Monthly Archives: August 2021

संस्कृत दिनाचरणम्- पालक्काट्।

पालक्काट्र – लसंसकृताद्ध्यापकफेडरेषन् संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय संस्कृत दिनाचरणम् समायोजितम्। भारतीयसंस्कृतेः प्रत्यभिज्ञानं संस्कृत पठनेन स्वायत्तीकर्तुं शक्यते इति उत्तराखण्डराज्यस्थ केन्द्रीय संस्कृत विश्वविद्यालयस्य वैदिकविभाग प्राध्यापकः डोः अमन्दमिश्रमहोदयः स्वीयोद्घाटनभाषणेऽब्रवीत् । संस्कृतं संस्कृतेनैव पठनस्य पाठनस्य च आवश्यकतां अधिकृत्य केरलसर्वकारीय महाविद्यालयीय ज्योतिषविभागस्थ प्राध्यापकः डोः सुधीष् ओ एस् महाभागोवदत्। पालक्काट् डयट्संस्थायाः प्राचार्यः श्री के एन् सोमराज महाशयः विशिष्ठातिथि रूपेणोपस्थितः। श्री अनिल् कोन्नेलिक्कल् महोदयेन विरचितं मञ्जुभाषिणीति गीतं आलप्य मेलने प्रकाशितम्। केरलसंसकृताद्ध्यापकफेडरेषन् संस्थायाः प्रान्तीयाध्यक्षः श्री पि पद्मनाभः महाशयः, प्रान्तीयोपाध्यक्षः श्री के के राजेष् महोदयः, जनपदाध्यक्षः श्री एस् भास्करः, श्रीमति रचिता, श्रीमति सुजाता, श्रीमति राखी इत्येते स्वाभिमतान् प्रकटितवन्तः । १२ जनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। जनपदस्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।

सम्पादकः राजकृष्णः।

कुत्र दुःखं विनिर्गतम् (भागः १९९) – 04-09-2021

EPISODE – 199

नूतना समस्या-

“कुत्र दुःखं विनिर्गतम्”

ഒന്നാംസ്ഥാനം

“ഇദം മമേതി ചിന്താ തു
ദാദാതി ന പരം സുഖം
സ്വാർഥനിർമുക്തചിത്താനാം
കുത്ര ദു:ഖം വിനിർഗതം.”

Sandhya A.

“അഭിനന്ദനങ്ങൾ”

प्रतिकृतिः।

डो. निधीष् गोपी वर्येण प्रस्तुतं प्रतिकृतिः इति चलच्चित्रं हृद्यं कञ्चन दृश्यानुभवम् अस्मभ्यं ददाति। चलच्चित्रस्यास्य कथा, पटकथा, सम्भाषणं, गीतानि, निदेशनं च डो. निधीष् गोपीवर्येण समासादितम्। संस्कृतमजानानां साधारणानामपि अवगमनार्थं ललिता शैली अत्र स्वीकृता वर्तते। चलच्चित्रमिदं पश्यन्तः वयम् अजानाना एव होराद्वयं पर्यवस्यति। अस्माकं भाषणशैल्यां संस्कृते भाषमाणे एषा मलयालभाषा वेति सन्देहः प्रेक्षकाणां मनसि जायेत। कथा पटकथा सम्भाषणं गीतानि अभिनयश्च उत्कृष्टानि एव।

प्रसाद् मल्लिश्शेरीवर्यस्य रामकृष्णः, निपिन् उण्णी वर्यस्य आदित्यः, चिन्मयी रवि वर्यायाः उत्तरा अखिल् वेलायुधस्य दिनेशः इत्यादीनि कथापात्राणि मनसि निहितानि सन्ति। सुनिल् सुखदा वर्यस्य केशवन् नायर् इति पात्रमपि अत्युत्तमं भवति।

