Daily Archives: May 20, 2018
जलम् अमूल्यम् -सम्भाषणकविता।
विजयन् वि. पट्टाम्बि।
बालः –
कोकिल कोकिल किं ते वदनं
शोकभरं तत् परिशुष्कम्
घोरनिदाघे तावकवदनं
जातं रूपविहीनमहो
कोकिलः –
अपिबं बालक जलमल्पं मे
भारतनद्याः गतदिवसे
हन्त हतोस्मि वदनम् उदरं
नेत्रद्वयमपि परिशुष्कम्।
बालः-
अयि भो कष्टं जलमखिलं तत्
शुष्कं जातं विषलिप्तम्।
कोकिलः –
कष्टं कष्टं दुष्टजनैस्त-
दखिलं दूषितमनुनिमिषम्।
ज्ञेयं मानवकुलजैः सर्वैः
जीवजलामृतमतिमूल्यम्।।
दुष्करं जनजीवितम् – 26-05-2018
नूतना समस्या –
“दुष्करं जनजीवितम्”
ഒന്നാംസ്ഥാനം
യഥാശക്തി മതാസക്തിം
ദീപയിത്വാ നരാധമൈഃ
വിധീയതേ വിനാ ക്ലേശം
ദുഷ്കരം ജനജീവിതം
JYOTSNA K S
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM – 26-05-2018
प्रश्नोत्तरम्।
- सः गृहम् ———। (क) अगच्छत् (ख) अगच्छम् (ग) अगच्छः
- ——– रावणः हतः । (क) रामस्य (ख) रामेण (ग) रामाय
- छात्राः ——– पठन्ति । (क) विद्यालयं (ख) विद्यालयः (ग) विद्यालये
- यूयं संस्कृतं ——–। (क) पठन्ति (ख) पठामः (ग) पठथ
- माता ———- पायसं ददाति। (क) पुत्राय (ख) पुत्रस्य (ग) पुत्रात्
- ———— पतितं तोयं सागरं प्रति गच्छति । (क) आकाशस्य (ख) आकाशात् (ग) आकाशे
- ———–भूषणं दानम् । (क) हस्तस्य (ख) हस्तः (ग) हस्तेन
- मम——– पञ्चजनाः सन्ति । (क) गृहात् (ख) गृहस्य (ग) गृहे
- रामस्य ——— नाम दशरथः । (क) पिता (ख) पितुः (ग) पित्रा
- ——– कर्म काव्यम् । (क) कवेः (ख) कविना (ग) कविः
ഈയാഴ്ചയിലെ വിജയി
REJI K. R, Kodungallur
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങളയച്ചവര്:
- REJI K. R, Kodungallur
- Bushara V P, GUPS, Kannur
- Remadevi A, NHSS Irinjalakuda
- Amarnath K V, Kerala Varma College, TSR
- Archana K V, Kannur
- Smitha SKHS Mattathur
- Sijoy E A, SNVHSS, Aloor
- Raji V A, RHS, Thumbur
- Sujatha, GHSS, Chembuchira
- Anjana S Nair
- Priya A
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
प्रधानमन्त्री रष्याराष्ट्सन्दर्शनार्थं सन्नह्यति।
नवदिल्ली- रष्याराष्ट्रसन्दर्शनार्थं प्रधानमन्त्री नरेन्द्रमोदीवर्यः सन्नह्यति। द्वयोः राष्ट्रयोः मिथः उभयकक्षिबन्धवर्धनस्य भागत्वेन भवति सन्दर्शनम्। तत्र रष्या राष्ट्रपतिना व्लादिमिर् पुटिन् वर्येण सह अनौपचारिकः उच्चकोटिः भविष्यति। तदर्थं सोमवासरे प्रधानमन्त्री प्रस्थास्यते। आन्ताराष्ट्रविषयाः आतङ्कवादप्रभृतयः नैके विषयाः च द्वाभ्यां राष्ट्रनेतृभ्यां सह मेलने चर्चाविषयाः भवितारः। गतमासे मोदीवर्यः चीना राष्ट्रपतिना षी जिन् पिङ् वर्येण सह अनौपचारिकम् उच्चकोटिं सम्पादितवान्।