Category Archives: News Updates

अस्मिन् शतके बृहत्तमं चन्द्रग्रहणं शुक्रवासरे, सकुतुकं प्रतिपालयन्ति जनाः।

नवदिल्ली- शतकस्य बृहत्तमं चन्द्रग्रहणं प्रतिपाल्य तिष्ठन्ति आविश्वं  कुतुकिनो जनाः। आगामिनि शुक्रवासरे एव विश्वे सर्वत्र दर्शनक्षमं चन्द्रग्रहणं सम्भवति। होराद्वयं यावत् चन्द्रः ग्रस्तावस्थायां भविता।

     सूर्यचन्द्रयोर्मध्ये भूगोलस्य परिक्रमणसमये चन्द्रमण्डलम् अरुणकिरणपरिभूषितं द्रष्टुं शक्यते। अस्य प्रतिभासस्य ब्लड् मूण्(रक्त चन्द्रमा) इति नामास्ति।

     १०३ निमेषपर्यन्तं पूर्णं ग्रहणमेव प्रतिपालयति। इतः पर्यन्तमतीतेषु ग्रहणेषु समयदैर्घ्ये केवलं ४ निमेषस्य न्यूनता एवास्ति अस्य ग्रहणस्य। शुक्रवासरे रात्रौ ८.३० तः १०.१३ पर्यन्तमेव ग्रहणसमयः ८.५० वादने ब्लड् मूण् प्रतिभासं द्रष्टुं शक्यते।

साहित्यकारस्य एस्.हरीष् वर्यस्य नेवल् मीशा मातृभूमिसाप्ताहिकपत्रिकायाः अपासरत्।

षिक्कोट्- कैरलीनोवल् कारस्य हरीष् वर्यस्य मीशाख्यं नूतनं नोवल् मातृभूमीति साप्ताहिक्याः अपवारितम्। एस्. हरीष् वर्यः केरल-साहित्य-अक्कादम्याः पुरस्कारजेता भवति।

नोवलस्थयोः द्वयो कथापात्रयोः मिथः सम्भाषणावसरे सूचितस्य सम्भाषणस्य भागः केनचन संघेन समाजमाध्यमद्वारा प्रचारितः आसीत्। तत्सम्भाषणं मन्दिरविश्वासिनां विरुद्धतया अस्ति इति केचन संघा अारोपणम् अकुर्वन्।

अर्धशतकात् पूर्वस्य केरलीयजातिजीवनस्य दलित्पश्चात्तलरूपः आविष्कार एव नोवले अस्ति।

छात्रारक्षकशिशिक्षुः (Student Police Cadet)पद्धतिः राष्ट्रियतले अपि।

कोच्ची- राज्ये विजयकररूपेण प्रचाल्यमाना छात्रारक्षकशिशिक्षुपद्धतिः राष्ट्रियतलेपि आयोजयितुं निर्णयः। शनिवासरे हरियाणायां गुर्गावे आयोज्यमाने अधिवेशने केन्द्रिय गृहमन्त्री एतत्सम्बन्धि प्रख्यापनं विधास्यति। अनेन भारते सर्वेषु राज्येषु केन्द्रशासित-प्रदेशेषु च एस्.पी.सी. प्रवर्तनं भविता।

     केरलम् आदर्शत्वेन स्वीकृत्य हरियाणा, कर्णाटक, राजस्थान् प्रभृतीनि राज्यानि अपि एनां पद्धतिम् आविरकुर्वन्। प्रख्यापनमिदं साक्षात्कर्तुं केरलदेशात् आरक्षकदलस्य उन्नताधिकारिणः कर्मकराः शिॆक्षकाः छात्राश्चाहत्य २६अङ्गसङ्घः गुर्गाव् देशं प्राप्स्यति।

     छात्रेषु अनुशासनं व्यक्तित्वविकासं च द्रढयितुं क्रियात्मकमनोभावं स्वास्थ्यशीलानि च संवर्धयितुं  केरलेषु इयं पद्धतिः आविष्कृता। अस्मिन् निर्णये मुख्यमन्त्री स्वपरितोषं प्रकटितवान्।

