Category Archives: News Updates
द्रौपदि अम्मन् मन्दिरे दलिताः प्रवेष्टुमनुमताः। मासत्रयं यावत् समरं कृतवतां विजयः।
पुतुच्चेरी- मासत्रयं यावत् शक्तं समरं कृत्वा विजयः सम्पादितः। पुतुच्चेरि द्रौपदि अम्मन् कोविल् इति मन्दिरे दलितविभागानां प्रवेशः अनुमतः। मण्डलभरणाधिकारिणः नेतृत्वे कृतायां चर्चायामेवायं निर्णयो जातः। पुतुच्चेरितः ३० किलोमीट्टर् दूरे भवति द्रौपदि अम्मन् कोविल्।
अस्मिन् मन्दिरे अर्चनार्थमागताम् दलितयुवतीं युवकाः प्रतिरुरुधुः। गते मेय् मासे एवेयं घटना जाता। अस्याः घटनायाः वीडियो चित्राणि सामाजिकमाध्यमेषु प्रचारिताऩि। अनेन महान् प्रक्षोभः समजायतः। अनन्तरं सम्पन्नस्य समरस्य विजयो जातः। इदानीं मन्दिरे सर्वेषां प्रवेशः वर्तते।
सर्वोच्चन्यायालये इदम्प्रथमतया न्यायाधिपेषु तिस्रः वनिताः।
नवदिल्ली- मद्रास् उच्चन्यायालयस्य मुख्य़न्यायाधीशा इन्दिरा बानर्जी महाशया सर्वोच्चन्यायालये न्यायाधीशपदव्यां नियुक्ता। अनेन सर्वोच्चन्यायालये न्यायाधीशपदव्यां तिस्रः महिलाः इति विशेषता सञ्जाता। ६८ वर्षस्य इतिहासे प्रथमतया एव तिस्रः महिलाः न्यायाधीशत्वेनागताः। आर् भनुमती इन्दु मल्होत्रा चा अन्ये द्वे भवतः।
इतः पर्यन्तं सप्त महिला एव न्यायाधीशत्वेन नियुक्ताः।प्रथमा ज. फात्तिमा बीबि(1989). अनन्तरं सुजाता मनोहर्, रुमा पाल्, ग्य़ान् मिश्रा, रञ्जना प्रकाश् देशायि, आर् भानुमती इन्दु मल्होत्रा च इतः पूर्वं नियुक्ताः। तथापि एकस्मिन् समये तिस्रः वनिताः नासन्।
अतिवृष्ट्या पीडितान् साक्षात्कर्तुं केन्द्रसङ्घस्य पर्यटनम् आगस्त् ७ तः ११ पर्यन्तम्।
तिरुवनन्तपुरम्- राज्य वृष्टिप्रलयबाधितान् साक्षाद्द्रष्टुं केन्द्रसङ्घस्य पर्यटनम् आगस्त सप्तमदिनाङ्कात् एकादशदिनाङ्कपर्यन्तं भविता। केन्द्रीय गृहमन्त्रालयस्य सहयोगिसचिवस्य डोः ए.वी. धर्मरेड्डीवर्यस्य नेतृत्वे सप्ताङ्गसंघः केरलीयतीरदेशेषु संघद्वयं भूत्वा विविधेषु जनपदेषु पर्यटनं विधास्यति।
सप्तम्यं तिथौ सायं सप्तवादने केरलीय समाश्वासायोगेन सह मेलनं भविता। ततः दुरितबाधितप्रदेशेषु सन्दर्शनं विधास्यति।
प्रथमसङ्घः आलप्पुषा तिरुवनन्तपुरं पत्तनंतिट्टा जनपदेषु पर्यटनं करोति। द्वितीयसङ्घः एरणाकुलं तृशूर् कोषिक्कोट् जनपदेषु च पर्यटति। एकादशे दिनाङ्के संघः मुख्यमन्त्रिणा सह साक्षात्कारं विधास्यति।
पालक्काट् नगरे अट्टत्रयः प्रासादः भग्नः, सप्त जनाः बहिरानीताः, रक्षाप्रवर्तनमनुवर्तते।
