Monthly Archives: June 2025
वारणीयं हि दुर्वचः (भागः ३९७) 21-06-2025
EPISODE – 397
नूतना समस्या –
“वारणीयं हि दुर्वचः”
प्रथमस्थानम्
“സുപ്രയുക്തം സുവാഗേവ
സ്വർഗേ ഭുവി ച ഭൂഷണം
സത്യം സനാതനം പശ്യ
വാരണീയം ഹി ദുർവച:”
Bhaskaran N K
“अभिनन्दनानि”
अद्यतन वार्ताः – 13-06-2025
🔸🔸🔸🔸🔸🔸
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रयोदश जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔸🔸🔸🔸🔸🔸
🔸उहमदाबादे सरदारवल्लभाईपटेल-आन्तरराष्ट्रीयविमानपत्तने समीपस्थिते मेघानिनगरे लण्डनं प्रति यात्रां कुर्वतः एर्-इण्डिया-विमानस्य दुःखदं पतनं जातम्। मृतानां प्रति CAF-संस्थया श्रद्धाञ्जलिः समर्पिता। 🙏💐
🔸वित्तमन्त्रिणी निर्मलासीतारामेण निगदितम्—बैंक्-संस्थायां स्थितं अव्यवहितं धनं यथाशक्ति शीघ्रं स्वामिनां प्रति प्रत्यर्पणीयम्।
🔸आतङ्कवादेन भारतं प्रति प्रवर्त्यते चेत्, तर्हि भारतः पाकिस्तानराष्ट्रे तीव्रं प्रत्याक्रमणं करिष्यति। इति विदेशकार्यमन्त्री एस् जयशङ्करः उद्घोषयत्।
🔸अङ्कमालि-शबरी नामकस्य रेलमार्गस्य निर्माणकार्याणि शीघ्रीकर्तुं राज्यरेलमन्त्री वि. अब्दुर्रहिमानः निर्देशं दत्तवान्।
🔸उच्चशिक्षाक्षेत्रे विद्यमानसमस्या विचिन्तयितुं राज्यपालः राजेन्द्रविश्वनाथः अर्लेकरः कुलपतिभिः सह सभां कर्तुं आहूतवान्।
🔸डॉ. ई. श्रीधरः उक्तवान् यत् केरलराज्ये प्रस्ताविते अतीववेग-रेलयोजनायाः विषये केन्द्रसर्वकारात् कोऽपि सम्पर्कः न प्राप्तः।
🔸विद्यालयेषु समयपरिवर्तनं ,धार्मिकशिक्षां दत्तः छात्राणां कृते क्लेशकारकमिति समस्तसंस्थायाः अध्यक्षेन मुख्यमंत्रीं प्रति निवेदनं कृतम्।
🔸कोच्चीनगरस्य समीपे एल्स्-३ इत्यस्य नौकायाः समुद्रे पतनं जातम्। तस्या स्वामिनः MSC-सम्बद्धनौकां न्यायालयेन स्थगयितुं निर्देशः दत्तः।
🔸यदि विद्यालये दश बालकाः सन्ति चेत्, तर्हि अरबीक्-शिक्षकस्य पदं तत्र स्थायित्वेन स्वीकरणीयमिति राज्यशिक्षाविभागस्य नवादेशः।
🔸राज्येषु मुख्यवन्यप्राणिसंरक्षकैः वन्यमृगवधस्य अनुमतिः केवलं निर्दिष्टनिबन्धनानुसारमेव दातव्या इति केन्द्रसर्वकारेण स्पष्टिकृतम्।
🔸संयुक्तअरबएमिरेट्स् (UAE) राष्ट्रे बीमाव्यवस्थायां स्वदेशीयीकरणं सशक्तं कर्तुं योजनाः क्रियन्ते।
धन्यवादः
शुभदिनम्
अद्यतन वार्ताः – 12-06-2025
🎼🎼🎼🎼🎼🎼
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य द्वादश जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🎼🎼🎼🎼🎼🎼
🎼प्रौढेषु अन्यरोगयुक्तेषु च कोविड् रोगः गम्भीरः भवति इति कारणेन विशेषं सावधानता करणीयमिति आरोग्यमन्त्री वीणा जॉर्ज् उक्तवती।
🎼हाय्-स्कूल् विद्यालयेषु कर्मसमयः अर्धतृतीयघण्टया वृद्धः भविष्यति, एषः नियमः आगामिन्याः सप्ताहस्य आरम्भे प्रवर्तिष्यते।
