स्वातन्त्र्यं तोषदायकम् l

सर्वेषां जीवजालानां स्वातत्र्यं शक्तिवर्धकम् ।

पारतन्त्र्यं तु मर्त्यानां मरणादपि भीकरम् ॥

बलमुत्तेजकं वस्तु समेषां हि शरीरिणाम् ।
जीवजालानि सर्वाणि स्वातन्त्राल्लभते बलम् ॥

पारतन्त्र्यं न कांक्षन्ते पञ्जर स्थापि पक्षण : ।
केन वा शक्यते ह्यत्र पारतन्त्र्येण जीवितम् ॥

स्वातन्त्र्यं नवपीयूषं स्वातन्त्र्यं जीवनामृतम् ।
सर्वेषां मानवेभ्यस्तु स्वातन्त्र्यं स्वास्थ्यदायकम् ॥

अबला चपला न स्यात् स्वातन्त्यं दीयते यदि ।
स्वतन्त्रा ह्यङ्गना विश्वे हिमशैलसमा श्रुता ॥

नेच्छन्ति बन्धनं कोपि स्वतन्त्र्य मेव कांक्षते ।
सर्वै विहर्तुमिच्छन्ति को वा वाञ्छति बन्धनम् ॥

चिन्तनं समभावेन सोदरत्वेन जीवनम् ।
स्वातन्त्र्येणैव साध्यं तत् मानवानां हितैषिणाम् ॥

पठने च कलारङ्गे स्वातन्त्यं शक्तिवर्धकम् ।
अतो हि गुरुभि : सर्वैःदीयते तु स्वतन्त्रता ॥

बन्धुरबन्धनं नूनं सर्वशक्ति विनाशकम् ।
शुनकश्चालये बद्धो दीनं भषति सर्वदा ॥

प्रयत्नेनैव लभ्यं तत् स्वातन्त्र्यं शक्तिवर्धकम् ।
यत्नं कुरत सर्वेपि रक्षाम स्व स्व जीवनम् ॥

Vijayan V Pattambi

Leave a Reply

Your email address will not be published. Required fields are marked *