Monthly Archives: February 2020

नववाणी गरीयसी (भागः ११८) – 15-02-2020

EPISODE – 118

नूतना समस्या –

“नववाणी गरीयसी”

ഒന്നാംസ്ഥാനം

രാജതേ നിതരാം ലോകേ
ഭാഷാക്ഷേത്രേ സ്വതേജസാ
ശാലീനകോമളാ സാ ച
നവവാണീ ഗരീയസീ.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

पी. परमेश्वरन् वर्यः दिवमगात्।

ओट्टप्पालम्- केरलेषु संघपरिवारप्रस्थानानाम् पूर्वकालसंघाटकः तात्त्विकाचार्यश्च श्रीमान् पी.परमेश्वरवर्यः दिवंगतः। स ९३ वयस्कः आसीत्।रविवासरे प्रातः ओट्टप्पालसमीपे मायन्नूर् देशे निजीयायुर्वेदचिकित्सालये आसीदस्यान्त्यम्। १९८२ आरभ्य भारतीयविचारकेन्द्रस्य निदेशकः अस्ति। तथा कन्याकुमारी विवेकानन्दकेन्द्रस्य अध्यक्ष भवत्ययम्। हैन्दवतत्त्वचिन्तायाः सात्विकतेजः अयं संघप्रवर्तकानां मध्यो परमेश्वर्जी इति विख्यातो भवति।

२००४ तमे वर्षो पद्मश्री तथा २०१८ तमे वर्षे पद्मविभूषण् इति पुरस्काराभ्यां राष्ट्रमेनम् आदद्रे। अपि च जन्माष्टमिप्रभृतयः नैके पुरस्काराः तेन अवाप्ताः।

आध्यात्मिकतायाम् अधिष्ठितेन जीवनेनैव समाजस्य उन्नतिः स्यात् इति तत्त्वमेव अयमुद्धधार। अध्ययनाय गवेषणाय च स स्वकीये जीवने प्राधान्यं पर्यकल्पयत्। श्रीनारायणगुरुदेवन् नवोत्थानत्तिन्टे सारथिः, दिशाबोधत्तिन्टे दर्शनम्, मार्क्सुं स्वामिविवेकानन्दनुम् इत्यादयः विंशतिपरिमिताः ग्रन्थाः तेन विरचिताः।

१९२७ तमे वर्षे आलप्पुषमण्डले चेर्तलदेशे अयं भूजातः अभवत्। अस्य भौतिकसंस्कारः रविवासरे सायं मुहम्मा देशे भविष्यति।

PRASNOTHARAM (भागः ११८) – 15-02-2020

EPISODE – 118

 

प्रश्नोत्तरम्।

 

 

 

  1. स्यानन्दूपुरस्य इदानीन्तन नाम किम् ? (क) पत्तनंतिट्टा  (ख) तिरुवनन्तपुरम्  (ग) तृश्शिवपेरूर्
  2. स्थापत्यवेदः कस्य वेदस्य उपवेदः ? (क) ऋग्वेदस्य  (ख) यजुर्वेदस्य   (ग) अथर्ववेदस्य
  3. नमः शब्दयोगे का विभक्तिः ? (क) चतुर्थी (ख) पञ्चमी  (ग) षष्ठी
  4. कुलीरः  ——- सार्धं जलाशयं गच्छति। (क) बकं (ख) बकात् (ग) बकेन
  5. वानरः वृक्षस्य ——उपविशति । (क) शाखायाः (ख) शाखायाम्  (ग) शाखायै
  6. भो छात्र !अलं ——-। (क) परिहासः  (ख) परिहासे  (ग) परिहासेन
  7. वयं संस्कृतं ——-। (क) पठामः  (ख) पठन्ति (ग) पठथ 
  8. त्वं विद्यालयं गच्छसि। (लोट्) (क) गच्छ (ख) गच्छानि (ग) गच्छाव
  9. यात्रिकः पन्थानं पृच्छति ।(लङ्)  (क) अपृच्छन्  (ख) अपृच्छत्  (ग) अपृच्छम्
  10. सा बुद्धिमती  आसीत् ।(लट्)  (क) अस्मि  (ख) असि (ग)अस्ति

ഈയാഴ്ചയിലെ വിജയി

Archana Mohan. D Govt. Kanjiramkulam panchayath H. S

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍  അയച്ചവര്‍:

