Monthly Archives: May 2018
कर्णाटके भ ज पा दलस्य प्रामुख्यम्, काण्ग्रेस् दलस्य महान् पराजयः
बङ्गलूरु- कर्णाटकविधानसभानिर्वाचने भा ज पा दलं भूरि स्थानेषु विजयपथं प्राप। मताकलितेषु २२२ मण्डलेषु भा ज पा दलं १११ स्थानेषु बहुत्वं प्राप। कर्णाटकस्थेषु षट्सु प्रान्तेषु पञ्चस्वपि भाजपा दलस्यैव प्रामुख्यम्।
अधिकारे स्थितस्य काण्ग्रेस् दलस्य महान् पराजयः अभवत्। ते ६९मण्डलेष्वेव केवलं बहुत्वं प्रापुः। जनतादलस्य ४० स्थानेषु बहुत्वमस्ति। तीरदेश-मध्यप्रान्तयोः भाजपा दलं शक्तं पुरोगामित्वमविन्दत। मैसूरु प्रान्ते जनतादलस्यैव प्रामुख्यम्। हैदरबाद् कर्णाटके काण्ग्रेस् दलं पश्चादगच्छत्। लिङ्गायत् प्रान्ते अपि तेषां पराभव एव। अनेन कर्णाटके भजपा दलम् अधिकारस्थानं प्राप्स्यति इति निश्चितमेव।
छात्राणां कृते विशिष्टा सूचना।
निदाघविरामानन्तरं केरलस्थेषु विद्यालयेषु जूण् प्रथमे दिनाङ्के शुक्रवासरे एव कक्ष्या आरभ्यते। द्वितीये दिने शनिवासरे/कक्ष्या भविष्यति। एतत्सम्बन्धि औद्योगिकं प्रख्यापनम् अस्मिन् सप्ताहे एव भविता। नवीनं विद्याभ्यास नियममनुसृत्य मध्याह्नभोजनवितरणार्थं केन्द्रसर्वकारात् धनादेशं प्राप्तुं विद्यालयेषु २२० प्रवृत्तिदिनमावश्यकं भवति। अत एवायं निर्णय़ः। अस्मिन् अध्ययनवर्षे अधिकाः शनिवासराः प्रवृत्तिदिनत्वेन परिगणनीया भवेयुः।
चलचित्र-नाटकनटः कलाशाला बाबू दिवंगतः।
कोच्ची- चलचित्रेषु नाटकेषु दूरदर्शनधारावाहिकासु च अभिनयप्रतिभां प्रदर्शितः नटः कलाशाला बाबू दिवंगतः। मस्तिष्काघातकारणात् एरणाकुलस्थे निजीयचिकित्सालये आसीत् अस्यान्त्यम्। हृदयसम्बन्धेन आमयेन समीपकाले चिकित्सायामासीत्। चलचित्रेषु सहनटरूपेण प्रतिनायक रूपेण चास्य अभिनयपाटवम् अतुल्यमासीत्। नाटकरंगे स्वीयां प्रतिभां प्रकटयन्नयं चलचित्रलोकमागतः।
कथाकेलिमण्डले प्रसिद्धः आचार्यः कलामण्डलं कृष्णन् नायर् तथा मोहिनियाट्ट रंगे प्रसिद्धा नर्तकी कलामण्डलं कल्याणिक्कुट्टियम्मा चास्य पितरौ। नैकासु दूरदर्शनधारावाहिकासु चाभिनीय अयं स्वकीयामतुलां प्रतिभां प्राकटयत्।
मेघाविष्टं नभस्तलम् – 19-05-2018
नूतना समस्या –
” मेघाविष्टं नभस्तलम्”
ഒന്നാംസ്ഥാനം
वर्षा नूनं समागच्छेत्
झंझावातोfपि वा भवेत्।
मित्राणि! पश्यता दूरे
मेघाविष्टं नभस्तलम्।।
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM – 19-05-2018
प्रश्नोत्तरम्।
