Daily Archives: January 10, 2018

श्रीमान् के. शिवन् ऐ.एस्. आर्.ओ. निदेशकः।

नवदिल्ली – भारतीय बहिराकाश गवेषणसङ्घस्य मेधावित्वेन प्रमुखः शास्त्रज्ञः के. शिवन् वर्यः नियुक्तः। ए.एस् किरण्कुमार् वर्यस्य नियुक्तिकालः जनुवरि १४ तमे दिनाङ्केन पर्यवसति। अतः नूतनी नियुक्तिः। अधुना विक्रं साराबाय् शून्याकाशकेन्द्रस्य निदेशकः भवति तमिल् नाटु नागर् कोविल् देशीयः श्रीमान्. के. शिवन् वर्यः। स क्रयोजनिक् एन्जिन् निर्माणे विदग्दः भवति।

     मुम्बै ऐ.ऐ.टी. मध्ये विद्यामतीतः श्री. के. शिवन् १९८०  मध्ये मद्रास् इन्स्टिट्यूट् आफ् टेक्नोलजीतः एय्रोनोट्टिक्कल् एन्जिनीयरिङ् विषये बिरुदं सम्पादितवान्।

अन्तिमस्पर्धायामिदानीं कोषिक्कोट् जिल्ला अग्रिमस्थाने।

तृशिवपुरम् – केरला स्कूल कलोत्सवस्य संस्कृतविभागे  अन्तिमस्पर्धामध्ये इदानीं कोषिक्कोट्  जिल्ला (९५) अग्रिमस्थाने वर्तते। चतुर्मात्राङ्कन्यूनतया पालक्क्काट् जिल्ला (९१) द्वितीयस्थाने तिष्ठति।

    एवं च सामान्यविभागे∫पि कोषिक्कोट् (८८५) पालक्क्काट् (८८३) च। कलोत्सवस्याद्य समापनम्।

५९ तमः विद्यालयीयकलोत्सवः आलप्पुषा नगरे सम्पत्स्यते।

तृशिवपुरम्- पूरस्य नगरे कौमारकलोत्सवस्य शुभपर्यवसानमभवत्। आगामिनि वर्षे जलपूरस्य नगर्यां कलोत्सवः प्रचालयिष्यति। कलोत्सवस्य आतिथेयत्वं विंशति वर्षात् परमेव आलप्पुषा जनपदमायाति। २०१९ जनुवरि मासे अलप्पुषायां कलोत्सववोदिकाः सम्पत्स्यते।