पालक्काट्- पालक्काट् नगरे अट्टत्रययुक्तः प्रासादः पतितः। प्रासादान्तर्भागे जनाः संलग्नाः इत्याशङ्क्यते। मध्याह्नसमये एव अपघातो जातः। बस् निस्थानसमीपस्थः सरोवरनामकः पुरातनः प्रासाद एव भग्नः अभवत्। अन्तर्भागे कति जनाः सन्तीति निर्णयो नास्ति। अन्तःसंलग्नेभ्यः सप्तजनाः बहिरानीताः। एते रुग्णालयं प्रवेशिताः।
मोबैल् आपणादिभिः युक्तं उपरिस्थम् अट्टद्वयमेव भग्नेन पतितम्। उूर्ध्वस्थे अट्टे आवासस्थानमप्यासीत्। प्रासादस्य पश्चाद्भागः एव भग्नः। अग्निरक्षादलं रक्षिदलं च रक्षाप्रवर्तने निरते। राष्ट्रिय दुरन्तन्वारणसेना अपि रक्षाप्रवर्तनं करोति।
अस्मिन् वर्षे एस्.एस्.एल्.सी. परीक्षा मार्च् अन्तिमे वारे प्रचालयितुं निर्णयः।
तिरुवनन्तपुरम्- अस्मिन् वर्षे मार्च् अन्तिमे वारे एस्.एस्.एल्.सी. परीक्षां चालयितुं प्राथिमिको निर्णयः। यथावश्यम् अध्ययनदिनानि न लब्धानि इति कारणादेवायं निर्णयः। एप्रिल् १० तमे दिनाङ्के अवसीयमाने विधे एव परीक्षा स्यात्। अन्तिमनिर्णयार्थं श्वः सार्वजनीनशिक्षा-निदेशकस्य आध्यक्ष्ये अधिवेशनं भविता।
अतिवर्षकारणात् बहूनि दिनानि यावत् विद्यालयानि पिहितानि आसन्। तदा कक्ष्याचालनं प्रतिहतमभवत्। अस्य परिहाररूपेणैव परीक्षाप्रारम्भतिॆथिं पुनर्निर्णीते। साधारणया रात्या मार्च् प्रथमे वारे एव परीक्षारम्भःस्यात्।
इटुक्की जलाशये जलसञ्चयः २३९५.३४ पादाः जाताः। आशङ्का नावश्यकीति जनपदप्रशासनम्।
चेरुतोणी- इटुक्की सेतुबन्धे जलसञ्चयः २३९५.३४ अतीताः अस्य परमा संभरणशेषी २४०३ पादाः वर्तन्ते। सेतोः वृष्टिप्रदेशे घोरा वृष्टिर्नास्ति।
सोमवासरे रात्रौ नववादने एव कपिशजाग्रता सूचिता। यदा जलसञ्चयः २३९९ पादाः भवन्ति तदा रक्तजाग्रतां सूचयेत्।
जलसञ्चयः न वर्धते चेत् सोतोः पिधानं नोद्घाटयिष्यतीति केरल विद्युन्निगमः सूचयति स्म। परं कुजवासरे वृष्टिः अधिका जाता। तथापि आशङ्का नावश्यकीति जनपदप्रशासनस्य सूचना।
रामायणस्य इतिहासपरम् अन्वेषणमप्यावश्यकम्। डो.जे.प्रसाद्।
पालक्काट्- रामायणस्य चरित्रपरमन्वेषणमपि कर्तव्यमिति कालटि संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिः डो.जे. प्रसाद् वर्यः न्यगादीत्। संस्कृतसंघस्याभिमुख्ये रामायणचिन्ताः इति विचारसत्रम् उद्घाटयन् भाषमाणः अासीत् सः। रामायणस्य नाम्नि केचन अनुवर्तमानाः कुचेष्टिताः प्रतिरोद्धव्याः। रामायणस्थानां मानविकमूल्यानाम् अनुसन्धानमेव संस्कृतसंघस्य लक्ष्यमस्ति। रामः इति पदं राजैतिकक्षेत्रे दुरुपदिष्टमस्ति इत्यपि स अवोचत्
मुण्टूर् सेतुमाधवन् वर्यस्य आध्यक्ष्ये वाल्मीकिरामायणस्य मानाः इति विषये डो.पी.वी.रामन्कुट्टी, रामायणं देशीयता च इति विषये डो. अनिल् चेलेम्प्रा च कक्ष्याम् अचालयताम्। डो. एं सत्यन्, के.एं प्रेमानन्दन् च भाषणमकुरुताम्।