🎼लक्षद्वीपस्य प्रादेशिकभाषाः पाठ्यक्रमात् निष्कास्य, शिक्षानिर्देशकः येन आदेशः प्रदत्तः, तस्य पालनं उच्चन्यायालयेन प्रतिबन्धितम्।
🎼शबरीमलायाः सन्निधाने तीर्थयात्रिकाणां प्रत्यावर्तनाय मरकूटं मार्गे सेतुर्निर्मास्यते।
🎼भारतम् सहितं चतुर्दश राष्ट्राणां नागरिकेभ्यः मल्टिपल्-वीसा पद्धतिः सऊदीअरबदेशेन पुनः स्थापिता। उम्रावीसापि प्रदायिता।
🎼सरकार-कार्मिकेभ्यः प्रदानाय घोषिता ‘अश्वर्ड् पेंशन्’ इत्यस्य कार्यान्वयनाय राज्यसर्वकारः सज्जतां कृतवती।
🎼एयर्-कण्डीशनर् यन्त्राणां नियन्त्रणाय केन्द्रसर्वकारः उपायान् स्वीकर्तुं सज्जः।
🎼भारतस्य जनसंख्या एतेन वर्षे १४६ कोटीन् अतिक्रमति इति संयुक्तराष्ट्रसंस्थायाः विवरणम्।
🎼चन्द्रेभ्यः ३०० किलोग्रामात् अधिकं शिलाः मृत्तिकाः च नासा संस्थायाः अपोलो कार्यक्रमेन पृथिव्यां नीताः सन्ति।
🎼कोंकण् मार्गेण यानानां वर्षाकाल-सारणी जून् १५ दिनाङ्के प्रवर्तिष्यते।
🎼केरले पुनः वर्षाकालः सक्रियः जातः। जून् १२ दिनाङ्कतः केरले वातः प्रबलः भविष्यति इति विवरणम्।
धन्यवादः
शुभदिनम्
अद्यतन वार्ताः – 11-06-2025
🍋🟩🍋🟩🍋🟩🍋🟩🍋🟩
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकादश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🍋🟩🍋🟩🍋🟩🍋🟩🍋🟩
🍋🟩वन्यजीवनसमस्या — केन्द्रसरकारस्य स्थितिः स्वीकर्तुं न शक्या इति वनमन्त्री ए. के. शशीन्द्रः।
🍋🟩 उच्चविद्यालयेषु कार्यसमयः अर्धघण्टया वृद्धः, आगामीसप्ताहात् प्रवर्तनं भविष्यति।
🍋🟩 हज्ज् ऋतवः इदानीं वसन्तकाले भविष्यन्ति इति राष्ट्रीयकालावस्थापर्यवेक्षकाः।
🍋🟩एषियायाः अफ्रिकायाश्च मध्ये सेतुबन्धेन सम्बन्धः स्थाप्यते इति महती योजना सौदीअरबदेशेन मिश्रदेशेन च।
🍋🟩 भारतदेशेन उन्नतभूप्रदेशेषु कृत्रिमबुद्धेः साहाय्येन कार्यक्षमं लघुयन्त्रशस्त्रं सफलतया परीक्षितम् ।
🍋🟩सौदीअरबदेशगमनाय पारिवारिकविविधदर्शन विसासंस्था पुनः स्थाप्यते।
🍋🟩पैसिफिक् समुद्रे आगामिदिनेषु चक्रवातभीतिः इति केन्द्रकालावस्थाकेन्द्रेण सूचितम्।
धन्यवादः
शुभदिनम्
स्निह्यामि भारते सदा (भागः ३९६) 14-06-2025
EPISODE – 396
नूतना समस्या –
“स्निह्यामि भारते सदा”
प्रथमस्थानम्
“യസ്മിൻ സത്യഞ്ച ധർമശ്ച
യഥായോഗ്യം സുപാല്യതേ
തസ്മിൻ മനോഹരേ ദേശേ
സ്നിഹ്യാമി ഭാരതേ സദാ”
Bhaskaran N K
“अभिनन्दनानि”
अद्यतन वार्ताः – 09-06-2025
🪭🪭🪭🪭🪭🪭
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नव मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) सोमवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🪭🪭🪭🪭🪭🪭
