Daily Archives: February 16, 2020

अरविन्द् केजरिवाल् दिल्लीमुख्यमन्त्रिपदमगृह्णात्।

नवदिल्ली- दिल्याः मुख्यमन्त्रिपदे अरविन्द् केजरिवाल् वर्यः सत्यशपथं गृहीत्वा अधिकारमगृह्णात्। तृतीयवारमेवायं मुख्यमन्त्रिधुरां वहति। रामलीला स्थले आयोजिते अधिवेशने उपराज्यपालः अनिल् बैजल् वर्यः सत्यशपथमग्राहयत्। मनीष् सिसोदिया, सत्येन्द्र जयिन्, गोपाल् राय्, कैलाष् गह्लोत्, इम्रान् हुजैन्, राजेन्द्र गौतम् इत्येते मन्त्रित्वेनापि सत्यशपथमगृह्णन्। एते गते मन्त्रिमण्डले अपि सदस्याः आसन्।

सत्यशपथसमारोहे प्रधानमन्त्रिणम् आमन्त्रितवान् केजरिवाल् वर्यः तथापि प्रधानमन्त्री भागं न जग्राह। स वाराणस्यां सन्दर्शने अस्ति।

अध्यापकाः जय् भीं पद्धत्याः गुणभोक्तारः छात्राः ग्रामीणचिकित्सालयस्थाः भिषजः अन्ये निर्माणरंगस्थाः कर्मकराश्च केजरिवालेन सह वेदिकायाम् उपस्थिताः आसन्।

PRASNOTHARAM (भागः ११९) – 22-02-2020

EPISODE – 119

 

प्रश्नोत्तरम्।

 

 

 

  1. अभिज्ञानशाकुन्तले प्रधानरसः कः ? (क) बीभत्सः  (ख) शृङ्गारः  (ग) शान्तः
  2. “लीलावती ” इति ग्रन्थः केन विषयेण सम्बद्धः  ? (क) गणितम्   (ख) वेदान्तः  (ग) साहित्यम्
  3. विश्वपुस्तकदिनं कस्य जन्मदिनं भवति ? (क) कालिदासस्य  (ख) माक्स्मुल्लरस्य  (ग) विल्यं षेक्स्पियरस्य
  4. कालटी श्रीशङ्कराचार्य संस्कृतसर्वकलाशालायाः ध्येयवाक्यं किम् ? (क) कर्मणि व्यज्यते प्रज्ञा (ख) ज्ञानादेव तु कैवल्यम् (ग) निर्माय कर्मणा श्रीः
  5. “करोषि ” इत्यत्र लकारः कः ?  (क) लट्  (ख) लिट्  (ग) लुट्
  6. केन्द्रसाहित्य अक्कादम्या पुरस्कृतः प्रथमः केरलीयः कः ?  (क) वैलोप्पिल्ली  (ख) एम् टी वासुदेवन् नायर्  (ग) आर् नारायणपणिक्कर्
  7. “भाग्यनगरम् ” इति प्रसिद्धः  देशः  कः ? (क) काशी  (ख) हैदराबाद्  (ग) कोल्क्कत्ता
  8. केरलेषु “अक्षयपद्धतिः” प्रथमतया आरब्धा जिल्ला का ? (क) मलप्पुरम्   (ख) तृश्शूर्  (ग) एरणाकुलम्
  9. भूतकालार्थं प्रयुज्यमानः लकारः कः ? (क) लट्  (ख) लोट्  (ग) लिट्
  10. गिरिप्रभाषणं केन कृतम् ? (क) येशुदेवेन  (ख) जेसफेन  (ग) मत्तायिना

ശരിയുത്തരങ്ങള്‍:

1.ശൃംഗാര:
2.ഗണിതം
3.വില്യം ഷേക്സ്പിയറസ്യ
4.ജ്ഞാനദേവ തു കൈവല്യം.
5.ലട്
6.ആര്‍. നാരായണപ്പണിക്കര്‍
7.ഹൈദരാബാദ്
8.മലപ്പുറം
9.ലിട്
10.യേശുദേവേന

ഈയാഴ്ചയിലെ വിജയി

Divyachithran N V

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Divyachithran N. V
  • Leela Namboothiri
  • Girish Vasudevan
  • Mini Vincent
  • Gadha Melattoor

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”