चलच्चित्रसंगीतनिदेशकः एं.के. अर्जुनन् वर्यः दिवङगतः।

एरणाकुलम्- विख्यातः चलचित्रसंगीतनिदेशकः एम्.के. अर्जुनन् वर्यः कालकबलितः अभवत्। कोच्ची पल्लुरुत्ती स्थले स्वकीये गृहे प्रातः 3.30 वादने आसीत् मृत्युः। स 84 वयस्कः आसीत्।

     700 अधिकानां चलच्चित्राणां नाटकानां च कृते स संगीतं व्यदधात्। 2017 तमे वर्षे भयानकम् इति चलच्चित्रस्य संगीतायोजनद्वारा राज्यसर्वकारस्य पुरस्कारः अनेन प्राप्तः।

     विख्यातगायकस्य येशुदासस्य शब्दः प्रथमतया अस्य महात्मनः निदेशत्वे एव मुद्रितः आसीत्। एवमेव ए.आर्. रह्मान् वर्यस्य चलचित्रसंगीतरंगप्रवेशः अपि अर्दुनन् मास्टर् द्वारा आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *