः विजयं प्राप्तः। अयं कम्यूनिस्टदलस्य पूर्वतननेता आसीत्। वेंगरायां श्री खादरेण मार्क्सवादिदलस्य बषीरस्योपरि 23311 मतदानमधिकम् सम्पादितम्। तथापि पूर्वस्मिन् निर्वाचने लीगस्य कुन्न्हालिक्कुट्टी 38000 भूरिपक्षं प्राप्तवानासीदिति विषयः यु.डि.एफ् सख्यस्य पराजयमिति कल्प्यते निरीक्षकैः। मार्क्सवादिदलेन 41917, तृतीयस्थाने एस्.डि.पि.ऐ 8648, केवलं 5728 मतदानमेव भाजपा दलेन च प्राप्तम्।
शिवकेशवेशिपञ्चरत्नस्तोत्रम् – शङ्करनारायणः आनक्करा।
(स्तोत्रमिदं संस्कृतभाषापक्षे
गङ्गापक्षे च व्याख्यातुं शक्यते।)
कलासु पूर्णा सकलासु पूर्णा
प्रयोगपूर्णा∫पि च योगपूर्णा।
वाण्यापगा संस्कृतवर्णपूर्णा
तनोतु नो शं शिवकेशवेशी।।
प्रपञ्चसारा∫खिलवेदसारा
सदुक्तिपुष्टा∫प्यसदुक्तिपेष्टा।
धिया प्रभूता∫∫त्मधिया च पूता
तनोतु नो शं शिवकेशवेशी।।
क्रियाविशुद्धा पदवाक्यशुद्धा
रसैः प्रसिद्धोपनिषत्सु श्रद्धा।
सदा प्रबुद्धा स्वरसन्निबद्धा
तनोतु नो शं शिवकेशवेशी।।
सतां शरण्या स्वजनैर्वरेण्या
नमस्कृता निर्जरराजवेण्या।
कृतारिलज्जा सुरसंघपूज्या
तनोतु नो शं शिवकेशवेशी।।
लसत्तरङ्गाभिनवा रसाढ्या
स्वसेवकेभ्यो शिवदानदक्षा।
सतां विरक्त्युन्मुखमुक्तिदात्री
तनोतु नो शं शिवकेशवेशी।।
यो वै पुमान् पूरितभक्तियुक्तः
भजेत् प्रभाते शिवकेशवीं ताम्।
वाण्यापगानुग्रहपूरितस्य
न तस्य वाणी स्खलिता कदापि।।