Monthly Archives: August 2019

अध्यापकानां कृते केन्द्रसर्वकारस्य प्रशिक्षणपद्धतिः- निष्ठा।

नवदिल्ली- विश्वे बृहत्तरेण प्रशिक्षणकार्यक्रमेण सह केन्द्र- मानवसंसाधनमन्त्रालयः प्रगच्छति। पाठ्यचर्यायां परिवर्तने समग्रे जाते एव शिक्षकाणां प्रशिक्षणं विधातुं National Initiate on School Teachers Head holistic Advancenent(NISTHA) निष्ठा इति कार्यक्रमः। अस्य आरम्भः अस्मिन् वर्षे आगस्त् २२ दिनाङ्के भविता।

     आराष्ट्रं १९००० अधिकम् अध्यापकप्रशिक्षणकेन्द्राणि सन्ति। एतद्वारा प्रशिक्षणं विधातुमुद्दिश्यते इति अधिकारिणः सूचयन्ति।

     अध्यापकाः समाजस्य मुख्यस्तम्भाः भवन्ति। कालानुसृतं तेषां नैपुण्यं श्रेष्ठं करणीयमिति नीति आयोगस्य विशिष्टकार्यदर्शी यादवेन्द्र माथुरः अवदत्।

यत्नो∫यं सफलो गतः – 24-08-2019

EPISODE – 93

नूतना समस्या –

“यत्नो∫यं सफलो गतः”

ഒന്നാംസ്ഥാനം

“ചന്ദ്രയാനം” പ്രവിഷ്ടം സ്യാത്
ചന്ദ്രസ്യാകർഷണസ്ഥലേ
വിജയം ലഭതേ ചേത്തു
യത്നോSയം സഫലോ ഗത:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

पादवार्षिकपरीक्षा- दशमवर्गस्य उच्चतरवर्गस्य च एकस्मिन् समये परीक्षा।

कोच्ची- सार्वजनीनविद्यालयेषु नवीकृतः परीक्षाक्रमः पादवार्षिकपरीक्षायाः आरभ्य अनुवर्तयितुम् शिक्षाविभागः सन्नह्यति। परन्तु नवीकृते समयक्रमे परीक्षां सञ्चालयितुं सिद्धता नारब्धा इति विषये अध्यापकानाम् आशङ्का वर्तते।

पादवार्षिकपरीक्षा आगस्त २६ दिनाङ्के नूतनसमयक्रमे आरभते इति सूचना लब्धा। परं सुविधायोजनविषये कापि सूचना न लब्धा इत्यध्यापकाः कथयन्ति।

गतवर्षं यावत् उच्चतरवर्गाणां परीक्षा पूर्वाह्णे दशमवर्गस्य परीक्षा अपराह्ने च आयोजिता। मार्चमासस्य कठिने निदाघे अपराह्नसमये परीक्षा छात्राणां दुस्सहा इति बालावकाशायोगे आवेदनं लब्धमासीत्। अत एव दशमकक्ष्यापरीक्षा अस्मिन् वर्षे उच्चतरवर्गस्य परीक्षया सह सञ्चालयितुं निरणयत्। तस्य प्रतिमानरूपेण पादवार्षिकपरीक्षापि एवं सञ्चालयतीति अधिकारिभिः निगदितम्।

PRASNOTHARAM – 24-08-2019

EPISODE – 93

 

प्रश्नोत्तरम्।

 

 

  1. बालः विद्यालयं ———। (क) गच्छसि (ख) गच्छति (ग) गच्छामि
  2. जननी पुत्रं ———-। (क) ताडयति  (ख) ताडयसि  (ग) ताडयामि
  3. जनाः नृपं ———। (क) वदामः  (ख) वदथ  (ग) वदन्ति
  4.  ——– जनकं पश्यामः । (क) ते  (ख) यूयम्  (ग) वयम्
  5.  ——— कुत्र गच्छसि। (क) अहम्  (ख) त्वम्  (ग) सः
  6. गोपालः ——— पालयति। (क) वृषभः  (ख) वृषभस्य (ग) वृषभम्
  7. पुत्री ——-स्मरति। (क) जननी  (ख) जननीम्  (ग) जनन्यै
  8.  ——— आभरणानि  धरन्ति। (क) वनिताः (ख) वनिताभिः (ग) वनिता
  9. मार्जारः ——— खादति। (क) मूषकात्  (ख) मूषकस्य  (ग) मूषकम्
  10. देवः वरं ——-। (क) यच्छति (ख) यच्छसि (ग) यच्छामि

