संस्कृतं नमाम्यहम् – संस्कृतदिनगीतम्।

।।संस्कृतं नमाम्यहम् ॥

 

संस्कृतं पठाम्यहं संस्कृतं वदाम्य हम् ।
संस्कृतप्रचारणे तत्परो भवाम्यहम् ॥

सर्वलोकविश्रुतं संस्कृतं भजाम्य हम् ।
सज्जनैश्च सेवितं संस्कृतं नमाम्यहम् ॥

काव्यपुष्टकोमलं शास्त्रतत्व सेवितम्
पावनेषु पावनं संस्कृतं भजाम्यहम् ॥

सर्वलोकविश्रुतं संस्कृतं प्रपाठय
सर्वमङ्गलाय मे संस्कृतं समर्थकम् ॥

प्राणवायुसम्मितं संस्कृताय सेव नम् ।
सर्वलोकरक्षणं संस्कृतव्रतं महत् ।

संस्कृताय सेवनं सत्वगुणवर्धकम्
नित्यसौख्यहेतुकं जीवनाय साधकम् ॥

सर्वपुण्यसागरं सर्वकर्मबोधकम्
सर्वथा हितं परं तं भजे सनातनम् ॥

संस्कृते रतिर्मम भक्ति२स्त्य चञ्चला
सिद्धिरस्तु मे सदा भारति ! गुणात्मिके !

संस्कृतेन भाषणे संस्कृतस्य रक्षणे
संस्कृताय चार्पणे सेवको भवाम्यहम् ॥

संस्कृतं प्रसारय संस्कृतं प्रसाधय
संस्कृतस्य संस्कृतिं सर्वदा नुशीलय ॥

विजयन् वि. पट्टाम्बि।

 

One Response to संस्कृतं नमाम्यहम् – संस्कृतदिनगीतम्।

  1. Kavitha.S says:

    Sooper

Leave a Reply

Your email address will not be published. Required fields are marked *