  • Nandana Krishnan
  • Dawn Jose
  • Varsha Janardhanan
  • Sreehari M
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कविता – जयतात् मङ्गले धन्ये।

 

*जयतात् मङ्गले धन्ये।*

संस्कृतस्य प्रसाराय
संस्कृतेर्वर्धनाय च।
समुत्पन्ना नवा वाणी
सर्वचित्तापहारिणी।।१।।

तमसो मा प्रापय ज्योतिं
घोषयन्ती सुसंस्कृता।
शुभदा जालपुटे सन्ना
सङ्गमग्रामसम्भवा।।२।।

नववाणी नवा रम्या

सज्जनानन्ददायिका।
पूर्णचन्द्रप्रभायुक्ता
चन्दनार्द्रसुशीतला।।३।।

समस्तेषु च लोकेषु
सजीवा शान्तरूपिणी।
अङ्गुलीस्पर्शमात्रेण
त्वागमिष्यति सेविका।।४।।

यत्नेन जनिता सेयं
संगमग्रामवासिनाम्।
संस्कृताध्यापकानां मे
सर्वेषां सहकारिणाम्।।५।।

यत्रास्त्यचञ्चला बुद्धि-
रुद्यमो मेरुसन्निभः।
जिज्ञासा च जिगीषा च
तत्र श्रीरिति निश्चिता।।६।।

शतशो/ध्यापकाः लोके
पठितारश्च सहस्रशः।
भाषाप्रणयिनश्चास्याः
संस्थायाः सेवने रताः।।७।।

सङ्गमेशकटाक्षेण
साधूनां चोदनेन च।
वाणीयमतुला भूया-
दासूर्यचन्द्रतारकम्।।८।।

पालकः पोषकस्तस्याः
जोसाख्यः सज्जनो बुधः।
नीरवं कुरुते कर्म
मन्दमारुतसन्निभः।।९।।

जयतात् मङ्गले धन्ये
विमले सप्रयोजिके।
निस्वार्थे निस्तुले बाले
संस्कृतचन्द्रिकास्रवे।।१०।।

*विजयन् वी पट्टाम्बी।*

इरिङ्ङालक्कुटा
११-०२-२०२०

प्रमुखः संस्कृतपण्डितः विवर्तकश्च चन्द्रशेखरवारियर् वर्यः दिवंगतः।

अष्टमिच्चिर- प्रसिद्धः संस्कृतविद्वान् तथा अनुवादकश्च श्रीमान् चन्द्रशेखरवारियर् वर्यः कालकबलीभूतः। स १०१ वयस्कः आसीत्। वार्धक्यसहजया अवशतया स अष्टमिच्चिरस्थे गृहे विश्रामजीवने आसीत्। अद्य प्रातः षड्वादनावधौ आसीदस्य अन्त्यम्।

बह्यः संस्कृतकृतयः तेन मलयालभाषायाम् अनूदिताः। अपि च कलोत्सववेदिकायाम् अस्य़ सान्निध्यं स्थिरमासीत्। बहवः पुरस्काराः अपि अनेन आप्ताः। अस्य भौतिकदेहसंस्कारः श्वः भविष्यति।

अक्षरोत्सवस्य शुभसमाप्तिः।

तिरुवनन्तपुरम्- साहित्यस्य संवादस्य सर्गात्मकतायाश्च नूतनम् आकाशम् अनन्तपुुर्यै समर्पयन् मातृभूमि-अन्ताराष्ट्रपुस्तकोत्सवस्य तृतीयसोपानं समाप्नोत्। कनकक्कुन्न् प्रासादे आयोजितं समापनसमारोहं राज्यपालः आरिफ् मुहम्मद्खान् वर्यः उदघाटयत्।

स्वकीयान् आशयान् विचारान् च प्रकटयितुम् अधिकारः अस्तीति विश्वासम् आतन्वानः बहवो जनाः अभिप्रायस्वातन्त्र्यं नाङ्गीकुर्वन्ति। एतत् कापट्यं द्वैमुख्यं चास्ति इति राज्यपालः अवदत्।

अस्माकं दिनानि अन्धकारे न पतिष्यतीति सन्देशमेव अक्षरोत्सवद्वारा लभते इति समारोहे आध्यक्ष्यं निर्वहन् मन्त्री कटकंपल्लि सुरेन्द्रन् वर्यः अवदत्। अपि च प्रतिरोधं शक्तीकर्तुम् अक्षरोत्सवः प्रभवति , वर्गीयवादिनां प्रक्युत्तरमेव एतादृश उत्सव इत्यपि सोवदत्।