ഈയാഴ്ചയിലെ വിജയി

KRISHNAKUMARI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnakumari
  • Sreehari M R
  • Adidev C S
  • Maya P R
  • Sureshbabu
  • Anjana M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

मतदातृपरिचयपत्रम् आधार् रेखया सह योजनीयमिति निर्वाचनायुक्तः।

नवदिल्ली- निर्वाचनपरिचयपत्रम् आधार् रेखया सह योजनीयमिति निर्वाचनायुक्तः। एतत्कार्यं संसूच्य निर्वाचनायोगः नियममन्त्रालयं प्रति लेखमलिखत्। तदर्थं १९५० वर्षस्य जनप्रातिनिध्यनियमे अावश्यकाः भेदगतयः आयोजनीय इत्यपि आयोगः वदति।

व्याजमतदानं युग्ममतदानं च निवारयितुं एतेन साध्यं स्यादिति आयुक्तः अभिप्रैति स्म। पूर्वम् ऐच्छिकरूपेण केचन मतदारः स्वकीयानि पत्राणि आधार् रेखया सह समयोजयन्नासन्। एषां संख्या ३२ कोटिपरिमिता भवति।

२०१५ तमे वर्षे संयोजनार्थं निर्वाचनायुक्तस्य उद्यमः सर्वोच्चन्यायालयेन निरुद्धः आसीत्।

राष्ट्रं स्वतन्त्रतादिनाघोषेण विराजते, अरुणदुर्गे प्रधानमन्त्री ध्वजारोहणं कृतवान्।

नवदिल्ली- ७३तमे स्वतन्त्रतादिनाघोषे राष्ट्रं विराजते। नवदिल्ल्याम् अरुणदुर्गे राष्ट्रियध्वजारोहणं प्रधानमन्त्री नरेन्द्रमोदीवर्यःव्यदधात्। राजघट्टे महात्मगान्धिनः शवकुटीरे पुष्पाणि अर्चित्वा एव स अरुणदुर्गमाविवेश। विविधानां सेनाविभागानाम् अनुरक्षकादरं स प्रत्यग्रहीत्। एतदनन्तरं प्रधानमन्त्री ध्वजम् आरोहयामास।

चन्द्रयान-२ भूमेः भ्रमणपथमतिक्रान्तः, चन्द्रं प्रति प्रयाणमारब्धः।

बंगलूरु- भारतस्य द्वितीयः चन्द्रपर्यवेक्षण उपग्रहः भूमेः भ्रमणपथमतिक्राम्य चन्द्रं प्रति प्रयाणमारभत। भूमेः भ्रमणपथात् परिवर्तनं विजयप्रदम् आसीदिति भारतीय-शून्याकाश-पर्यवेक्षणसंघः सूचयति। प्रातः ३.३० वादने एव एतदर्थं भ्रमणपथोन्नमनमभवत्।
चन्द्रं लक्ष्यीकृत्य प्रस्थास्यमानः चन्द्रयान्-२ उपग्रहः आगस्त् २० दिनाङ्के चन्द्रस्य भ्रमणपथं प्राप्स्यति। ट्रान्स् लूणार् इञ्जक्षन् इति कृत्यस्य विजयेन चन्द्रयानस्य भूमिं परिक्रम्य २३ दिवसीयस्य प्रयाणस्य समापनमेष्यति। अनेन चन्द्रयान्-२ चन्द्रस्य स्वाधीनवलयम् आगच्छति। ततः पेटकस्थं यन्त्रं प्रज्वाल्य षट्भिः दिवसैः चन्द्रस्य दूरतमं भ्रमणपथं नेष्यति। ततः क्रमशः चन्द्रमण्डलात् १०० कि.मी. दूरस्थं भ्रमणपथं नेष्यति। तदनन्तरं सेप्तम्बर् ७ दिनाङ्के चन्द्रस्य दक्षिणध्रुवे पेटकम् अवतरिष्यति।
३८४० कि.ग्रां भारयुक्तं चन्द्रयान्-२ उपग्रहम् उद्वहन् जी.एस्.एल्.वी. मार्क्-३ उदग्रयानं गते जूलै २२ दिनाङ्के एव श्रीहरिक्कोट्टातः ऊर्ध्वमगात्।

