Daily Archives: February 24, 2020

आङ्गलपरिज्ञानस्य परिबृंहणार्थं इ-३ पद्धतिः

तिरुवनन्तपुरम्- सार्वजनीनशिक्षासंरक्षणयज्ञस्य भागत्वेन विद्यालयेषु समायोजिताः अतितान्त्रिकसुविधाः प्रयोजनीकृत्य कैट् संस्थया प्रायोजिता इ३- इ-क्यूब्- इति आङ्गलभाषापद्धतिः सर्वकारेण अनुमिता। सार्वजनीनशिक्षानिदेशकस्य निरीक्षणे राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः अक्कादमिक सहयोगेनैव सर्वेषां छात्राणाम् उपकारिका इ क्यूब् आङ्गलपद्धतिः कैट् संस्थया समायोज्यते।

पद्धतेः अनुबन्धत्वेन समग्रा , इ-ग्रन्थशाला, इ भाषापरीक्षणालयः इ- प्रक्षेपणसामग्र्यश्च विद्यालयेषु समायोज्यन्ते। अनेन विश्वस्तरीयः अङ्कीयग्रन्थालयः सज्जीक्रियते। अधुना प्रथमतः अष्टमकक्ष्यापर्यन्तेषु कक्ष्यासु छात्राणां पठनतलानुसारं वर्णचित्रसहितानि २०० पुस्तकानि समग्रायां लब्धानि भवन्ति। अनेन छात्राः स्वयमेव अथवा अध्यापकानां साहाय्येन एतानि पठितुं प्रभवन्ति। एतेन आङ्गलभाषाप्रावीण्यं परिवर्धयितुं अध्ययनं सरसं कर्तुं च अवकाश‌ः लभन्ते।

धन्यं हि तस्य जीवितम् (भागः १२०) – 29-02-2020

EPISODE – 120

नूतना समस्या –

“धन्यं हि तस्य जीवितम्”

ഒന്നാംസ്ഥാനം

യസ്യ ചിത്തം ദയാപൂർണം
പ്രസാദമധുരം വചഃ
ന്യായകർമണി നിഷ്ഠാ ച
ധന്യം ഹി തസ്യ ജീവിതം.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”