सुप्रसिद्धः कैरलीसाहित्यकारः यु.ए. खादर् वर्यः निर्यातः।

कोषिक्कोट्- प्रशस्तः साहित्यकारः यु.ए. खादर् वर्यः कालयवनिकायम् अन्तरितः। स ८५ वयस्कः आसीत्। श्वासकोशार्बुदबाधया कोषिक्कोटे निजीयचिकित्सालये चिकित्सायामासीत्।

     १९३५ वर्षे पूर्वम्यान्मार् देशे बिल्लिन् इति ग्रामे अयं भूजातः। तस्य माता म्यान्मार् देशीया आसीत्। तस्य सप्तमे वयसि मातुः वियोगानन्तरं पितुः साकम् अयं केरलेषु पितुः देशमागतः। अस्य प्राथमिकशिक्षा कोयिलाण्टी उच्चविद्यालये आसीत्। ततः मद्रपुरी कलाशालातः चित्ररचनायां बिरुदं सम्पादितवान्।

     १९८३ वर्षे तृक्कोट्टूर् पेरुमा इति कथासमाहाराय, २००० तमे वर्षे अघोरशिवम् इति कैरली नोवल् कृते च केरलसाहित्य अक्कादमीपुरस्कारम् अवाप्तवान्। २००९ तमे वर्षे केन्द्र साहित्य अक्कादमीपुरस्कारमपि अनेन प्राप्तः।

     कोषिक्कोट् आकाशवाणी निलये राज्य स्वास्थ्यविभागे च असौ सेवां व्यदधात्। २०११ तमे वर्षे प्रकाशितं शत्रु इति नोवल् एव तस्य अन्तिमा कृतिः।

Leave a Reply

Your email address will not be published. Required fields are marked *