Daily Archives: May 6, 2018
राष्ट्रिय-चलचित्रपुरस्कारान् अतिवेगपत्रगमनद्वारा प्रापयिष्यति।
नवदिल्ली- राष्ट्रिय-चलचित्र-पुरस्कारवितरणाधिवेशनं बहिष्कृतानां कृते तान् पुरस्कारान् अतिवेगपत्रगमनद्वारा प्रापयिष्यति इति चलच्चित्रोत्सवनिदेशालयः असूचयत्। पतकं प्रशस्तिपत्रं धनादेशं च एवं रूपेण प्रेषणं करिष्यति। गतवर्षे/पि आमयेन अन्येन वा कारणेन अनुपस्थितानां कृते एवं विधमेव पुरस्काराः प्रेषिताः इति अधिकारिणः वदन्ति।
पुरस्काराधिवेशनस्य आमन्त्रणपत्रे राष्ट्रपतिः पुरस्कारान् प्रदास्यति इत्यासीत् सूचना। अन्तिमे यामे परिवर्तनं नाङ्गीकरिष्यन्ति इति अधिवेशनस्य बहिष्कर्तृणाम् अभिप्रायः। परन्तु मार्च् मासे एव राष्ट्रपतेः समयक्रमः मन्त्रालयं प्रति प्रेषितः आसीत्। पुरस्कारवितरण-सम्बन्धीनि क्रमीकरणानि मन्त्रालय एव अकरोत् इति राष्ट्रपतिभवनस्य सूचना। राष्ट्रपतेः पुरस्कारं स्वीकर्तुं चितेषु एकादशसु केरलात् निदेशकः जयराजः गायकः के.जे. येशुदासश्च आस्ताम्। द्वावपि पुरस्कारं स्वीकृतवन्तौ।
PRASNOTHARAM – 12-05-2018
प्रश्नोत्तरम्।
- अभिज्ञानशाकुन्तलं नाम नाटके नायकः कः ? (क) दुष्यन्तः (ख) उदयनः (ग) नलः
- कति वेदाङ्गानि सन्ति ? (क) पञ्च (ख) षड् (ग) दश
- ” राजतरङ्गिणी ” नाम ऐतिहासिकग्रन्थस्य कर्ता कः ? (क) कल्हणः (ख) कालिदासः (ग) भासः
- ” जैमिनी ” कस्य दर्शनस्य उपज्ञाता भवति ? (क) मीमांसा (ख) न्यायम् (ग) सांख्यम्
- ” नरेन्द्रः ” इति कस्य बाल्यकालनाम आसीत् ? (क) श्रीशङ्करः (ख) श्रीनारायणगुरुः (ग) विवेकानन्दः
- ” कर्णभारं ” केन विरचितं भवति ? (क) व्यासः (ख) भासः (ग) कालिदासः
- ” मल्लीनाथः ” कस्मिन् विषये प्रसिद्धः भवति ? (क) कविः (ख) विमर्शकः (ग) व्याख्याता
- अहं ———– जलं पिबामि । (क) चषकम् (ख) चषकः (ग) चषकेन
- ———- परितः छात्राः तिष्ठन्ति । (क) वृक्षस्य (ख) वृक्षम् (ग) वृक्षात्
- अद्य रविवासरः। एवं चेत् प्रपरश्वः कः वासरः ? (क) सोमवासरः (ख) मङ्गलवासरः (ग) बुधवासरः
ഈയാഴ്ചയിലെ വിജയി
Dr. SUNILKUMAR KOROTH, KASARAGOD
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങളയച്ചവര്:
- Dr. SUNILKUMAR KOROTH
- VRINDA
- K S LEENA
- ANITHAKUMARI
- SANGEETHA SANDEEP
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
प्रभातं मे प्रियङ्करम् – 12-05-2018
नूतनी समस्या –
“प्रभातं मे प्रियङ्करम्”
ഒന്നാംസ്ഥാനം
ADWAITH C S
“അഭിനന്ദനങ്ങള്”