Daily Archives: May 27, 2018

केरलराज्यात् प्रापणीयानां फलानां शाकानां च समुद्रकुक्षिराष्ट्रेषु निरोधः।

तिरुवनन्तपुरम्- केरलराज्ये केषुचित् जनपदेषु निपा विषाणुबाधा निर्धारिता तद्वारा १४ जनाः मृताश्च। अस्मिन् साहचर्ये केरलराज्यात् प्रापितानां फलानां शाकानां च समुद्रकुक्षिराष्ट्रेषु निरोधः सञ्जातः। यावत्सूचनं केरलात् एतानि न आनीतानि इति यू.ए.इ. बहरिन् प्रभृतीनि राष्ट्राणि केन्द्रसर्वकारं प्रति सूचनामदुः। चर्मचटकभुक्तांशानां फलानां खादनेनैव निपा विषाणुः सम्क्रमिता इति प्रचारणमेव निरोधस्य हेतुः।

     कोच्ची देशात् प्रतिदिनं १५० टणमितानि शाकानि गल्फ् राष्ट्राणि नेष्यन्ति। कृषिशास्त्रज्ञाः परिशोध्य साक्ष्यपत्रमपि दत्वा एतानि कुवैट्, खतर्, य़ू.ए.ई. सौदी, ओमान्, बहरिन् प्रभृतीनि राष्ट्राणि नीयन्ते। अयं निरोधः केरलीयशाकवाणिज्यरङ्गे मान्द्यस्य हेतुः भविष्यतीति वणिजाः वदन्ति।

सर्वं स्वप्नसमं गतम् – 02-06-2018

नूतना समस्या –

“सर्वं स्वप्नसमं गतम्”

ഒന്നാംസ്ഥാനം

शिलातैलस्य सौलभ्यं
केषाञ्चिद् भाविचिन्तनम्।
निर्वाचनफले प्राप्ते
सर्वं स्वप्नसमं गतम्।।

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 02-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. भासनाटकेषु महाभारतकथाश्रितनाटकं किम् ? (क) प्रतिज्ञायौगन्धरायणम् (ख) अभिषेकनाटकम् (ग) मध्यमव्यायोगः
  2. अभिज्ञानशाकुन्तले विदूषकः कः ? (क) माढव्यः (ख) वसन्तकः (ग) मैत्रेय़ः
  3. ” पुरूरवस् ” कस्मिन् नाटके नायकः ? (क) विक्रमोर्वशीयम् (ख) मृच्छकटिकम् (ग) अभिज्ञानशाकुन्तलम्
  4. ” रत्नावली ” नाटकस्य कर्ता कः ? (क) मुरारिः (ख) जयदेवः (ग) श्रीहर्षः
  5.  ” वेणीसंहारम् ” नाटके कस्याः वेण्याः संहारः भवति ? (क) सुभद्रायाः (ख) द्रौपद्याः (ग) गान्धार्याः 
  6. भट्टनायकस्य प्रसिद्धं नाटकं भवति ———। (क) मुद्राराक्षसम् (ख) वेणीसंहारम् (ग) मृच्छकटिकम्
  7.  ” अच्छोदसरोवरम् ” कस्मिन् ग्रन्थे प्रतिपादितं भवति ? (क) हर्षचरितम् (ख) किरातार्जुनीयम् (ग) कादम्बरी 
  8.  वयं चित्रं ———। (क) पश्यन्ति (ख) पश्यामः (ग) पश्यथ
  9.  ——— पायसं पिबथ । (क) वयम् (ख) ते (ग) यूयम्
  10.  वृक्षे  ——- सन्ति ।(क) फलम् (ख) फलानि (ग) फले

ഈയാഴ്ചയിലെ വിജയി

REMADEVI A

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • REMADEVI A
  • ANITHAKUMARI Kottayam.
  • ADIDEV C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”