प्राथमिकमात्रविद्यालयेष्वपि संस्कृतपठनं प्रारम्भणीयम्।- बालाधिकार आयोगः।

प्राथमिकमात्रविद्यालयेषु संस्कृतपठनं समारम्भणीयमिति बालाधिकार आयोगस्य निदेशः। तृतीयकक्ष्याछात्रा कोल्लं एषुकोण् अजित्भवने पी.जी. अजित्प्रसादस्य पुत्री समीक्षा एव आयोगमुपगम्य आवेदनमदात्। तमावेदनं परिगणय्य बालाधिकारायोगः एवम् आदेशमदात्।

२०१२ तमे वर्षे केरलसर्वकारः प्रथमकक्ष्यातः संस्कृतपठनाय अनुदेशमदात्। परन्तु माध्यमिकस्तरेण युक्ते प्राधमिकस्तरे एव तदारब्धुम् अनुमतिं लेॆभे। अायोगस्य निदेशानुसारं प्राथमिकमात्रेषु विद्यालयेष्वपि संस्कृतपठनं सुगमं भविष्यतीति प्रतीक्षते। पाठपुस्तकम् आध्यापनपुस्तकं, प्रश्नपत्राणि शिक्षकप्रशिक्षणं, छात्रवृत्तिः इत्यादीनि प्रचलन्ति परन्तु तस्तिकानिर्णयं अध्यापकनियुक्तिश्च न भवति। केषुचित् विद्यालयेषु प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं एक एवाध्यापकः पाठयन्ति।

समीक्षा

शबरिमलायां स्त्रीणां प्रवेशनिरोधः संविधानविरुद्धमेवेति सर्वोच्चन्यायालयः।

आर्तवकारणात् १०-५० वयोयुक्ताः स्त्रियः शबरिमलाप्रवेशात् विरुध्यते इति एकपक्षीयः मनोभाव एवेति सर्वोच्चन्यायालयः चिन्तितः। स्त्रीणाम् एवं वयःपरिधिः कैः निर्णिता इति न्यायालयः अपृच्छत्।

शबरिमलायां स्त्रीणां प्रवेशार्थम् अनुकूलमनोभाव एव केरलसर्वकारेण न्यायालये स्वीकृता। आराधनाविषये स्त्रीणां पुरुषाणां च अधिकारः तुल्य एव। अतः प्रवेशनिरोधः संविधानविरुद्ध एवेति न्यायालयः असूचयत्।

धर्माः कर्मस्रष्टारः न सन्ति। शास्त्रमेव भविष्यं रूपवत्करोति।- साम् पित्रोडा।

गान्धीनगर्- धर्माः कर्मावसरान् न सृजन्ति इति प्रसिद्धः टेलिकों तन्त्रज्ञः सं पित्रोडावर्यः अवदत्। शास्त्र एव कर्मावसरान् सृजति। कर्मावसरं प्रति कश्चन वदति चेत् तस्य राजनैतिकमानमप्यस्ति। तेषु अधिकमलङ्काराः अल्पं याथार्थ्यं च भवतिति स अवदत्। गान्धिनगरे कर्णावति विश्वविद्यालये छात्रान् अभिसम्बोधयन् भाषमाण आसीत् स।

राष्ट्रे प्रवर्तमानाः संवादाः मन्दिरं धर्मः देवः जाति इत्यादीनि अधिकृत्यैव भवन्ति। तत् विषमकर एव। मन्दिराणि कर्म न ददति, शास्त्रमेव भविष्यं रूपवत्करोति इति स अवदत्।

भारतस्य दीर्घदूरप्रक्षेपास्त्रं ब्रह्मोस् नामकं सविजयं परीक्षितम्।

भुवनेश्वर्- भारतस्य दीर्घदुरप्रक्षेपास्त्रस्य ब्रह्मोसाख्यस्य परीक्षणं विजयकरमभवत्। विश्वस्यातिवेगयुक्तं सूपर् सोणिक् क्रूयिस् मिसैल् इति पदव्या साकम् ओडिषायाम् एव परीक्षणं जातम्।

     बालसोर् मण्डले आसीत् परीक्षणम्। परीक्षणं विजयकरमासीदिति प्रतिरोधमन्त्री निर्मला सीतारामन् वर्या ट्वीट्टर् मध्य़े अलिखत्। प्रातः १०.३० वादने एव प्रक्षेपास्त्रं प्रेषितम्।

     केन्द्र प्रतिरोधमन्त्रालयस्य अनुसन्धानविभागः डी.आर्.डी.ओ संस्था तथा मोस्को नगरे प्रवर्तमाना एन्.पी.ओ.एम्. संस्था च संयुक्ततया प्रक्षेपास्त्रं निरमाताम्। एकस्मिन्नेव समये विभिन्ने द्वे आक्रमणे विधातुं समर्थं भवतीदं प्रक्षेपास्त्रम्।

