Daily Archives: October 8, 2017

वयलार् पुरस्कारः टी.डी. रामकृष्णाय ।

तिरुवनन्तपुरम्. अस्य वर्षस्य वयलार् पुरस्कारः नोवल्काराय श्रीमता टी.डी. रामकृष्णन् महाभागाय। तस्य सुगन्धी एन्न आण्टाळ् देवनायकी इति आख्यायिकाम् उपजीव्यैव पुरस्कारः प्रख्यापितः। इतः पूर्वमपि ग्रन्थमिममुपजीव्य रामकृष्णाय बहवः पुरस्काराः प्राप्ताः।

वयलार् महाशयस्य अनुस्मरणाय कल्पिते अस्य मासस्य २७ तमे दिने पुरस्कारं प्रदास्यति। श्रीलङ्का राष्ट्रस्य राजनैतिकीम् अवस्थां परिकल्प्य रचिता भवति इयमाख्यायिका।

केरऴान् अभिनन्द्य राष्ट्रपतिः।

कोल्लम्.  केरलदेशं संघर्षभरितराज्यमिति भा.ज.पा. दलस्य तीव्रहिन्दुत्वदलानां च प्रचारणाभ्यन्तरे राष्ट्रपतिः श्री. रामनाथकोविन्दः केरलान् मुक्तकण्ठं प्राशंसयत्। धर्मसौहार्दस्य धर्मनिरपेक्षतायाः साहोदर्यस्य च उत्तमोदाहरणं भवति केरशदेशः देशवासिनश्च इति स प्रत्यपादयत्। कोल्लम् अमृतपुर्यां अमृतानन्दमयीदेव्याः चतुष्षष्टितमस्य जन्मदिनसमारोहस्य उद्घाटनं विधाय भाषमाणः आसीत् सः। तस्मिन्नन्तरे राष्ट्रपते‌ः स्वीकरणवेलायां शिष्टाचारः न पालितः इत्याक्षिप्य विपक्षदलनेता रमेश् चेन्नित्तला वर्यः राष्ट्रपतये निवेदनमदात्।

अद्य वायुसेनादिवसः।

भारतीयवायुसेना अद्य स्वीय-पञ्चाशीतितमं स्थापनादिवसमायोजयति। अवसरे∫स्मिन् दिल्लीं निकषा हिन्डण् वायुसेनाकेन्द्रे बृहद्सैन्यप्रयाणं समायोजयिष्यते। प्रतिरक्षामन्त्रिणा विज्ञापितं यत् अवसरे∫स्मिन् वयुसैन्यविमानानां प्रदर्शनमपि अनुष्ठास्यते।