संस्कृतभाषोपासकानाम् एतादृशम् अधिकव्यययुक्तं प्रवर्तनं श्लाघनीयं प्रोत्साहनीयं च भवति खलु। तदस्माकं कर्तव्यमेव। दृश्यकाव्यमिदं जनाः परमतः पश्येयुः। तद्वारा संस्कृतम् अस्माकं सर्वेषां भाषा इति प्रतीतिः जनमनसि जायेत।
चलच्चित्रस्यास्य रङ्गे नेपथ्ये च प्रवर्तितेभ्यः सर्वेभ्यः शुभाशंसाः।

प्रश्नोत्तरम् (भागः १९९) – 04-09-2021

EPISODE – 199

 

 

प्रश्नोत्तरम्।

 

 

 

  1. ——-नाम किम् ?  (क) तव  (ख) त्वयि  (ग) त्वम्
  2. ——-नाम राजेशः। (क) मयि (ख) मह्यम्  (ग) मम
  3. त्वं किं ——-?  (क) करोति  (ख) करोषि  (ग) करोमि
  4. अहं छात्रः ——। (क) अस्ति (ख) असि  (ग) अस्मि
  5. त्वं ——पठसि। (क) किम्  (ख) कः  (ग) कस्य
  6. अहं संस्कृतं ———। (क) पठति  (ख) पठामि (ग) पठसि
  7. त्वं ——-विद्यालये पठसि ?  (क) कस्मात्  (ख) कस्मिन्  (ग) कस्मै
  8. ——सर्वकारीयविद्यालये पठामि। (क) अहं  (ख) त्वं  (ग) सः
  9. ——–गृहं कुत्र अस्ति ?  (क) त्वं  (ख) तव  (ग) त्वयि
  10. ——–गृहं  नटवरम्ब् ग्रामे अस्ति। (क) मां   (ख) मह्यं  (ग) मम

 

 

Last date: 04-09-2021

।। अमरभारतीस्तोत्रम् ।। – Sankaranarayanan Kodakara

।। अमरभारतीस्तोत्रम् ।।

ललितवाग्युता काव्यभूषिता सरसकोमला तत्वबोधिका।

जयतु सर्वदा वेदभूषिता अमरभारती भारते चिरम्।। 1

कविकुलेश्वराराधिता तथा यतिपतीश्वरेनार्चिता सदा ।

लसतु भूतले शास्त्रसंयुता चिरपुरातनी देवभारती।। 2

विविधनाटकैर्गीतिभिर्युता सुकृतवाहिनी वाङ्विमोहिनी ।

जयतु सर्वदा देववन्दिता अमरभारती भूतले चिरम् ।। 3

सकलमोहनम् संस्कृतस्वनम् हितविधायकम् नीतिदायकम् ।

जयतु सर्वदा कर्मशर्मदम् शरणदायकम् भूतले चिरम् ।। 4

मम तु भाषणं संस्कृतं पदम् मम तु पूजनं संस्कृतं सदा ।

मम तु लेखनं दर्शनं तथा मम हि जीवनं संस्कृताय वै।। 5

जनपदे वने पत्तने गृहे लसतु संस्कृतदीपिका सदा ।

अमरभारतीज्ञानदीपनात् भवतु संस्कृताः मानवाः चिरम् ।। 6

( समर्पणम् )

अयि मनोहरे संस्कृताम्बिके तव पदाम्बुजम् अर्चयाम्यहम् ।

तव कृपावशात्काव्यकर्मणि भवतु मे शिवं शं च सन्ततम् ।।

शङ्करनारायणः, कोटकरा

दूरवाणी – 9744780455

पिता पुत्रेषु जीवति (भागः १९८) 28-08-2021

EPISODE – 198

नूतना समस्या –

“पिता पुत्रेषु जीवति”

ഒന്നാംസ്ഥാനം

“പുന്നാമ നരകാന്നിത്യം
പുത്രോ വൈ ത്രായതേ കില
തേനേദം കീർത്യതേ സദ്ഭിഃ
പിതാ പുത്രേഷു ജീവതി”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