अक्षरोत्सवस्य तृतीयसोपानम् अधिकम् आत्मविश्वासं प्रददाति इति समापोहे भाषमाणः मातृभूमि प्रबन्धकनिदेशकः एं.वी. श्रेयांस् कुमार् वर्यः न्यगादीत्।

नववाणी संस्कृत चलच्चित्रोत्सवः २०२०

 

NAVAVANI SANSKRIT SHORT FILM FESTIVAL

 

 

NOTICE   click here……

 

 

 

केरलेषु लव् जिहाद् इति समस्या नावेदिता इति केन्द्रिय-गृहमन्त्रालयः।

नवदेहली- राष्ट्रतले राष्ट्रिय-नागरिकता-पञ्जिकाम् विधातुं न निरणयत् इति केन्द्रिय गृहमन्त्रालयः। लोक्सभायां केन्द्र गृहमन्त्रालयस्य सहमन्त्री नित्यानन्द् राय् वर्यः कार्यमिदम् आवेदितवान्। अपि च केरलेषु लव् जिहाद् इत्याख्यः धर्मसमस्या नावेदिता। एतत्सम्बन्धिनौ द्वौ व्यवहारौ एन्.ऐ.ए दलेन अन्विष्येते इत्यपि बेन्नी बहन्नान् इति सदस्यम् स अबोधयत्।

     नागरिक संशोधनाधिनियमं, नागरिकत्व पञ्जिकां च विरुध्य आराष्ट्रं प्रतिषेधाः प्रचलन्ति। तदानीमेव एतदर्थं सर्वकारनिर्णयो नास्तीति  केन्द्रसर्वकारः आधिकारिकं प्रतिवचनं लोक्सभायाम् अदात्।

     सममेव केरलेषु लव् जिहाद् एतावत्पर्यन्तं नावेदितमित्यपि मन्त्री आधिकारिकतया सभायां प्रास्तौत्। जिहाद् इत्यस्य नियमे निर्वचनानि नास्तीत्यपि स सभायामवोचत्।

एकोपि कोरोणा विषाणुना बाधितः, इतोप्यधिकं द्रष्टुं साध्यता इति स्वास्थ्यमन्त्री।

तिरुवनन्तपुरम्- वुहानात् प्रतिनिवृत्तस्य एकस्य छात्रस्यापि कोरोणा विषाणुबाधा। कासरगोड् मण्डलीयस्य छात्रस्य कोरोणबाधा स्थिरीकृतेति स्वास्थ्यमन्त्री के.के. शैलजावर्या अवदत्। काञ्ञङ्ङाट् जिल्ला चिकित्सालये प्रवेशितस्य तस्य स्वास्थ्यव्यवस्था तृप्तिकरेति आवेदयति। अधुना चिकित्सालयं प्रविष्टेषु कस्यचिदपि स्वास्थ्यविषये आश्ङ्का नास्तीति मन्त्री अवदत्। विधानसभायां स्वास्थ्यमन्त्री पृथक् प्रस्तावनायां न्यगादीत्।

रविवासरपर्यन्तं १०४ रक्तमातृकां परीक्षितेषु तृशूर् आलप्पुषा मण्डलस्थयोः द्वयोः एव विषाणुबाधा स्थिरीकृता। एतावत्पर्यन्तं केरलराज्ये त्रयाणामेव विषाणुबाधा स्थिरीकृता।

रेगबाधितानां संख्या इतोप्यधिकतरं भवितुं साध्यता अस्ति। विमानपत्तनेषु नौनिस्थानेषु च सूक्ष्मता परिशोधना च शक्ततया विहिता। सर्वैः एतद्विषये जागरूकैः भाव्यम् इति स्वास्थ्यमन्त्री अवदत्।

कर्तव्यं वृद्धरक्षणम् (भागः ११७)- 08-02-2020

EPISODE – 117

नूतना समस्या –

“कर्तव्यं वृद्धरक्षणम्”

ഒന്നാംസ്ഥാനം

ആദ്രിയന്തേ വിശേഷേണ
വയോധികമഹാജനാ:
അവഗന്തവ്യമേവം ഹി
കർതവ്യം വൃദ്ധരക്ഷണം.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”