Monthly Archives: August 2019

नक्षत्राणाम् अन्तरं निर्णीय क्षीरपथः न ऋजुविस्तृतः इति शास्त्रज्ञा अभ्युपगताः।

अस्माकं मातृनक्षत्रसमूहः क्षीरपथः वक्ररूपेण परस्परं संलग्नः न तु ऋजुरूपः इति ज्योतिश्शास्त्रज्ञानाम् नूतनः अभ्युपगमः। शास्त्रलोकस्य पूर्वज्ञानं परिवर्तयन् वार्स्वा विश्वविद्यालयीयाः गवेषकाः क्षीरपथस्य त्रिमानचित्रं बहिरानीताः।
एतदनुसारं सार्क दशसहस्रकोटि नक्षत्राणां समूहस्य अवस्थितिः तस्य केन्द्रात् परिवृत्य वक्ररूपेण वर्तते इति ज्ञायते। शतकेभ्यः पूर्वं इतरनक्षत्रसमूहैः सह परस्परघर्षणेनैव क्षीरपथस्य वक्रता सञ्जाता इति गवेषकाः गणयन्ति।