अद्य श्रीनारायणगुरुजयन्ती।

तिरुवनन्तपुरम्- नवोत्थाननायको योगिवर्यः नारायणगुरुदेवः युक्तिभद्रतां द्रढीकृतवान् महान् योगी आसीत्। जाति-धर्मभेदानुसारं जनेषु उच्चनीचत्वं संस्थापिते समाजे देवदूत इव समागतवान् गुरुदेवः। सिंहमासे शतभिषक् नक्षत्रे भूजातस्य अस्य जयन्ती प्रतिवर्षं सिंहमासे शतभिषक् नक्षत्रदिने एव समाचरन्ति। अतः दिवदर्शिकानुसारं निश्चिते वासरे आचरितुं न शक्यते।

एका जातिः एको धर्मः एको देवः मनुष्याणाम्, धर्मः यःकोपि भवतु, मानवस्य उत्कृष्टता एव मुख्या, मनुष्याणां मनुष्यत्वं जातिर्गोत्वं यथा गवि इत्यादिभिः उद्घोषणैः स जनान् उदधारयत्।

अस्य महाशयस्य जयन्तीसमारोहे सर्वेभ्यो शुभाशयाः

प्रश्नोत्तरम् (भागः १९८) 28-08-2021

EPISODE – 198

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एषा बालिका ——। (क) अस्ति  (ख) असि (ग)  अस्मि
  2. ——सिंहः गर्जति। (क) एषा  (ख) एतत्  (ग) एषः
  3. एतत् ——-अस्ति। (क) बालकः (ख) यानम् (ग) लता
  4. सा ——? (क) कः  (ख) किम्  (ग) का
  5. अहं बालिका  ——-। (क) अस्मि  (ख) अस्ति  (ग) असि
  6. ——-कुत्र गच्छसि । (क) अहं  (ख) त्वम्  (ग) भवान्
  7. सः पाठं ——-। (क) फठामि (ख) पठसि  (ग) पठति
  8. भवान् जलं ——-। (क) पिबति  (ख) पिबसि  (ग) पिबामि
  9. ——–नृत्तं करोति। (क) त्वम्  (ख) अहं  (ग) भवती
  10. एषा गीतं ——। (क) गायसि (ख) गायति  (ग) गायामि

ഈയാഴ്ചയിലെ വിജയി

BHAVYA N S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Bhavya N S
  • Maya P R
  • Divyachithran N V
  • Manoj K Varikkaplackal

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

संस्कृतं नमाम्यहम् – संस्कृतदिनगीतम्।

।।संस्कृतं नमाम्यहम् ॥

 

संस्कृतं पठाम्यहं संस्कृतं वदाम्य हम् ।
संस्कृतप्रचारणे तत्परो भवाम्यहम् ॥

सर्वलोकविश्रुतं संस्कृतं भजाम्य हम् ।
सज्जनैश्च सेवितं संस्कृतं नमाम्यहम् ॥

काव्यपुष्टकोमलं शास्त्रतत्व सेवितम्
पावनेषु पावनं संस्कृतं भजाम्यहम् ॥

सर्वलोकविश्रुतं संस्कृतं प्रपाठय
सर्वमङ्गलाय मे संस्कृतं समर्थकम् ॥

प्राणवायुसम्मितं संस्कृताय सेव नम् ।
सर्वलोकरक्षणं संस्कृतव्रतं महत् ।

संस्कृताय सेवनं सत्वगुणवर्धकम्
नित्यसौख्यहेतुकं जीवनाय साधकम् ॥

सर्वपुण्यसागरं सर्वकर्मबोधकम्
सर्वथा हितं परं तं भजे सनातनम् ॥

संस्कृते रतिर्मम भक्ति२स्त्य चञ्चला
सिद्धिरस्तु मे सदा भारति ! गुणात्मिके !

संस्कृतेन भाषणे संस्कृतस्य रक्षणे
संस्कृताय चार्पणे सेवको भवाम्यहम् ॥

संस्कृतं प्रसारय संस्कृतं प्रसाधय
संस्कृतस्य संस्कृतिं सर्वदा नुशीलय ॥

विजयन् वि. पट्टाम्बि।

 

First Bell Classes – 8 – 3

Chapter – 3 – 1

Chapter – 3- 2