Category Archives: News Updates
शबरिमलायां स्त्रीणां प्रवेशनिरोधः संविधानविरुद्धमेवेति सर्वोच्चन्यायालयः।
आर्तवकारणात् १०-५० वयोयुक्ताः स्त्रियः शबरिमलाप्रवेशात् विरुध्यते इति एकपक्षीयः मनोभाव एवेति सर्वोच्चन्यायालयः चिन्तितः। स्त्रीणाम् एवं वयःपरिधिः कैः निर्णिता इति न्यायालयः अपृच्छत्।
शबरिमलायां स्त्रीणां प्रवेशार्थम् अनुकूलमनोभाव एव केरलसर्वकारेण न्यायालये स्वीकृता। आराधनाविषये स्त्रीणां पुरुषाणां च अधिकारः तुल्य एव। अतः प्रवेशनिरोधः संविधानविरुद्ध एवेति न्यायालयः असूचयत्।
धर्माः कर्मस्रष्टारः न सन्ति। शास्त्रमेव भविष्यं रूपवत्करोति।- साम् पित्रोडा।
गान्धीनगर्- धर्माः कर्मावसरान् न सृजन्ति इति प्रसिद्धः टेलिकों तन्त्रज्ञः सं पित्रोडावर्यः अवदत्। शास्त्र एव कर्मावसरान् सृजति। कर्मावसरं प्रति कश्चन वदति चेत् तस्य राजनैतिकमानमप्यस्ति। तेषु अधिकमलङ्काराः अल्पं याथार्थ्यं च भवतिति स अवदत्। गान्धिनगरे कर्णावति विश्वविद्यालये छात्रान् अभिसम्बोधयन् भाषमाण आसीत् स।
राष्ट्रे प्रवर्तमानाः संवादाः मन्दिरं धर्मः देवः जाति इत्यादीनि अधिकृत्यैव भवन्ति। तत् विषमकर एव। मन्दिराणि कर्म न ददति, शास्त्रमेव भविष्यं रूपवत्करोति इति स अवदत्।
भारतस्य दीर्घदूरप्रक्षेपास्त्रं ब्रह्मोस् नामकं सविजयं परीक्षितम्।
भुवनेश्वर्- भारतस्य दीर्घदुरप्रक्षेपास्त्रस्य ब्रह्मोसाख्यस्य परीक्षणं विजयकरमभवत्। विश्वस्यातिवेगयुक्तं सूपर् सोणिक् क्रूयिस् मिसैल् इति पदव्या साकम् ओडिषायाम् एव परीक्षणं जातम्।
बालसोर् मण्डले आसीत् परीक्षणम्। परीक्षणं विजयकरमासीदिति प्रतिरोधमन्त्री निर्मला सीतारामन् वर्या ट्वीट्टर् मध्य़े अलिखत्। प्रातः १०.३० वादने एव प्रक्षेपास्त्रं प्रेषितम्।
केन्द्र प्रतिरोधमन्त्रालयस्य अनुसन्धानविभागः डी.आर्.डी.ओ संस्था तथा मोस्को नगरे प्रवर्तमाना एन्.पी.ओ.एम्. संस्था च संयुक्ततया प्रक्षेपास्त्रं निरमाताम्। एकस्मिन्नेव समये विभिन्ने द्वे आक्रमणे विधातुं समर्थं भवतीदं प्रक्षेपास्त्रम्।
सर्वकारीय विद्यालयेषु ४०००० कक्ष्याप्रकोष्ठान् आधुनिकविनिमयोपकरणैः सम्पुष्टान् अकरोत्।
तिरुवनन्तपुरम्- शिक्षारङ्गस्य केरलमातृकायाः नूतनेन दिशाबोधेन सह सर्वकारः पुरो गच्छति। छात्रान् सामान्यविद्यालयं प्रति आकृष्य शिक्षामण्डलस्थं वाणिज्यवत्करणम् प्रतिरोद्धुं यतते सर्वकारः। अस्य भागत्वेन राज्यस्थेषु सामान्यविद्यालयेषु ४००८३ कक्ष्याप्रकोष्ठाः पूर्णतया अतिसाङ्केतिक रूपेण परिणताः। एषाम् आवश्यानुसृतानाम् उपकरणानाम् वितरणं पूर्णमभवत्। कैट् इति सूचनासाङ्केतिकविद्या संस्थायाः एवास्य दायित्वमस्ति।
