केरलराज्ये अतितीव्रा वृष्टिः, प्रलयसाध्यतासूचना, जनेभ्यो जाग्रतानिर्देशेन सह केन्द्रिय जलायोगः।

 कोच्ची –  राज्ये तीव्रा वृष्ठिः अनुवर्तते। अतितीव्रवृष्टिः अनुवर्तमाने साहचर्ये केन्द्रिय-जलायोगः 11 मण्डलेषु प्रलयसाध्यतासूचनाम् अदात्। पेरियार्, वलपत्तनम्, कुतिरप्पुषा, कुरुमन् पुषा इत्यादिषु नदीषु जलसञ्चयः भीकररुपेण उपरि गच्छति इति जलायोगः अवगच्छति। प्रायेण सर्वा नद्यः कूलङ्कषा भविष्यन्तीति जलायोगम् उद्धृत्य राज्य-दुरन्तनिवारण संधः सूचनां ददाति।

     पत्तनंतिट्टा, आलप्पुषा, कोट्टयम्, एरणाकुलम्, इटुक्की, तृशूर्, पालक्काट्, कोषिक्कोट्, वयनाट् कण्णूर्, कासरगोड् इत्येयेषु मण्डलेष्वेव जलायोगस्य प्रलयसाध्यतानिर्देशः। नदीतीरेषु वसन्तः अतीव जाग्रता पालनीयाः इति जलायोगः शूचयति।

Leave a Reply

Your email address will not be published. Required fields are marked *