Daily Archives: February 9, 2020

पी. परमेश्वरन् वर्यः दिवमगात्।

ओट्टप्पालम्- केरलेषु संघपरिवारप्रस्थानानाम् पूर्वकालसंघाटकः तात्त्विकाचार्यश्च श्रीमान् पी.परमेश्वरवर्यः दिवंगतः। स ९३ वयस्कः आसीत्।रविवासरे प्रातः ओट्टप्पालसमीपे मायन्नूर् देशे निजीयायुर्वेदचिकित्सालये आसीदस्यान्त्यम्। १९८२ आरभ्य भारतीयविचारकेन्द्रस्य निदेशकः अस्ति। तथा कन्याकुमारी विवेकानन्दकेन्द्रस्य अध्यक्ष भवत्ययम्। हैन्दवतत्त्वचिन्तायाः सात्विकतेजः अयं संघप्रवर्तकानां मध्यो परमेश्वर्जी इति विख्यातो भवति।

२००४ तमे वर्षो पद्मश्री तथा २०१८ तमे वर्षे पद्मविभूषण् इति पुरस्काराभ्यां राष्ट्रमेनम् आदद्रे। अपि च जन्माष्टमिप्रभृतयः नैके पुरस्काराः तेन अवाप्ताः।

आध्यात्मिकतायाम् अधिष्ठितेन जीवनेनैव समाजस्य उन्नतिः स्यात् इति तत्त्वमेव अयमुद्धधार। अध्ययनाय गवेषणाय च स स्वकीये जीवने प्राधान्यं पर्यकल्पयत्। श्रीनारायणगुरुदेवन् नवोत्थानत्तिन्टे सारथिः, दिशाबोधत्तिन्टे दर्शनम्, मार्क्सुं स्वामिविवेकानन्दनुम् इत्यादयः विंशतिपरिमिताः ग्रन्थाः तेन विरचिताः।

१९२७ तमे वर्षे आलप्पुषमण्डले चेर्तलदेशे अयं भूजातः अभवत्। अस्य भौतिकसंस्कारः रविवासरे सायं मुहम्मा देशे भविष्यति।

PRASNOTHARAM (भागः ११८) – 15-02-2020

EPISODE – 118

 

प्रश्नोत्तरम्।

 

 

 

  1. स्यानन्दूपुरस्य इदानीन्तन नाम किम् ? (क) पत्तनंतिट्टा  (ख) तिरुवनन्तपुरम्  (ग) तृश्शिवपेरूर्
  2. स्थापत्यवेदः कस्य वेदस्य उपवेदः ? (क) ऋग्वेदस्य  (ख) यजुर्वेदस्य   (ग) अथर्ववेदस्य
  3. नमः शब्दयोगे का विभक्तिः ? (क) चतुर्थी (ख) पञ्चमी  (ग) षष्ठी
  4. कुलीरः  ——- सार्धं जलाशयं गच्छति। (क) बकं (ख) बकात् (ग) बकेन
  5. वानरः वृक्षस्य ——उपविशति । (क) शाखायाः (ख) शाखायाम्  (ग) शाखायै
  6. भो छात्र !अलं ——-। (क) परिहासः  (ख) परिहासे  (ग) परिहासेन
  7. वयं संस्कृतं ——-। (क) पठामः  (ख) पठन्ति (ग) पठथ 
  8. त्वं विद्यालयं गच्छसि। (लोट्) (क) गच्छ (ख) गच्छानि (ग) गच्छाव
  9. यात्रिकः पन्थानं पृच्छति ।(लङ्)  (क) अपृच्छन्  (ख) अपृच्छत्  (ग) अपृच्छम्
  10. सा बुद्धिमती  आसीत् ।(लट्)  (क) अस्मि  (ख) असि (ग)अस्ति

ഈയാഴ്ചയിലെ വിജയി

Archana Mohan. D Govt. Kanjiramkulam panchayath H. S

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍  അയച്ചവര്‍:

  • Nandana Krishnan
  • Dawn Jose
  • Varsha Janardhanan
  • Sreehari M
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”