Monthly Archives: August 2019

मेघविस्फोटनसदृशा वृष्टिः, वृष्टेः शक्तिः क्षीयते इति पर्यावरणविदग्धानाम् अभिप्रायः।

कोच्ची- केरलस्य प्रावट्कालवृष्टिमधिकृत्य पठनेषु वृष्टिन्यूनतायां प्रथमस्थानं वयनाट् देशस्य आसीत्। गतस्य १२० वर्षस्य गणनायां वृष्टेः अतिन्यूनता अस्मिन् मण्डले शास्त्रज्ञैः निर्णीता। अस्मिन् मण्डले २० तः ३० शतमितं वृष्टिन्यूनता ते अन्वीक्षन्ते। ओडीषातीरे रूपं प्राप्तस्य न्यूनमर्दस्य तथा आरबसागरात् जातस्य प्रावृट्वातस्य च प्रभावेण आगता वृष्टिः अस्मिन् वर्षे वयनाट् प्रभृतिषु प्रदेशेषु अधिकं दुष्प्रभावम् अजनयत्।

वृष्टेः तीव्रता एव मृत्पातस्य कारणमभूत्। अधुना लभ्यमाना वृष्टिः मेघविस्फोटनसमाना इति कोच्ची शास्त्रसाङ्केतिकविश्वविद्यालयस्य रडार् केन्द्रं सहयोगिनिदेशकः डो. एस्. अभिलाष् वर्यः सूचयति। मेघस्य कठिनता अधिका अस्ति। अनेन अधिकं जलं सञ्चेतुं शक्यते। वृष्टिसमये एताः आपः आहत्य अघःपतन्ति।

अतितीव्रा वृष्टिः पारिस्थितिकदुर्बले प्रदेशे पतति चेत् तत्रस्थस्य मृदः शोषणं तथा मृत्पातश्च सम्भवति। एषः प्रतिभास एव वयनाट् प्रभृतिषु प्रदेशेषु दृश्यते।

प्रणब् मुखर्जी वर्यः भारतरत्न पुरस्कारम् अन्वगृह्णत्।

नवदिल्ली- राष्ट्रे परमोन्नतपौरपुरस्कारं भारतरत्ननामकम् अदात्। कोण्ग्रेस् दलनेता तथा राष्ट्रपतिचरः प्रणाब् मुखर्जी वर्यः राष्ट्रपतेः रामनाथकोविन्दवर्यात् पुरस्कारम् अन्वगृह्णत्। राष्ट्रपतिभवने ह्यः सायम् आयोजिते समारोहे एव पुरस्कारवितरणं सम्पन्नम्।
भा.ज.पा.दलस्य पूर्वरूपं भारतीयजनसंघ् इत्यस्य स्थापकनेता नानाजी देश्मुख्, गायकः भूपन् हसारिक इत्येतेभ्यो मरणानन्तरबहुमति रूपेण भारतरत्नपुरस्कारः कल्पितः।

पञ्चदशकपर्यन्तं कोण्ग्रेस् दलस्य नेतृत्वे विलसन् प्रणाब् मुखर्जी वर्यः २०१७ तमे वर्षे राष्ट्रपतिपदात् विरराम। तदनन्तरं स राजनैतिकक्षेत्रे सक्रियः नासीत्।

केरलराज्ये अतितीव्रा वृष्टिः, प्रलयसाध्यतासूचना, जनेभ्यो जाग्रतानिर्देशेन सह केन्द्रिय जलायोगः।

 कोच्ची –  राज्ये तीव्रा वृष्ठिः अनुवर्तते। अतितीव्रवृष्टिः अनुवर्तमाने साहचर्ये केन्द्रिय-जलायोगः 11 मण्डलेषु प्रलयसाध्यतासूचनाम् अदात्। पेरियार्, वलपत्तनम्, कुतिरप्पुषा, कुरुमन् पुषा इत्यादिषु नदीषु जलसञ्चयः भीकररुपेण उपरि गच्छति इति जलायोगः अवगच्छति। प्रायेण सर्वा नद्यः कूलङ्कषा भविष्यन्तीति जलायोगम् उद्धृत्य राज्य-दुरन्तनिवारण संधः सूचनां ददाति।

