मेघविस्फोटनसदृशा वृष्टिः, वृष्टेः शक्तिः क्षीयते इति पर्यावरणविदग्धानाम् अभिप्रायः।

कोच्ची- केरलस्य प्रावट्कालवृष्टिमधिकृत्य पठनेषु वृष्टिन्यूनतायां प्रथमस्थानं वयनाट् देशस्य आसीत्। गतस्य १२० वर्षस्य गणनायां वृष्टेः अतिन्यूनता अस्मिन् मण्डले शास्त्रज्ञैः निर्णीता। अस्मिन् मण्डले २० तः ३० शतमितं वृष्टिन्यूनता ते अन्वीक्षन्ते। ओडीषातीरे रूपं प्राप्तस्य न्यूनमर्दस्य तथा आरबसागरात् जातस्य प्रावृट्वातस्य च प्रभावेण आगता वृष्टिः अस्मिन् वर्षे वयनाट् प्रभृतिषु प्रदेशेषु अधिकं दुष्प्रभावम् अजनयत्।

वृष्टेः तीव्रता एव मृत्पातस्य कारणमभूत्। अधुना लभ्यमाना वृष्टिः मेघविस्फोटनसमाना इति कोच्ची शास्त्रसाङ्केतिकविश्वविद्यालयस्य रडार् केन्द्रं सहयोगिनिदेशकः डो. एस्. अभिलाष् वर्यः सूचयति। मेघस्य कठिनता अधिका अस्ति। अनेन अधिकं जलं सञ्चेतुं शक्यते। वृष्टिसमये एताः आपः आहत्य अघःपतन्ति।

अतितीव्रा वृष्टिः पारिस्थितिकदुर्बले प्रदेशे पतति चेत् तत्रस्थस्य मृदः शोषणं तथा मृत्पातश्च सम्भवति। एषः प्रतिभास एव वयनाट् प्रभृतिषु प्रदेशेषु दृश्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *