Daily Archives: August 9, 2019

प्रणब् मुखर्जी वर्यः भारतरत्न पुरस्कारम् अन्वगृह्णत्।

नवदिल्ली- राष्ट्रे परमोन्नतपौरपुरस्कारं भारतरत्ननामकम् अदात्। कोण्ग्रेस् दलनेता तथा राष्ट्रपतिचरः प्रणाब् मुखर्जी वर्यः राष्ट्रपतेः रामनाथकोविन्दवर्यात् पुरस्कारम् अन्वगृह्णत्। राष्ट्रपतिभवने ह्यः सायम् आयोजिते समारोहे एव पुरस्कारवितरणं सम्पन्नम्।
भा.ज.पा.दलस्य पूर्वरूपं भारतीयजनसंघ् इत्यस्य स्थापकनेता नानाजी देश्मुख्, गायकः भूपन् हसारिक इत्येतेभ्यो मरणानन्तरबहुमति रूपेण भारतरत्नपुरस्कारः कल्पितः।

पञ्चदशकपर्यन्तं कोण्ग्रेस् दलस्य नेतृत्वे विलसन् प्रणाब् मुखर्जी वर्यः २०१७ तमे वर्षे राष्ट्रपतिपदात् विरराम। तदनन्तरं स राजनैतिकक्षेत्रे सक्रियः नासीत्।

केरलराज्ये अतितीव्रा वृष्टिः, प्रलयसाध्यतासूचना, जनेभ्यो जाग्रतानिर्देशेन सह केन्द्रिय जलायोगः।

 कोच्ची –  राज्ये तीव्रा वृष्ठिः अनुवर्तते। अतितीव्रवृष्टिः अनुवर्तमाने साहचर्ये केन्द्रिय-जलायोगः 11 मण्डलेषु प्रलयसाध्यतासूचनाम् अदात्। पेरियार्, वलपत्तनम्, कुतिरप्पुषा, कुरुमन् पुषा इत्यादिषु नदीषु जलसञ्चयः भीकररुपेण उपरि गच्छति इति जलायोगः अवगच्छति। प्रायेण सर्वा नद्यः कूलङ्कषा भविष्यन्तीति जलायोगम् उद्धृत्य राज्य-दुरन्तनिवारण संधः सूचनां ददाति।

     पत्तनंतिट्टा, आलप्पुषा, कोट्टयम्, एरणाकुलम्, इटुक्की, तृशूर्, पालक्काट्, कोषिक्कोट्, वयनाट् कण्णूर्, कासरगोड् इत्येयेषु मण्डलेष्वेव जलायोगस्य प्रलयसाध्यतानिर्देशः। नदीतीरेषु वसन्तः अतीव जाग्रता पालनीयाः इति जलायोगः शूचयति।