Monthly Archives: November 2017
स्त्रीसुरक्षा विषये गोवा प्रथमस्थाने, केरलस्य द्वितीयं स्थानम्।
एषुत्तच्छन् पुरस्कारः कवये सच्चिदानन्दाय।
अस्य वर्षस्य एषुत्तच्छन् पुरस्काराय प्रशस्तः कविः सच्चिदानन्दः अर्हो/भवत्। पञ्चलक्षं रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारः। कैरलीसाहित्याय समग्रं योगदानमभिलक्ष्य केरलसर्वकारैः आयोजितः परमोन्नतः पुरस्कारः भवत्ययम्। गते वर्षे सी. राधाकृष्णः आसीत् पुरस्कारविजेता। केरलराज्यस्य जन्मदिने एव पुरस्कारः घोषितः।
अद्य केरलानां जन्मदिनम्।
अद्य केरलराज्यस्य औद्योगिकं जन्मदिनमाचरन्ति कैरलीयाः। १९५६ तमे वर्षे नवम्बर् मासस्य प्रथमे दिने भवति केरलराज्यस्य रूपवत्करणम्। अनया मलयाळभाषया व्यवहारं कृतवतां जनानां समूहः केरलमिति नाम्ना प्रत्येकं राज्यम् अलभत। दिने∫स्मिन् मालिन्यमुक्तकेरलमित्यादयः नैकाः पद्धतयः केरलसर्वकारेण प्रारम्भ्यन्ते। सन्दर्भे∫स्मिन् सर्वेषां केरलीयानां कृते नववाण्याः शुभाशंसाः।














