Monthly Archives: January 2018

मधुरं कलकूजनम् – 20-01-2018

 

 

नूतनी समस्या

“मधुरं कलकूजनम्”

 

Last date 20-01-2018

 

ഒന്നാംസ്ഥാനം നേടിയ സമസ്യ

स्वेदार्द्रमुखपद्मानां
रतिवृक्षाग्रवासिनाम्।
प्रभाते पिकदाराणां
मधुरं कलकूजनम्।।

ലക്ഷ്മീനാരായണന്‍

“വിജയികള്‍ക്ക് അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 20-01-2018

 

 

           प्रश्नोत्तरम् ।

 

 

 

 

  1. अष्टपञ्चाशत्तमः राज्यस्तरीय केरला स्कूल् कलोल्सवे सुवर्णचषकं प्राप्ता जिल्ला का ? (क) तृश्शूर् (ख) कोषिक्कोट् (ग)मलप्पुरम्
  2. मुद्राराक्षसस्य रचयिता कः ?(क) जयदेवः (ख) विशाखदत्तः(ग) भट्टनारायणः
  3. नारिकेलफलसम्मितं वचः कस्य ? (क)भासस्य (ख)भारवेः (ग) व्यासस्य
  4. ” अजविलापः ” रघुवंशस्य कस्मिन् सर्गे भवति ? (क) पञ्चमे  (ख) अष्टमे (ग) नवमे
  5. ” वाक्यं रसात्मकं काव्यम् ”  (क) क्षेमेन्द्रस्य (ख) मम्मटस्य (ग)वामनस्य
  6. कुमारसम्भवे कुमारः ——–।(क)तारकासुरः (ख) शङ्करः (ग)कार्तिकेयः
  7. केरलेषु संस्कृतलोकाय प्रप्रथमं “संस्कृत मोबैल् आप् ” किम्?(क) संस्कृतम् आप् (ख)सङ्क्रिट् आप् (ग) नववाणि आप्
  8. ” उत्तिष्ठत जाग्रत प्राप्यवरान्निबोधत ” (क) केनोपनिषद् (ख) प्रश्नोपनिषद् (ग) कठोपनिषद्
  9. हिमवतः पत्नी (क) मेना (ख) पार्वती (ग) भूमिः
  10. ” लीलाकमलपत्राणि गणयामास पार्वती ” अत्र कः भावः ? (क) लज्जा (ख) भयम् (ग) धैर्यम्

 

Lastdate : 20-01-2018

ഈയാഴ്ചയിലെ വിജയി

Smitha nambiar GHS Nellikkurussi

“അഭിനന്ദനങ്ങള്‍”

ശെരിയുത്തരമയച്ചവര്‍:

  • Smitha nambiar GHS Nellikkurussi
  • Gokul P Anangannadi HSS Panamanna
  • Gokuldas Holycross HSS Mapranam
  • Adidev C S Harisree Vidyanikethan Thazhekkad
  • Satwik B Pudukkad
  • Geetha Gopalan
  • Rajani P G Ottappalam
  • Baiju P Nayarangadi
  • Vijitha Thrissur
  • Ambika K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

विधानसभायाः चेङ्ङन्नूर् मण्डलसामाजिकः के.के. रामचन्द्रन् नायर् दिवंगतः।

तिरुवनन्तपुरम् – केरलविधानसभायाः चेङ्ङन्नूर् सामाजिकः के.के.रामचन्द्रन् नायर् वर्यः दिवंगतः। अद्य प्रातः चतुर्वादने चेन्नै अप्पोलो चिकित्सालये आसीदस्य अन्त्यम्। यकृत् सम्बन्धेन आमयेन पीडितः तस्य चिकित्सायाम् आतुरालयं प्रवेशितः आसीत् ६५ वयस्कः अयम्। अस्य भौतिकं देहम् अद्य मध्याह्ने अनन्तपुरी विमानपत्तनम् आनेष्यति।

     एस्.एफ्.ऐ. नामकस्य विद्यार्थिसङ्घस्य प्रवर्तकरूपेण राजनैतिकक्षेत्रं प्रविष्टः स मार्क्सवादी-साम्यवादी दलस्य वरिष्टनेता आसीत्। २०१६ मेय् मासे चेङ्ङन्नूर् मण्डलात् सामाजिकत्वेन चितः आसीत्।

केरलं व्यवसायिनां सौहृदं राज्यम् – राज्यपालः ज. पी. सदाशिवम्।

तिरुवनन्तपुरम् – केरलं व्यवसायसंसम्भकाणामुचितं राज्यमिति राज्यपालः पी. सदाशिवं महोदयः अवदत्। केरलस्य विकासार्थं मलयालिनः प्रवासिनः अधिकं योगदानं कर्तुं पारयन्ति इत्यपि सो/सूचयत्। लोककेरलसभायाः समापनाधिवेशनम् उद्घाटनं कुर्वन् भाषमाण आसीत् स महोदयः।

    केरलदेशे जाताः लोके सर्वत्र सन्ति। पर्यटनकार्यविकासार्थम् अस्माभिः बह्यः परियोजनाः आसूत्रिताः सन्ति। अस्मिन् विषये प्रवासिकेरलीयानां योगदानम् अवश्यं भावि। तादृशकार्यान्वयनाय संवादस्य तथा सहयोगस्य प्रतिध्वनिः अस्यां लोककेरलसभायां जाता इत्यपि स न्यगादीत्।

