अद्यतन वार्ताःl

🪴🪴🪴🪴🪴🪴
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य दश ओक्टोबर् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः । वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🪴🪴🪴🪴🪴🪴

🪴रेल्वेस्थानकातः मेट्रोस्थानकपर्यन्तं आकाशसेतोः निर्माणकार्यं प्रवृत्तम्।

🪴अर्बुदरोगिणः चिकित्सार्थं सुपरफास्ट्-यानेषु अपि निःशुल्कयात्रा इति मन्त्री के. बी. गणेशकुमारः उक्तवान्।

🪴एल्.पी., यू.पी. प्रमुखशिक्षकपदेषु अध्यापकाः अनासक्ताः भवन्ति।

🪴केरलविद्यालय-ओलिम्पिक्-
प्रतियोगितायाम् अधिकतम-अङ्कान् प्राप्तं जनपदं मुख्यमन्त्रिणः सुवर्णट्रोफी प्राप्स्यति।

🪴भारतीयसंपन्नानां अधिकृतसूचिं “फोब्स्” प्रकाशितवान्।
अत्यन्तं संपन्नः मलयाली भूत्वा मूकॆश् अम्बानी नामकः सूचीमध्ये प्रथमे स्थाने अस्ति।

🪴कोंकणमार्गेण गच्छतां रेलयानानां नवः समयसारिणी प्रकाशिता।

🪴सेर्जियो गोरी नामकस्य अमेरिकायाः भारतराज्यदूतपदे नियुक्तिः सेनट्-सदस्यैः अनुमोदिता।

🪴अन्तर्राष्ट्रीय-अन्तरिक्ष स्थानकस्य कक्षात् अधः एकः विशालः क्षुद्रग्रहः अतिवर्तमान इति वार्ता।

🪴राज्यस्थेषु विविधेषु सार्वजनिक संस्थासु पदानां कृते भर्तीबोर्डेन विज्ञापनं प्रकाशितम्।

🪴राज्ये आगामिपञ्चदिनेषु अतिवृष्टेः सम्भावना अस्ति।

धन्यवादःk
शुभदिनम्

Leave a Reply

Your email address will not be published. Required fields are marked *