कलालयबस् यानं उपत्यकायां पतितम् ३३ यात्रिकाः मृताः ८०० पादमितं अधोभागे पतितात् यानात् एकः एव रक्षां प्राप।
मुम्बै- महाराष्ट्रा राज्ये दपोली कार्षिकविश्वविद्यालयात् महाबलेश्वरं प्रस्थितः ३४ छात्रान्तर्भूतः संघः राय्गड् अम्पनाली पर्वतपथि अपघाते पतितः।
बस्यानं स्रस्तनियन्त्रणं भूत्वा ८०० पादम् अधोभागे पतितम्। यात्रिकेषु ३३ जनाः मृताः एकः रक्षां प्राप। अपघातस्य कारणं न व्यक्तमिति रक्षिदलमवदत्। महाबलेश्वरपर्वतसानुषु विनोदयात्रार्थं गत आसीत् संघः।
शिक्षकशिल्पशाला सुसम्पन्ना।
एरणाकुलम् – विद्यालयेषु संस्कृतपठनं शक्तं सफलं च विधातुं यानि प्रवर्तनानि अस्मिन्वर्षे समायोजनीयानीति विचिन्तनाय सामान्यविद्याभ्यासस्थेन संस्कृतविभागेन काचित् शिल्पशाला एरणाकुलस्थे शैक्षिकभवने समायोजिता। २०१८ जूलाई मासस्य २७,२८ दीनाङ्कयोः समायोजिता राज्यस्तरीया द्वितीया शिल्पशालेयं प्रथमदिने दशवादने संस्कृतविद्याभ्यासस्य विशिष्टाधिकारिण्या डो. टि.डी सुनीतिदेवीवर्यया समुद्घाटिता∫भवत्।
काव्यास्वादनं, अव्ययस्वरूपं प्रयोगाः, उपसर्गाः, समस्यापूरणं, धातुगणाः चाधारीकृत्य समर्थाः चर्चाः, रचनाश्च तत्र सम्पन्नाः। उत्तरकेरलस्य विविधप्रान्तेभ्यः त्रिंशदधिकाः शिक्षकाः तत्र भागमभाजन्त। सार्वजनीनशिक्षा अतिरिक्तनिदेशिका (Additional director) श्रीमती जेस्सी जोसफ् शिल्पशालामेत्य आवश्यकं निर्देशमदात्। शिल्पशालायाम् आसूत्रितानि प्रवर्तनानि प्रवृत्तिपथमानेतुं शिक्षका सर्वे सुसज्जाः जाताः।
प्रोफ. वि माधवन् पिल्ला, डो. नारायणन् नम्पूतिरिः, श्री एन्.के रामचन्द्रः, श्री विजयन् वि. पट्टाम्बि, डो. टि.डी सुनीतिदेवी च चर्चायै नेतृत्वमावहन्। एतत्सदृश्यः शिल्पशालाः शिक्षकान् पठनप्रवर्तनेषु समर्थान् कर्तुं अत्यन्तमुचिताः पौनपुन्येन समायोजनीयाश्चेति निरीक्षितम्।
इटुक्की सेतुबन्धः, जलसञ्चयः २३९३.६ पादाः। कपिशजाग्रतायै पादद्वयमात्रम्।
इटुक्की- वर्षापातस्य ईषत्शमनमस्ति चेदपि जनानाम् आशङ्कां प्रवर्धयन् इटुक्की सेतुबन्धे जलसञ्चयः ऊर्ध्वं गच्छति।सागरोपरितलात् २३९३ पादाः एव अधुना जलसञ्चयस्य परिमाणम्।
मुल्लप्पेरियार् सेतुबन्धे अपि जलौघः प्रर्वर्धते।१३५.९ पादाः एव तत्र जलमानम्। जलसञ्चये ऊर्ध्वं गच्छति सति जनपदाधिकारी सेवकानाम् आकस्मिकाधिवेशनम् आयोजितवान्। इटुक्की जलसञ्चयः सप्तपादो/पि अधिगच्छति चेत् चेरुतोणी सेतोः पिधानमुद्घाटयिष्यति इति सूचना।













