Daily Archives: February 26, 2020

केरलीय संस्कृताध्यापक सन्धानम् इति संघस्य राज्यस्तरीयम् अधिवेशनम् आलुवा देशे।

आलुवा- केरल संस्कृताध्यापक सन्धानम् इति अध्यापकसङ्घटनायाः राज्यस्तरीयम् अधिवेशनम् आलुवायां फेब्रुवरी २७,२८,२९ दिनाङ्केषु प्रचलिष्यति। आलुवा तोट्टुमुखं वै.एम्.सी.ए. सभागृहे आयोज्यमानं विद्याभ्याससम्मेलनम् २९ दिनाङ्के प्रातः ११ वादने केरलीयशिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः उद्घाटयिष्यति। तदानीं विधानसभासामाजिकः अन्वर् सादत् वर्य आध्यक्ष्यं निर्वक्ष्यति।

२७ दिनाङ्के राज्यस्तरीय कौण्सिल् मेलनं भविता। २८ दिनाङ्के राज्यस्तरीयम् अधिवेशनं जिला पञ्चायत् अध्यक्षः अब्दुल् मुत्तलिख् उद्घाटयिष्यति। प्रतिनिधिसम्मेलनं संघस्य भूतपूर्वाध्यक्षः एन्. राजगोपाल् वर्यः तथा आपृच्छमेलनं लोकसभासदस्यः बन्नी बहनान् च उद्घाटयिष्यति।

राज्यस्तरीयमेलनमनुबन्ध्य आयोजिते सम्भाषण चित्ररचना मत्सरयोः विजयिनां तथा वार्तावतारकाणां छात्राणां च साक्ष्यपत्राणि शिक्षामन्त्री वितरिष्यति। श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः मुख्यप्रभाषणं विधास्यति। राष्ट्रपतिपुरस्कारजेतारं जी. गङ्गाधरन् नायर् वर्यं मन्त्री आदरिष्यति।

व्रणितेभ्यः सत्वरचिकित्सा आयोजनीया- अर्धरात्रौ दिल्ली उच्चन्यायालयस्य आदेशः।

नवदिल्ली- दिल्ल्यां प्रवर्तमाने संघर्षे व्रणितानां सुरक्षितपरिवहणाय तथा चिकित्सायै च दिल्ली उच्चन्यायालयस्य आदेशः। एतत्सम्बन्धिनि आपातावेदने कुजवासरे अर्धरात्रौ न्यायवादं श्रुत्वैव दिल्ली आरक्षकदलं एवं निरदिशत्।

संघर्षे व्रणितान् आधुनिकसौविध्ययुक्तं चिकित्सालयं नयेत् इत्यावश्यमुन्नीय प्रदत्तमावेदनं न्यायाधिपस्य एस्. मुरलीधरवर्यस्य वसतौ एव न्यायवादाय समर्पितम्। एस्. मुरळीधर, अनूप्, जे. भानुमती इत्येतेषां न्यायाधिपानां संहतिः वादमशृणोत्।

आवेदने प्रस्तावितं कार्यं परिगणय्य यथाविधि सौविध्यं प्रदाय च न्यायालयमावेदनीयमिति दिल्ली अरक्षकदलं निरदिशत्।