     पत्तनंतिट्टा, आलप्पुषा, कोट्टयम्, एरणाकुलम्, इटुक्की, तृशूर्, पालक्काट्, कोषिक्कोट्, वयनाट् कण्णूर्, कासरगोड् इत्येयेषु मण्डलेष्वेव जलायोगस्य प्रलयसाध्यतानिर्देशः। नदीतीरेषु वसन्तः अतीव जाग्रता पालनीयाः इति जलायोगः शूचयति।

तिरुवनन्तपुरात् कासरगोड् पर्यन्तम् अतिवेग रेल् सम्पर्कपथाय अनुमतिः प्राप्ता।

तिरुवनन्तपुरम् – तिरुवनन्तपुरं-कासरगोड् अतिवेग-रेल् सम्पर्कपथ-पद्धतिः साक्षात्करोति। २०२४ तमे वर्षे पद्धतिः पूर्णा भविष्यति। केरल-रेल् विकासनिगमः ६६०७९ कोटिरूप्यकाणी व्ययीकृत्यैव अस्यः पद्धतेः निर्माणं पूर्तीकरिष्यति। राज्यस्थेषु एकादश मण्डलेषु व्याप्य स्थितस्य अस्यः पथः दश निस्थानं भविता।

तिरुवनन्तपुरात् कासरगोड् पर्यन्तम् अर्धातिवेग रेल् सेवार्थं निर्दिष्ट लोहपथार्थं सिस्ट्रा संस्थया समर्पिताय साध्यतापठनावेदनाय मन्त्रिपरिषद् अङ्गीकारमदात्। ५३० कि.मी. दूरे अर्धातिवेगरेल्यानसेवार्थम् अधुना विद्यमानात् युग्मलोहमार्गात् ऋते अन्यः युग्ममार्गः इति केरलराज्यस्य विशेषसेवापट्टिकायां स्थिता पद्धतिरिति सर्वकारस्य वार्ताविज्ञप्त्यां सूचना अस्ति।
प्रतिहोरं १८० तः २०० की.मी. पर्यन्तं वेगाय युक्तः लोहमार्गः एवावश्यकः एतस्य निर्माणमेव उद्दिश्यते।

सुषमा स्वराज् वर्या निर्याता, राजनैतिकमण्डले प्रियङ्करी नेत्री आसीत्।

नवदिल्ली- वरिष्ठा भा.ज.पा. नेत्री तथा विदेशकार्यमन्त्रिचरा च सुषमा स्वराज् वर्या दिवंगता। दिल्ली एयिंस् चिकित्सालये सा एहिकं देहं तत्याज। हृदयाघात एव मृत्युकारणमिति सूचना। सा 67 वयस्का आसीत्। मरणाद् ईषद् होरायाः पूर्वं काश्मीर् विषये प्रधानमन्त्रिणं नरेन्द्रमोदीवर्यं ट्विट्टर् द्वारा सा अभ्यनन्दयत्।

     भा.ज.पा. दलस्य तथा अन्येषां विपक्षिदलानां च प्रियङ्करी आसीत् सा। स्वकीयेन राजनैतिकवैदग्ध्येन राष्ट्रान्तरे संलग्नानां असंख्यानां प्रवासिनां साहाय्यम् अनया महाभागया व्यदधात्।

     अनारोग्यकारणेन गते लोकसभानिर्वाचने सा प्रत्याशी नासीत्। तथापि समाजमाध्यमद्वारा सा राजनैतिकमण्डले कर्मकुशला आसीत्। समाजमाध्यमद्वारा सामाजिकान् प्रति सुदृढं बन्धम् सा पर्यपालयत्। अत एव आराष्ट्रं वहवः आराधकाः तां स्तुवन्तः  अवर्तन्त।

मधुरस्मितम्- बालकानां कृते विश्वे प्रथमं संस्कृतचलनचित्रम्।

एरणाकुलम्- विश्वे प्रथमतया वालकानां कृते निर्मीयमाणं संस्कृतचलनचित्रं भवति मधुरस्मितम्। अस्य पूजा तथा पिञ्जोद्घाटमकर्म सुसम्पन्नम्। संस्कृतं निर्माणसंघस्य  केतने प्रस्तूयमानस्य अस्य चित्रस्य निदेशकः सुरेष् गायत्री वर्यः भवति। निसार् वर्यः निदेशकत्वनिरीक्षणं विदधाति। सानिमोल् के.एस्. सहनिदेशिका भवति।