- स्कन्धपुराणे कति श्लोकाः सन्ति ? (क) ८१००० (ख) ८२००० (ग) ८३०००
- ” सर्वं खल्विदं ब्रह्म ” (क) छान्दोग्योपनिषद् (ख) कठोपनिषद् (ग) ईशावास्योपनिषद्
- ” रीतिरात्मा काव्यस्य ” (क) मम्मटस्य (ख) कुन्तकस्य (ग) वामनस्य
- ए आर् राजराजवर्मणः तूलिकानाम किम् ? (क) केरलव्यासः (ख) केरलकालिदासः (ग) केरलपाणिनिः
- ” पद्मावती ” कस्मिन् भासनाटके नायिका भवति ? (क) स्वप्नावासवदत्ते (ख) ऊरुभङ्गे (ग) मध्यमव्यायोगे
- कास्मीरदेशे संजातः आलङ्कारिकः कः ? (क) दण्डिः (ख) वामनः (ग) आनन्दवर्धनः
- आस्तिकदर्शनेषु एकम् (क) बौद्धम् (ख) मीमांसा (ग) चार्वाकम्
- ” गुर्वाष्टकस्य ” कर्ता कः ? (क) श्रीनारायणगुरुः (ख) शङ्कराचार्यः (ग) चट्टम्पिस्वामी
- चतुर्विधपुरुषार्थेषु परमपुरुषार्थः कः ? (क) धर्मः (ख) अर्थः (ग) मोक्षः
- आकाशस्य गुणः कः? (क) रूपः (ख) रसः (ग) शब्दः
ഈയാഴ്ചയിലെ വിജയി
ASA T.V
“അഭിനന്ദനങ്ങള്”
कर्णाटकराज्ये विधानसभानिर्वाचनार्थं मतदानमारब्धम्। ४.९ कोटि मतदातारः विधिं निर्णेष्यन्ति।
बङ्गलूरु- कर्णाटकराज्ये मतदानमारब्धम्। प्रातः सप्तवादनादारभ्य सायं षट्वादनपर्यन्तं मतदानं भविष्यति। २०१९ लोकसभानिर्वाचनस्य प्राग्रूपत्वेन परिगण्यते इदं निर्वाचनम्। अत एव राष्ट्रिय- राजनैतिकस्य गतिनिर्णयरूपमपि भवेदिदं निर्वाचनम्। द्वयोः मण्डलयोः मतदानं परिवर्तितम्। शिष्टेषु २२२ मण्डलेषु अद्य मतदानं सम्पूर्णं भविष्यति।
२०१३ निर्वाचनमपेक्ष्य १२ शतमितं मतदातारः अधिकमस्ति अस्मिन् निर्वाचने। आहत्य ५६६९५ मतदान केन्द्राणि सन्ति एषु ४५० केन्द्राणि स्त्रियः नयन्ति।
केरलेषु प्रावृट् समयात्पूर्वमागच्छतीति प्रवचनम्। मेय २५ प्रभृति वर्षा भविष्यति।
पूणे-केरलेषु अस्मिन्वर्षे प्रावृट् निश्चितसमयात् पूर्वमेवागमिष्यतीति वातावरणनिरीक्षणकेन्द्रस्य प्रवचनम्। मेय् २५ दिनाङ्कात् प्रभृति अत्र वृष्टिः भविता इति केन्द्रिय-वातावरणविभागस्य सूचना। अस्मिन् वर्षे वृष्टिः साधारणया रीत्या भविष्यतीति पूर्वमेव सूचना आसीत्।
साधारणतया जूण् प्रथमे तिथावेव प्रावृट् केरलानागच्छति। अस्मिन् वर्षे ततः पूर्वमेव आगमनं प्रवक्ति। यदि सूचिते समये एव वृष्टिः भविष्यति तर्हि २०१८ वर्षः निश्चितसमयात् पूर्वं वृष्टिलब्धः वर्षः जायेत। वातस्य गतिं निरीक्ष्यैव वृष्टेः प्रवचनं करोति।
भारतमुद्रा पुरस्कारः माटम्प् कुञ्ञुक्कुट्टन्वर्याय समर्पितः।