🪭सर्वकारीयविद्यालयानां पिधानम् इति प्रचारः असत्यः इति शिक्षामन्त्री वि. शिवनकुट्टिः उक्तवान्। सर्वकारस्य अनुमfत विना विद्यालयानां पिधानं न शक्यते। यदि कुत्रचित् दोषः जातः चेत्, तस्य परीक्षणं करिष्यतीति अपि सः अवदत्।
🪭बहिराकाश-सञ्जारी शुभांशु शुक्लः अन्ये च ये बहिराकाश-निलयम् प्रति गन्तुम् इच्छन्ति, तान् वहन्तुं नियोजितं ड्रैगन् नामकं बहिराकाश-यानं स्पेस् एक्स् इत्यनेन प्रक्षिप्तम्।”
🪭राज्यस्य विद्यमानस्य द्वितीयपथस्य समांतरं तृतीयं , चतुर्थं च रेलमार्गौ स्थापनीयौ इति रेल् विभागस्य निर्देशः अप्रायोगिकः इति ई. श्रीधरः उक्तवान्।
🪭विऴिञ्ञं इत्यस्मिन्नेव अतीव आधुनिकसाधनयुक्तं कोस्ट्गार्ड् जेट्टि उद्घाटितम्।
🪭उन्नतशिक्षासंस्थासु अतिथिशिक्षकाणां वेतनं वृद्धं कृत्वा उन्नतशिक्षाविभागः निर्णयं कृतवान्।
🪭सिन्धुनदीजलसन्धिं रद्दीकृत्य भारतः पुनःपरिशीलनं करोतु, जलं मोचयतु इत्यभ्यर्थनां पाकिस्तान् राष्ट्रं कृतवन्।
🪭प्लसवन् प्रवेशनाय प्रथमम् अलॉट्मेण्ट् प्रकाशितम्। तत्र जिलायाः २४३९८ छात्राः बहिः स्थिताः।
🪭किञ्चनदिनानां विरामात् अनन्तरं आगामिन्यां सप्ताहे राज्ये पुनः वृष्टिः आगमिष्यति।
धन्यवादः
शुभदिनम्
अद्यतन वार्ताः – 06-06-2025
⭐⭐⭐⭐⭐
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य षट् मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
⭐⭐⭐⭐⭐
⭐बलिपेरूनाल् निमित्तं केरलराज्यस्य सर्वे महाविद्यालयाः श्वः अवकाशं प्रख्यापितवन्तः, इति उच्चशिक्षाविभागस्य घोषणा।
⭐स्वशासित-नर्सिङ्ग्-महाविद्यालयानां सम्बन्धनप्रक्रियाः जून्-मासस्य दशमे दिनाङ्के समाप्ताः करणीयाः इति आरोग्यमन्त्री श्रीमती वीणा जोर्ज् उक्तवती।
⭐कुञ्जूस् कार्ड् आरोग्य-योजना च स्त्रीबालविकासविभागस्य मन्त्री श्रीमती वीणा जोर्ज् उद्घाटयत्।
⭐दशाब्दानि यावत् केरलं यत् प्रतीक्षते स्म, तस्य अङ्गमालि-शबरी-रेल्पथस्य निर्माणकार्याणि आरब्धानि।
⭐राज्यस्य रेल्वे-विकासाय रेल्वे-मन्त्रालयेन याः योजनाः प्रस्तूताः, तासां त्रयः-चतस्रः रेखाः अप्रयोज्याः इति मतं रेल्वे-मानदर्शकः ई. श्रीधरन् व्यक्तवान्।
⭐वाराणस्यां प्रसिद्धं दल्माण्डि-प्रदेशे भवनानि ध्वंसयितुं रोद्धुं अलाहाबाद्-उच्चन्यायालयेन स्थगनादेशः दत्तः।
⭐अगस्त्-मासस्य प्रथमदिनाङ्कतः नेशनल्-पेमेन्ट्स्-कार्पोरेशन्-ऑफ्-इण्डिया (NPCI) महान्तं परिवर्तनं कर्तुं सज्जः।
⭐महाराष्ट्रराज्यस्य “स्टेट् कॉमन् एण्ट्रन्स् टेस्ट् सेल्” इत्यस्मात् संस्थायाः भौतिकी, रसायनशास्त्रं, जीवविज्ञानं, गणितशास्त्रं च इत्येतयोः द्वयोः वर्गयोः परीक्षाफलानि २०२५ वर्षस्य जून् १६ दिनाङ्के प्रकाशयितुं अपेक्ष्यन्ते।
⭐अखिलभारतीयस्तरे योजिते युजी तथा पीजी कार्यक्रमेषु कु्साट् संस्थया आयोजिता सार्वजनिकपरीक्षा यः फलं प्रकाशितम्।