भीतिमपनीय प्रजातन्त्रसंरक्षणार्थम् उद्घोषणीयम् – यश्वन्त् सिन्हा।

नवदिल्ली- प्रजातन्त्रं भीषायामस्तीति उद्घोषयन्तः चत्वारः न्यायाधीशाः वार्ताहरसम्मेलने अभाषन्त। तद्वत् प्रजातन्त्रसंरक्षणार्थं भीतिमपनीय केन्द्रमन्त्रिणः अपि उद्घोषयेयुः इति वरिष्ठः भा.ज.पा. नेता यश्वन्त् सिन्हा वर्यः अवदत्। यावत् नियमनिर्माणसभा हीनसन्धिं करोति, यावच्च सर्वोच्चन्यायालयः यथाविधि न प्रवर्तते तावत् प्रजातन्त्रं भीषायां पतति। सर्वोच्चन्यायालयस्य वरिष्ठाः न्यायाधीशा अपि प्रजातन्त्रस्य भीषा अस्तीति वदन्तः सन्ति। तेषां वचांसि न हेयानि इत्यपि सो/वदत्।

नववाणी उद्घाटनम्।

विवेकानन्दजयन्ती – अद्य देशीययुवजनदिनम्।

उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत – सार्धैकशतकात् पूर्वम् इदम् उपनिषद्वाक्यम् उद्घोषयन् कश्चन युवकः भारतीयानां मनसि स्थिरप्रतिष्ठामभवत्। भारतीयानाम् आत्मीयाचार्यः नवोत्थाननायकश्च आसीत् स युवकः।स एव स्वकर्मणा वचसा मनसा च सर्वेषां हृदयपुण्डरीके वासं कुर्वाणः स्वामी विवेकानन्दः। अमेरिक्कायां चिक्कागो नगरे संवृत्ते प्रथमे विश्वधर्मसम्मेलने भारतस्य प्रतिनिधिरूपेण भागं भजन् सर्वेषां प्रशंसाभाजनमभूत् स महात्मा। वंगदेशे विश्वनाथ दत्तस्य पुत्रत्वेन भूजातः नरेन्द्रनाथदत्त एव पश्चात् सन्यासं स्वीकृत्य विवेकानन्द इति नाम स्वीकृतवान्। श्रीरामकृष्णपरमहंसस्य शिष्यः आसीदयं महात्मा। अस्य जन्मदिवसः युवजनदिनत्वेन आचर्यते। १९८४ तमे वर्षे एतस्य निर्णयो जातः। ततःप्रभृति प्रतिवर्षं विविधैः कार्यक्रमैः युवजनदिनम् आघुष्यते।

केरलविद्यालयकलोत्सवम् आगामिनि वर्षे युनेस्को पैतृकानुसूचिकायाम् अन्तर्भावयति।

तृशूर् – तृशिवपुरे सम्पन्नं ५८ तमं विद्यालयकलोत्सवं युनेस्को पैतृकानुसूचिकाय़ाम् अन्तर्भावयितुम् अनुमतिर्जाता। एतदर्थं युनेस्को मुख्यनिदेशकं प्रति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः पत्रं प्रेषितवानासीत्।

     राज्य-शिक्षाविभागः एतदर्थं श्रममारभत। आगामिनि वर्षे एषः कलोत्सवः युनेस्को अनुसूचिकायां स्थानं लभेत इति सामान्यशिक्षानिदेशकः के.वी.मोहन् कुमार् एे.ए.एस्. अवदत्। भारते इतःपर्यन्तं को/पि कलोत्सवः अस्यां पट्टिकायां न आगतः एष्यायाः बृहत्तमः कलोत्सवः भवति अस्माकं कलोत्सवः। युनेस्को अङ्गीकारः केरलस्य तथा अस्य कलोत्सवस्य च यशः अन्ताराष्ट्रतले व्यापयितुं समर्थ इति सो/वदत्।

न्यायाधीशः के.एम्. जोसफ् सर्वोच्चन्यायालये प्राड्विवाकः

नवदिल्ली – सर्वोच्चन्यायालये प्राड्विवाकानां पङ्क्तौ अन्यः केरलीयो/पि नियुक्तः। श्री. के.एं. जोसफ् महाशयं न्यायाधीशत्वेन नियोक्तुं मुख्यन्यायाधीशस्य आध्यक्ष्ये सम्पन्नायाः कोलीजियं नाम समितेः सूचना। ज. के.एं जोसफ् अधुना आन्ध्रा-तेलङ्गाना उच्चन्यायाले मुख्यन्यायाधीशः भवति।

श्रीमान् के. शिवन् ऐ.एस्. आर्.ओ. निदेशकः।

नवदिल्ली – भारतीय बहिराकाश गवेषणसङ्घस्य मेधावित्वेन प्रमुखः शास्त्रज्ञः के. शिवन् वर्यः नियुक्तः। ए.एस् किरण्कुमार् वर्यस्य नियुक्तिकालः जनुवरि १४ तमे दिनाङ्केन पर्यवसति। अतः नूतनी नियुक्तिः। अधुना विक्रं साराबाय् शून्याकाशकेन्द्रस्य निदेशकः भवति तमिल् नाटु नागर् कोविल् देशीयः श्रीमान्. के. शिवन् वर्यः। स क्रयोजनिक् एन्जिन् निर्माणे विदग्दः भवति।

     मुम्बै ऐ.ऐ.टी. मध्ये विद्यामतीतः श्री. के. शिवन् १९८०  मध्ये मद्रास् इन्स्टिट्यूट् आफ् टेक्नोलजीतः एय्रोनोट्टिक्कल् एन्जिनीयरिङ् विषये बिरुदं सम्पादितवान्।