राज्ये ६००० औषधानि निरुद्धानि। स्वास्थ्याय हानिकराणि इत्यवगतानि।

कोच्चि – दैनन्दिनरोगस्य प्रतिविधिरूपेण साधारणजनैः उपयुज्यमानानि ४४४औषधसंयुक्तानि केन्द्रीय स्वास्थ्यमन्त्रालयेन पुनरपि निरुद्धानि। तान्यन्तर्भूतानि ६००० पर्यन्तानि औषधानि इतःपरं निर्मातुंं विक्रेतुं वा न शक्यन्ते।

गतवर्षे मार्चमासे संभूतं निरोधनं विरुद्ध्य राष्ट्स्य विविधेषु उच्चन्यायालयेषु प्रवर्तनानाः व्यवहाराः सर्वोच्चन्यायालयेन स्थगिताः आसन्। तदनन्तरमेव औषधनियन्त्रकस्य जालपुटे शुक्रवासरे रात्रौ पुनरपि विज्ञापनं प्रसिद्धीकृतम्। पारसेट्टमोल्, कफीन्, अमोक्सलिन् प्रभृतिभिः सह विविधानि औषधसंयुक्तानि स्वास्थ्याय हानिकराणि इत्यतः तानि निरुद्धानि।

Leave a Reply

Your email address will not be published. Required fields are marked *