सर्वकारीय विद्यालयेषु ४०००० कक्ष्याप्रकोष्ठान् आधुनिकविनिमयोपकरणैः सम्पुष्टान् अकरोत्।

तिरुवनन्तपुरम्- शिक्षारङ्गस्य केरलमातृकायाः नूतनेन दिशाबोधेन सह सर्वकारः पुरो गच्छति। छात्रान् सामान्यविद्यालयं प्रति आकृष्य शिक्षामण्डलस्थं वाणिज्यवत्करणम् प्रतिरोद्धुं यतते सर्वकारः। अस्य भागत्वेन राज्यस्थेषु सामान्यविद्यालयेषु ४००८३ कक्ष्याप्रकोष्ठाः पूर्णतया अतिसाङ्केतिक रूपेण परिणताः। एषाम् आवश्यानुसृतानाम् उपकरणानाम् वितरणं पूर्णमभवत्। कैट् इति सूचनासाङ्केतिकविद्या संस्थायाः एवास्य दायित्वमस्ति।
सर्वकारीय-निजीयमेखलासु ३६७६ विद्यालेषु सर्वे कक्ष्याप्रकोष्ठाः अतिसाङ्केतिकरूपेण परिवर्तिताः। सामान्य विद्यालयानां परिरक्षणार्थमेवायमुद्यमः।

केरल-संस्कृताध्यापक फेडरेषन् वनितासंगमः।

कालटी- केरलसंस्कृताध्यापक फेटरेषन् इति शिक्षकसंघस्य नेतृत्वे वनितासंगमः कालटि ब्रह्मानन्दोदयं उच्चतरविद्यालये आरब्ध‌ः। केरल वनिता आयोगस्य अध्यक्षा एं.सी. जोसफैन् वर्या संगमस्य उद्घाटनमकरोत्। फेटरेशन् राज्यस्तरीयाध्यक्षः पी.एन् मधुसूदनः संवेशने अध्यक्षः आसीत्। विधानसभा सदस्यः रोजी.एं.जोण्, कालटी संस्कृतविश्वविद्यालयस्य प्रान्तीयाधिकारी के.वी. अजित्कुमार्, कालटि श्रीरामकृष्ण अद्वैताश्रमाध्यक्षः स्वामी श्रीविद्यानन्दः पञ्चायत् सदस्याः मुख्यायेजिका पी. रती प्रभृतयः अभाषन्त। वनिता प्रबलीकरणस्य कालिकी प्रसक्तिः इति विषये विचारसत्रमपि आयोजितम्। विवेकानन्दविचारवेदि निदेशिका एं लक्ष्मीकुमारी विषयावतरणं विधास्यन् अभाषत।

दृश्यानि।

केरल-शिक्षा-आनुदेशे संशोधनम् उच्चन्यायालयेन अङ्गीकृतम्।

कोच्ची- राज्यस्थेषु निजीयविद्यालयेषु रिक्तस्थाने संरक्षिताध्यापकानां नियोगमधिकृत्य केरल-शिक्षा अनुदेशे आनीतं संशोधनं उत्चन्यायालयेन अङ्गीकृतम्। १९७९ मेय २२ तः पश्चात् नूतने अथवा स्तरोन्नमिते च विद्यालये भविष्ये आगम्यमानायां रिक्ततायां शिक्षककोशादेव नियुक्तिः भवेत्. १९७९ तः पूर्वं स्थापिते विद्यालये द्वयोः रिक्तस्थानयोः एकस्मिन् अध्यापकनियुक्तये विद्यालयप्रबन्धकस्य अधिकारः अस्ति। द्वितीये शिक्षककोशात् नियुक्तिः भवेत् इति व्यवस्था एव न्यायालयेन अङ्गीकृता। सममेव २०१६-१७ अध्ययनवर्षे पूर्वस्य वर्षस्य कर्मकरगणव्यवस्था पालनीया इत्यादेशस्य स्थायित्वं नास्तीकि न्ययालयः व्यक्तमकरोत्। संशोधनं विरुध्य विद्यालयप्रबन्धकानाम् आवेदनस्य परिगणनासमये एव उच्तन्यायालयस्य अयमभिप्रायः।