संझेत एक्स्प्रेस् रेलयानं सेवां निरवर्तयत् इति भारतम्।

नवदिल्ली- भारतपाकिस्तानयोः मध्ये सेवां विधास्यमानस्य संझोत एक्स्प्रेस् इति रेलयानस्य सेवां केन्द्रसर्वकारेण निरवर्तयत्। पूर्वं नवदिल्लीतः भारत-पाकिस्तानसीमनि अट्टारिपर्यन्तमेव भारतेन सेवा कृता। ततः तस्मात् स्थानात् लाहोर् पर्यन्तं पाकिस्तानेन आयोजितं रेल्यानमुपयुज्य यात्रिकाः गच्छन्ति।

लाहोर् तः अट्टारिपर्यन्तं सेवा पाकिस्तानेन अवसिता।अत एव सेवा अवसीयते इति उत्तररेल्वे वार्तापत्रिकायां सूचयति। जम्मू-काश्मीरस्य विशेषाधिकारदायकः संविधानस्य ३७० अनुच्छेदः गतदिनेव प्रतिगृहीत आसीत्। तदनन्तरमेव पाकिस्तानेन रेल्यानसेवा आगस्त् ८ तः निराकृता।
अस्यैव भागत्वेन लाहोर् नवदिल्ली मध्ये सेवां विधास्यमाना बस्यानसेवा च पाकिस्तानेन निराकृता।

दिनं संस्कृतमागतम् – 17-08-2019

EPISODE – 92

नूतना समस्या –

“दिनं संस्कृतमागतम्”

ഒന്നാംസ്ഥാനം

അതിസമ്പന്നമസ്മാകം
ഭാരതീയം തു പൈതൃകം
തസ്യ സംരക്ഷണാർഥം ഹി
ദിനം സംസ്കൃതമാഗതം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 17-08-2019

EPISODE- 92

 

प्रश्नोत्तरम्।

 

 

 

  1. चट्टम्पिस्वामिनः जन्मदेशः कुत्र वर्तते ? (क) चेम्पषन्ति (ख) कालटी (ग) कोल्लूर्
  2. वाग्भटेन विरचितः आयुर्वेदग्रन्थः कः ? (क) चरकसंहिता (ख) अष्टाङ्गहृदयः (ग) सुश्रुतसंहिता
  3. “मनुष्यालयचन्द्रिका ” नाम ग्रन्थः कस्य शास्त्रसम्बन्धी वर्तते ? (क) गणितशास्त्रम् (ख) कृषिशास्त्रम् (ग) वास्तुशास्त्रम्
  4. लोके प्रथमः  स्थापितः विश्वविद्यालयः कः ? (क) तक्षशिला (ख) नलन्दा  (ग) काशी
  5. अरिविप्पुऱं शिवप्रतिष्ठा केन कृतमासीत् ?  (क) श्रीनारायणगुरुणा (ख) शङ्कराचार्येण  (ग) चट्टम्पिस्वामिना
  6.  कथासरित्सागरस्य कर्ता कः ? (क) बाणभट्टः  (ख) वेदव्यासः (ग) सोमदेवभट्टः
  7. केरलव्यासः कः? (क) कोटुङ्गल्लूऱ् कुञ्ञिक्कुट्टन् तम्पुराऩ् (ख) केरलवर्मा वलियकोयितम्पुरान् (ग) ए आर् राजराजवर्मा 
  8. “उवाच  “इत्यस्य लकारः कः ? (क) लङ् (ख) लुङ् (ग) लिट्
  9. “पृथिव्याम् “अत्र विभक्तिः कः ? (क) सप्तमी (ख) षष्ठी (ग) पञ्चमी
  10. “अस् ” लट् लकारे मध्यमपुरुषैकवचनम् ? (क) अस्मि  (ख) असि (ग) अस्ति

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Sajna Muhammed
  • Savitha K S
  • Dawn Jose
  • Anderson Wilson
  • Mohan Das

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”