अस्य वालचलचित्रस्य कथां बिजिला किषोर् कुमार् विदधाति तथा अरुण् नेल्लनाट् पटकथां च विदधाति। गीतप्राधान्ययुक्तस्य अस्य चित्रस्य कृते सुरेष् विट्टियरम्, बिजिला किषोर् कुमार्, डो. कुमार् प्रभृतयः गानानि रचयामासुः। एषां गानानां संगीतम् राजेषु नारायणः व्यदधात्। रुग्मा, अय्फुना, नुजुम्, अर्या एं नायर् इत्येताः गीतानि आलपन्।

केरलीयाः संस्कृताध्यापकाः छात्राश्च अस्य चित्रस्य नेपथ्ये प्रवर्तन्ते। सार्वजनीनविद्यालयानां छात्राणां च उत्कृष्टतायाः कथा एवेदं चलनचित्रं अस्मान् वदति। छात्राणां कृते एकं आध्ययनचित्रमपि भवति मधुरस्मितम्। अस्य लाभं केरलस्य प्रलयानन्तरपुनारचनायै मुख्यमन्त्रिणः दुरिताश्वासनिधौ निक्षेप्स्यतीति निदेशकः अवदत्।

चलनचित्रमिदं शिसुदिने प्रदर्शनाय सज्जं भविष्यति।

संस्कृतवाराचरणम् – डि.बि.जि.एच्.एस्. कोटकरा।

जम्मू-काश्मीरस्य विशिष्टाधिकारः निरस्तः। राज्यं द्विधा विभक्तम्, प्रजातन्त्रे कृष्णदिनमिति विपक्षदलानि।

नवदिल्ली- जम्मू-काश्मीरस्य विशेषाधिकारदायक‌ः संविधानस्य ३७०तमः खण्डः निरस्तः। एतत्सम्बन्धिनि आदेशे राष्ट्रपतिः रामनाथकोविन्दः हस्ताक्षरमकरोत्। राज्यं द्विधा विभक्तुमुद्दिष्टं देयकं गृहमन्त्री अमित् षा वर्यः एव प्रास्तौत्। काण्ग्रेस् दलस्य नेतृत्वे विपक्षदलानां कठिनं प्रतिषेधं विगणय्यैव देयकं प्रस्तुतम्। प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य वसतौ आयोजिते मन्त्रिमण्डलस्य विशिष्टाधिवेशने एवायं निर्णयः स्वीकृतः।
काश्मीरस्य विशिष्टाधिकारविषये भा.ज.पा दलं पूर्वमेव विपिरतिपत्तिं पर्कटयदासीत्। निर्वाचनप्रकटनपत्रिकायां एतद्विषयं दलेनानेन सूचितं चासीत्।

 

चन्द्रयानं महत्तमम् – 10-08-2019

EPISODE – 91

नूतना समस्या –

“चन्द्रयानं महत्तमम्”

ഒന്നാംസ്ഥാനം

ഭാരതീയവരിഷ്ഠാനാം
ശാസ്ത്രജ്ഞാനാം മനീഷിണാം
അശ്രാന്തയത്നസാഫല്യം
ചന്ദ്രയാനം മഹത്തമം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 10-08-2019

EPISODE – 91

 

प्रश्नोत्तरम्।

 

 

 

  1.  ——– गच्छतः । (क) कविः  (ख) कवी  (ग) कवयः
  2.  ———कूर्दते । (क) कपिः (ख) कपी (ग) कपयः
  3. मुनी ——–। (क) उपविशति (ख) उपविशतः  (ग) उपविशन्ति
  4. यतयः मन्त्रं ———। (क) जपति  (ख) जपतः (ग) जपन्ति
  5.  ——— क्री़डाङ्कणे धावतः । (क) क्रीडापटुः (ख) क्रीडापटू  (ग) क्रीडापटवः
  6. जगद्गुरुः आशीर्वादं ———। (क) यच्छति (ख) यच्छतः  (ग) यच्छन्ति
  7.  ———- पालयन्ति । (क) पिता (ख) पितरौ  (ग) पितरः
  8. नेता ——–। (क) वन्दते (ख) वन्देते  (ग) वन्दन्ते
  9. भ्रातरौ ———। (क) हसति  (ख) हसतः  (ग) हसन्ति
  10.  ——– पाठं पाठयतः । (क) गुरुः (ख) गुरू (ग) गुरवः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Adidev C S
  • Anitha K A
  • Mary Jose
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”