सर्वकारीय-निजीयमेखलासु ३६७६ विद्यालेषु सर्वे कक्ष्याप्रकोष्ठाः अतिसाङ्केतिकरूपेण परिवर्तिताः। सामान्य विद्यालयानां परिरक्षणार्थमेवायमुद्यमः।
केरल-संस्कृताध्यापक फेडरेषन् वनितासंगमः।
कालटी- केरलसंस्कृताध्यापक फेटरेषन् इति शिक्षकसंघस्य नेतृत्वे वनितासंगमः कालटि ब्रह्मानन्दोदयं उच्चतरविद्यालये आरब्धः। केरल वनिता आयोगस्य अध्यक्षा एं.सी. जोसफैन् वर्या संगमस्य उद्घाटनमकरोत्। फेटरेशन् राज्यस्तरीयाध्यक्षः पी.एन् मधुसूदनः संवेशने अध्यक्षः आसीत्। विधानसभा सदस्यः रोजी.एं.जोण्, कालटी संस्कृतविश्वविद्यालयस्य प्रान्तीयाधिकारी के.वी. अजित्कुमार्, कालटि श्रीरामकृष्ण अद्वैताश्रमाध्यक्षः स्वामी श्रीविद्यानन्दः पञ्चायत् सदस्याः मुख्यायेजिका पी. रती प्रभृतयः अभाषन्त। वनिता प्रबलीकरणस्य कालिकी प्रसक्तिः इति विषये विचारसत्रमपि आयोजितम्। विवेकानन्दविचारवेदि निदेशिका एं लक्ष्मीकुमारी विषयावतरणं विधास्यन् अभाषत।
केरल-शिक्षा-आनुदेशे संशोधनम् उच्चन्यायालयेन अङ्गीकृतम्।
कोच्ची- राज्यस्थेषु निजीयविद्यालयेषु रिक्तस्थाने संरक्षिताध्यापकानां नियोगमधिकृत्य केरल-शिक्षा अनुदेशे आनीतं संशोधनं उत्चन्यायालयेन अङ्गीकृतम्। १९७९ मेय २२ तः पश्चात् नूतने अथवा स्तरोन्नमिते च विद्यालये भविष्ये आगम्यमानायां रिक्ततायां शिक्षककोशादेव नियुक्तिः भवेत्. १९७९ तः पूर्वं स्थापिते विद्यालये द्वयोः रिक्तस्थानयोः एकस्मिन् अध्यापकनियुक्तये विद्यालयप्रबन्धकस्य अधिकारः अस्ति। द्वितीये शिक्षककोशात् नियुक्तिः भवेत् इति व्यवस्था एव न्यायालयेन अङ्गीकृता। सममेव २०१६-१७ अध्ययनवर्षे पूर्वस्य वर्षस्य कर्मकरगणव्यवस्था पालनीया इत्यादेशस्य स्थायित्वं नास्तीकि न्ययालयः व्यक्तमकरोत्। संशोधनं विरुध्य विद्यालयप्रबन्धकानाम् आवेदनस्य परिगणनासमये एव उच्तन्यायालयस्य अयमभिप्रायः।
समाजमाध्यमनियन्त्रणं. राष्ट्रं भरणकूटनिरीक्षणयुक्तं भविष्यतीति सर्वोच्चन्यायालयः/
नवदिल्ली- पौराणां समाजमाध्यमेषु प्रवृत्तिं नियन्त्रयितुं सर्वकारस्य सन्नाहे सर्वोच्चन्यायालयात् रूक्षं विमर्शनम्। एवं समाजमाध्यमेषु व्यक्तेः प्रवृत्तिं निरीक्षितुमुत्सहते चेत् सर्वकारः भरणकूटनिरीक्षणयुक्तं राष्ट्रं भविता इति न्यायालयः आभिप्रैति स्म।
समाजमाध्यमानां नियन्त्रणार्थं मण्डलस्तरे समाजमाध्यम-विनिमयकोशं स्थापयितुं सर्वकारस्य निर्णयं विरुध्य तृणमूल् काण्ग्रेस् दलसदस्येन महुव मोय्त्र वर्येण समर्पितं सामान्यतात्पर्यावेदनं परिगणयन्नेव न्यायालयः एवमवदत्।
मुख्यन्यायाधीशस्य दीपक् मश्रा वर्यस्य आध्यक्ष्ये त्रयाङगप्राड्विवाकसंघ एव निर्णयममुं स्वीचकार।
सैन्ये सेवितुमवकाशः न प्राप्तः, युवा फेस्बुक् सततदृश्यं कुर्वन् आत्माहूतिं कृतवान्।
