Daily Archives: May 5, 2018
अशोकन् पुरनाट्टुकरा अनुस्मरणसम्मेलनं भारतमुद्रा पुरस्कारसमर्पणं च।
तृशूर्- संस्कृतपण्डितः विवर्तकः पत्रिकाकारः, परिस्थितिप्रवर्तकः कविः अध्यापकः इत्यादिरूपेण बहुमुखप्रतिभस्य अशोकन् पुरनाट्टुकरा महाशयस्य निर्याणात् परं चत्वारः वर्षाः अतीताः। उदात्तानि नैकानि मूल्यानि स्वकीय़ेषु कर्ममण्डलेषु प्रवर्धयन् स सर्वेषु मण्डलेषु निस्स्वार्थं सेवनम् अकरोत्। महाशयो/यं १९८० तमे वर्षे केरलेषु इदम्प्रथमतया भारतमुद्रा नाम्नि कांश्चन सम्पूर्णां संस्कृतमासपत्रिकां समारभत। अनामिका नाम संस्कृतकथासमाहारः,नैके संस्कृतलघुव्याकरणग्रन्थाः च अनेन विरचिताः। माटम्प् कुञ्ञुक्कुट्टन् वर्यस्य महाप्रस्थानम् नामकं कैरलीनोवेल् संस्कृते विवर्तितवानयम्।
एवं बहुमुखप्रतिभस्य तस्य स्मरणार्थम् अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः आयोजितः। प्रतिवर्षं तस्य निर्याणतिथौ अनुस्मरणसम्मेलनं पुरस्कारदानं च आयोजयति। अस्मिन् वर्षे मेय् नवमे तिथौ साहित्य अक्कादमी वैलोप्पल्लि हाल् मध्ये कार्यक्रमः आयोजितः। अस्मिन् वर्षस्य पुरस्कारं माटम्प् कुञ्ञुक्कट्टन् वर्याय दास्यति। सायं ५ वादने सम्मेलनम् पी. के. राजन् वर्यस्य आध्यक्ष्ये भूतपूर्वः सभाप्रवाचकः तेरम्पिल् रामकृष्णन् वर्यः उद्घाटनं करोति। आषा मेनोन् वर्यः पुरस्कारं प्रदास्यति। बहवः पण्डिताः साहित्यकाराश्च अनुस्मरणभाषणं विधास्यन्ति। स्वागतभाषणं डो.महेष् बाबू तथा कृतज्ञताभाषणं लिबी पुरनाट्टुकरा च विधास्यतः।
उच्चतरविद्यालयेषु प्रवेशनार्थं जालाधारितानि आवेदनानि बुधवासरात् प्रभृति समर्पणीयानि।
तिरुवनन्तपुरम्-उच्चतरविद्यालयेषु एकादशकक्ष्यायां प्रवेशनार्थम् आवेदनानि बुधवासरादारभ्य स्वीकरिष्यति। उच्चतरशिक्षाविभागस्य जालपुटे जालाधारितरूपेणैव आवेदनीयानि। मेय्न१८ पर्यन्तम् आवेदनानि समर्पयितुमवकाशः वर्तते।
गतवर्षे प्रवेशार्थम् उपयुक्ता विवरणपत्रिका एव अस्मिन् वर्षे/पि उपयोक्तव्या। परन्तु स्थानांशविभाजनं द्विवारमेव भविता। विभाजनं सम्पूर्य जूण् १३ दिनाङ्के कक्ष्याप्रारम्भ एव सर्वकाराणां लक्ष्यम्।
केन्द्रीय-पाठ्यपद्धत्यां दशमकक्ष्यापरीक्षाफलं कदा प्रसिद्धीक्रियते इति निर्णयो नास्तीत्यतः आवेदनस्वीकारस्य अन्तिमतिथिविषये विवादो जायेत। स तर्कः न्यायालयपर्यन्तं गच्छेत्। तथात्वे अन्तिमतिथिः परिवर्तेत।