⭐अङ्गमालि-एरुमेली-शबरी-रेल्पथ-योजनायाः साक्षात्कारेण शबरीमले तीर्थयात्रिकाणां संख्या वर्धिष्यते इति अपेक्ष्यते।
धन्यवादः
शुभदिनम्
नास्ति दानसमो गुणः (भागः ३९५) – 07-06-2025
EPISODE – 395
नूतना समस्या –
“नास्ति दानसमो गुणः ॥“
പ്രഥമസ്ഥാനം
“വിദ്യാ ന ശാശ്വതം ലോകേ
വിത്തഞ്ചാപി തഥൈവ ഹി
വിഖ്യാതം ഹി ചിരസ്ഥായീ
നാസ്തി ദാനസമോ ഗുണ:”
Aprna
“അഭിനന്ദനങ്ങൾ”
अद्यतन वार्ताः -04-06-2025
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुuखाः वार्ताः । अद्य चत्वारः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
मुख्यमंत्रीः केन्द्रस्य रेल्-मन्त्रिणं अश्विनि वैष्णवं सन्दिदर्शयत्।
दीर्घकालात् प्रतीक्षां कुर्वन्तः केरलराज्यस्य जनाः, अङ्कमालि-शबरीमला रेल्-पथः शीघ्रं वास्तविकतां गमिष्यतीति राज्यस्य रेल्-कायिकमन्त्रिणा वि. अब्दुर्रहीमन् इत्यनेन उक्तम्।
अर्धघण्टापर्यन्तं अध्ययनवृद्ध्यर्थं उच्चविद्यालयकक्षाणां कृते प्रारूप-समयपञ्जी निर्मिता।
विद्यालयसंरचनां एकस्याः छत्रच्छायायाः अन्तर्गतं आनयितुं कार्यप्रवृत्तिः प्रगतिम् अगच्छत् इति मुख्यमंत्री पिणरायि विजयेन उक्तम्।
ऐ एस् आर् ओ -संस्थया विविधविभागेषु ३२० पदानां कृते नियुक्तिप्रक्रिया आरब्धा।
अनुवर्त्यमानेन त्रिमासं यावत् राशनं अप्राप्तवतां ७०४१८ जनान् प्राथमिकवर्गात् निष्कासयितुं सरकारेण निर्णयः कृतः।
पहलगाम् इत्यस्मिन् आतंकवादीआक्रमणानन्तरं भारतदेशेन स्वीकृतेन जलनीतिना पाकिस्तानदेशे जलसंकटः उत्पादितः।
जीवने कदाचित् समस्याः आगच्छेयुः चेत् अपि खिन्नः मा भूः इति मुख्यमंत्री पिणरायि विजयेन उक्तम्।
पी.एस्.सी.-संस्थायां नियुक्तिसंस्तवाः पूर्णतया डिजिटल्-प्रणाल्याः अन्तर्गतं गमिष्यन्ति।
अत्यवेगेन विकसमानायां कृत्रिमबुद्धेः क्षेत्रे असंख्यानि अवसराणि लभ्यन्ते।
मोहालि-प्रदेशे अवस्थितस्य INSTI संस्थायाः २०२५तमस्य वर्षस्य पीएच्.डी.प्रवेशाय आवेदनानि आमन्त्रितानि।
धन्यवादः
शुभदिनम्
छात्रेभ्यो शुभाशंसाः
आरब्धाः खलु विद्याशाला :
शलभाश्चात्र तु प्राप्ताः ।
नानावर्णै : शोभनगात्राः
विकसितनयनाः बालाः ॥
पुस्तकस्यूतैः नव्यसुवस्त्रैः
छत्रैर्वर्णमनोज्ञैः ।
अङ्कणमध्यं सम्प्राप्तास्ते
पुष्पैः मण्डितमखिलम् ॥
घण्टानादश्रवणमुहूर्ते
विशन्तु कक्ष्यामनघाम् ।
प्रणम्य वदत गुरवरमेव
संस्कृतपठनं कार्यम् ॥
सरसमनोज्ञकथाभिः पूर्णं
तावकसंस्कृतकुसुमम् ।
उपदेशशतैः ललितैः हृद्यै:
पुस्तकमेतत्भरितम् ॥
पठतात् संस्कृतं वदतान्नित्यं
संस्कृतभाषामनघाम् ।
लिखतान्मिन्त्र सुन्दरगात्रां
ललितमनोज्ञां भाषाम् ॥
उत्तमछात्राः भवन्तु सर्वै
सज्जनसेवां कुरुत।
भारतराष्ट्रसमुद्वहनाय
प्रयासमखिलं चरत ॥
Vijayan V Pattambi











