विरामकालीनोल्लासाः- एस्.सी.ई.आर्.टी. संस्थायाः नेतृत्वे क्रीडा कला वसन्तः।

तिरुवनन्तपुरम्- विद्यालयानाम् अप्रतीक्षिते विरामे घोषिते विरामकाले गृहे एव स्थातुं निर्दिष्टानां छात्राणां स्वास्थ्य-क्रीडावीनोद-सृजनात्मकादीनां शेषीणां परिपोषणार्थं राज्य शैक्षिकानुसन्धानप्रशिक्षणपरिषदः आध्यक्ष्ये कैट् संस्थायाः तान्त्रिकसहयोगेन अधिजालिकप्रशिक्षणपद्धतिः समारब्धा।
विरामकालीनसन्तोषाः इति अधिजालिकप्रशिक्षणपद्धतेः भागत्वेन प्रत्येकं प्रवर्तनं छात्राः गृहे एव तिष्ठन्तः प्रशिक्षितुं पारयन्ति। *एक्सर्सैस् अट् होम्* इति नाम्ना व्यायामपद्धतिरपि अस्मिन्नन्तर्भवति। समग्र पोर्टल् मध्ये एव एते विभवाः सन्ति। एतत्सम्बन्धीनि ह्रस्वचलनचित्राणि पोर्टल् मध्ये अधिरोपितानि। क्रीडाक्षमतां प्रतिरोधशक्तिं च परिवर्धयितुं जीवितशैलीरोगान् प्रतिरोद्धुं च चलनचित्राणां निर्देशानुसारं प्रवर्तनं कर्तुं शक्यते।
तद्वत् विविधानां कलारूपाणां विवरणमपि आयोजितं वर्तते। संरम्भोयं छात्राणां आस्वाद्यकरं नूतनानुभवं प्रदास्यति इति एस्.सी.इ.आर्.टी. निदेशकः डो. जे. प्रसाद् वर्यः अवदत्।

https://samagra.kite.kerala.gov.in/home/page

Leave a Reply

Your email address will not be published. Required fields are marked *