शरणार्थमागम्यमानानां मावोवादिनां कृते पुनरधिवाससम्पुटम् आयोजयति केरलसर्वकारः।

तिरुवनन्तपुरम्ः- केरलेषु प्रवर्तमानानां वामपक्ष-तीव्रवादिदलीयानां मावोवादिनां कृते शरणागत-पुनरधिवासपद्धतिं प्रयोगतलमानेतुं मन्त्रिमण्डलस्य अङ्गीकारः। मावोवादाधीनतायां प्राप्तानाम् आतङ्क वादात् मोचनमुद्दिश्यैव पद्धतिः आनीयते। शरणार्थम् आगन्तुकामाः पुनः कदापि आतङ्कवादं प्रतिनिवर्त्यन्ते इति दृढीकरणार्थं तेषां कर्मावकाशस्य आसूत्रणं विधीयते।       परन्तु आनुकूल्यलाभाय व्याजरूपेण शरणं प्रपित्सूनां दूरीकरणमपि पद्धतेः भागत्वेन संलक्ष्यते। मावोवादिनः तेषां प्रवर्तनं संघटनायां स्थानं च परिगणय्य विविधानि आनुकूल्यानि निर्दिष्टानि। एतदनुसारं तेषां विभागत्रयं परिकल्पितम्। प्रथमविभागस्थानां कृते पञ्चलक्षं रूप्यकाणि द्वितीय-तृतीयविभागस्थानां कृते त्रिलक्षं रूप्यकाणि च दीयन्ते।

     आयुधानि रक्षिपिरुषेभ्यः प्रतिनिवर्तयितुं प्रत्येकं धनदानं प्रख्यापितम्। एतदनुसारम् ए.के.५७ इति आयुधस्य प्रत्यर्पणे २५००० रूप्यकाणां पारितोषिकमपि प्रख्यापितमस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *