Daily Archives: October 1, 2017

रोहिङ्ग्या समस्या – स्यूचीं विरुद्ध्य प्रक्षोभः।

लण्टन्-

विश्वशान्तिविषये नोबल् पुरस्कारेण समादृतायाः ओङ् सान् स्यूची महाभागायाः छायाचित्रं विश्वप्रसिद्धात् ओक्स्फोर्ट् विश्वविद्यालयात् निष्कासितम्। लण्टन् नगरस्थस्य विश्वविद्यालयस्य सेन्ट् ह्यूग्स् कलाशालायाः मुख्यद्वारे एव चित्रं प्रदर्शितमासीत्। इदानीं तत्र जपानीय कलाकारस्य योषिहिरो तगाटस्य चित्रमेव प्रदर्शितम्। रोहिङ्ग्या विषयः आगोलतले स्यूचीं विरुद्ध्य प्रतिषेधस्य कारणमासीत्। तस्मिन्नन्तरे एव विश्विद्यालयाधिकारिणां प्रवृत्तिः।

देशस्नेहः न अध्यापनीयः – उद्धव ताक्करे

मुम्बै-अक्तूबर् १.

देशस्नेहम्  अस्मान् न पाठयेयुः इति भा.ज.पा. दलं स्मारयन् शिवसेनाध्यक्षस्य उद्धव ताक्करे महाशयस्य प्रस्तावः। राष्ट्रस्य आर्थिकावस्थां सूचयन् पूर्वमेव स भाषते स्म। मुद्रानिरोधस्य प्रतिकूलिनः देशद्रोहिणः, अनुकूलिनः देशस्नेहिनश्चेति अवस्था अधुना प्रतिभाति इत्यपि भा.ज.पा. दलं विमर्शय् स अभाषत।

रेयिल-यात्रिकाणां सुरक्षां सुनिश्चेतुं उपायान् समुद्घोषितवान्।

नवदिल्ली – रेयिलमन्त्री पीयूषगोयलः देशे रयिलसेतूनां सविशेषे सन्दर्भे रेयिल-यात्रिकाणां सुरक्षां सुनिश्चेतुं नैकान् उपायान् समुद्घोषितवान्। तेन यात्रिसुरक्षायाः मन्त्रणो∫यं विगतदिवसेषु मुम्बय्यां दुरापन्ने भीषणसेतुभ्रंशे त्रयोविंशतिजनानां मृत्युमभिलक्ष्य विशिष्टं महत्वमादधाति।