आग्रा- फेस्बुक् सततदृश्यद्वारा सुहृदः साक्षात्कृत्य युवा आत्मानं जुहाव। निरोद्धुं सुहृदः कृतप्रयत्ना अपि अयं मृतिमवाप। उत्तरप्रदेशराज्ये आग्रादेशस्थः मुन्नकुमार एव सततदृश्यं कुर्वन् मृतः अभवत्।
सैन्ये सेवितुमवकाश न लब्ध इत्यतः कानिचिद्दिनानि यावत् स दुःखित आसीत्। १७ वयसः आरभ्य स प्रवेश परीक्षां लिखति स्म। तथापि तस्य अभिलाषः न सफलीकृतः। वयः परिधिरवसिता इत्यतः इतः परं परीक्षा लेखनमसाध्यं च भवति। अतः आत्महत्यां करोति इति टिप्पणीकृत्य एव स आत्मानमहनत्।
कुजवासरे रात्रौ सर्वेषां निद्रासमये स एवं कृतवान्। पितरौ क्षम्येताम् इति तेन लिखिता टिप्पणिः रक्षिदलैः प्राप्ता। प्रकरणेस्मिन् रक्षिदलान्वेषणमारब्धम्।
भाषासमस्या परिहृता, राज्यसभायां २२ भाषाः सदस्यानां व्यवहाराय अङ्गीकृताः।
नवदिल्ली- हिन्द्याम् आङ्गले वा अप्रवीणानां सदस्यानां समाश्वासः। इतः परं सभासु तेषां व्यवहारार्थं २२ भाषाः अङ्गीकृताः।
नूतननिर्णयानुसारं संविधानस्य अष्टमे अनुच्छेदे अन्तर्भूतासु २२ भाषासु स्वेच्छानुसारं स्वकीयया भाषया व्यवहर्तुं सदस्याः प्रभवन्ति। आगामिनि वर्षाकालाधिवेशने निर्णयो/यं प्रावर्तिको भविता। राज्यसभाध्यक्षः वेङ्कय्य नाय्डुवर्यः निर्णयमिमम् उदधोषयत्। मातृभाषया भाषते चेत् स्वकीयमभिप्रायं व्यक्ततया प्रकटयितुं सदस्याः प्रभवन्ति इति उपराष्ट्रपतिरवोचत्।
हिन्दी, आङ्गलं, आसामिस्, बंगाली, गुजराती, कन्नटा, मलयालम्, मराठी, ओडिया, पञ्चाबी, तमिल्, तेलुगु, उर्दू, गोडा, मैथिली, मणिप्पूरी, नेपाली, डोग्री, काश्मीरी, कोङ्कणी, सन्ताली, सिन्धी इत्येताभ्यः भाषाभ्यः इतः परं राज्यसभायां व्यवहारो भविता।
ताय्लण्ट् गुहायां रक्षाप्रवर्तनस्य तृतीयघट्टं दौत्यं समारभत। रक्षां प्राप्तानाम् अर्भकाणां स्वास्थ्यावस्था तृप्ता।
बाङ्कोक्- ताय् गुहायामन्तर्भूतेषु शिष्टानां बालकानां रक्षणार्थं तृतीयघट्टं दौत्यं समारभत। चत्वारो बालकाः एकः शिक्षकश्च इतः परमपि रक्षितव्याः सन्ति। एते पञ्च अपि अद्यैव रक्षितुं शक्यते इति चिन्तायामेव दौत्यसङ्घः। रक्षितानां बालकानां स्वास्थ्यावस्था तृप्ता एवेति अधिकृताः असूचयन्।
गुहायां स्थितौ दौ जनौ अधुना तृतीयकक्ष्यायां प्रापितौ इत्यावेदनम्। एतौ सपत्येव बहिरानेतुं शक्यते इति प्रतीक्षते।
गुहामुखात् ७०० मीट्टर् अन्तर्भागे रक्षाप्रवर्तकैः एका युद्धकक्षा सज्जीकृताः। प्राणवायुनालिकाः तरणवसनानि भोजनानि औषधानि च इत एव बालकेभ्य प्रापयति। तृतीयकक्षा सुरक्षितस्थानं भवति। दिनद्वयं यावत् वृष्टिर्नास्तीत्यतः रक्षाप्रवर्तनानि सुकराणि जातानि। वातावरणस्य प्रातिकूल्यं आशङ्कामुत्पादयति। तथापि शिष्टान् जनान् रक्षितुं शक्यते इति प्रवर्तकानां विश्वासः। जलसञ्चयं निष्कासयितुं संविधानानि शक्तानि कृतानि।