तृशूर्-अशोकन् पुरनाट्टुकरा अनुस्मरणसमितिः तथा भारतमुद्रा देयधर्मसंघश्च संयुक्ततया आयोजितः अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः माटम्प् कुञ्ञुक्कुट्टवर्याय समर्पितः। साहित्य अक्कादमी वैलोप्पिळ्ळी शालायां सम्पन्नम् अधिवेशनं भूतपूर्वः विधानसभानेता तेरम्पिल् रामकृष्णन् वर्यः उदघाटयत्। पी.के. राजन् वर्यः अध्यक्षपदमलंचकार। आषा मेनोन् पुरस्कारं समर्पितवान्। डो. एस्.एन्. महेष् बाबू, वटक्कुम्पाट् नारायणन्, डो. वी.के. विजयन्, टी.वी. चन्द्रमोहन्, षाजू पुतूर्, सुरेन्द्रन् कटय्क्कोट् सी. अर्. सुकुमारन्, लिबी पुरनाट्टुकरा प्रभृतयः प्रभाषणमकुर्वन्।
शरणार्थमागम्यमानानां मावोवादिनां कृते पुनरधिवाससम्पुटम् आयोजयति केरलसर्वकारः।
तिरुवनन्तपुरम्ः- केरलेषु प्रवर्तमानानां वामपक्ष-तीव्रवादिदलीयानां मावोवादिनां कृते शरणागत-पुनरधिवासपद्धतिं प्रयोगतलमानेतुं मन्त्रिमण्डलस्य अङ्गीकारः। मावोवादाधीनतायां प्राप्तानाम् आतङ्क वादात् मोचनमुद्दिश्यैव पद्धतिः आनीयते। शरणार्थम् आगन्तुकामाः पुनः कदापि आतङ्कवादं प्रतिनिवर्त्यन्ते इति दृढीकरणार्थं तेषां कर्मावकाशस्य आसूत्रणं विधीयते। परन्तु आनुकूल्यलाभाय व्याजरूपेण शरणं प्रपित्सूनां दूरीकरणमपि पद्धतेः भागत्वेन संलक्ष्यते। मावोवादिनः तेषां प्रवर्तनं संघटनायां स्थानं च परिगणय्य विविधानि आनुकूल्यानि निर्दिष्टानि। एतदनुसारं तेषां विभागत्रयं परिकल्पितम्। प्रथमविभागस्थानां कृते पञ्चलक्षं रूप्यकाणि द्वितीय-तृतीयविभागस्थानां कृते त्रिलक्षं रूप्यकाणि च दीयन्ते।
आयुधानि रक्षिपिरुषेभ्यः प्रतिनिवर्तयितुं प्रत्येकं धनदानं प्रख्यापितम्। एतदनुसारम् ए.के.५७ इति आयुधस्य प्रत्यर्पणे २५००० रूप्यकाणां पारितोषिकमपि प्रख्यापितमस्ति।
कावेरी निर्णयः, केन्द्रसर्वकारस्य अभियाचना अद्य परिगण्यते।
नवदिल्ली- कावेरीनिर्णयक्रियान्वयनपद्धतेः अङ्गीकाराय दशदिनात्मकः समयः दातव्या इति केन्द्रसर्वकारस्य अभियाचना अद्य सर्वोच्चन्यायालयेन परिगण्यते। पद्धतेः प्रारूपं सज्जमस्ति। मन्त्रिमणडलस्य अङ्गीकाराय समयः आवश्यकः इत्येव प्रशासनस्य अपेक्षा। एतत् संसूच्य केन्द्रसर्वकारस्य सत्यवाङ्मूलं मुख्यन्यायाधीशस्याध्यक्ष्ये न्यायाधिपसंघेन परिगण्यते।
चत्वारः टी.एं.सी. जलस्य आवश्यमुन्नीय तमिल् नाटु राज्यस्य अपेक्षा न्यायालयस्य परिगणनार्थमायाति। सम्भरण्याम् अधिकं जलं नास्ति, अर्हं जलम् इतःपर्यन्तं दत्तं, पुनः दातुं न शक्यते इत्यस्ति कर्णाटकस्य न्यायवादः।