Monthly Archives: July 2025

⭕⭕⭕⭕⭕⭕⭕
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकत्रिंशत् जूलाइ २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
⭕⭕⭕⭕⭕⭕

▪️राज्यस्य क्रीडाशिक्षक-विद्यार्थिनां अनुपातः 1:300 इत्यनेन पुनः व्यवस्थायाः आरम्भः।

▪️विद्यालयसमये परिवर्तनस्य वर्तमाननिर्णयं यथावत् स्थापयिष्यतीति शिक्षामन्त्री श्री वी. शिवनकुट्टिः उद्घोषयति।

▪️चत्वारः विदेशीविश्वविद्यालयाः भारतदेशे आरब्धुं यु.जी.सी. संस्थया अनुमतिः प्रदत्ता।

▪️केरळराज्यस्य जनसंख्यायां षष्टिवर्षेभ्यः उपरि वयस्कानां अनुपाते वृद्धिः दृश्यते।

▪️उन्नतशिक्षा संस्थानानां मूल्याङ्कनपद्धतिः ऑनलाइन-प्रणाल्या परिवर्तिता।

▪️उत्पादनव्ययेन पीडिताः दुग्धकर्षकाः स्वशासनविभागस्य आर्थिकसहाय्यं प्राप्स्यन्ति।

▪️न्यूज़ीलैण्ड-शासनं आन्तर्राष्ट्रीयविद्यार्थिनां कृते कार्यसमयः सप्ताहे २५ घण्डिकापर्यन्तम् वर्धितवन्तः।

▪️भारतीयायुधानि गुणसम्पन्नानि लक्ष्यानि च यथावत् भिन्दन्तीति अर्मेनिया राष्ट्रेण प्रशंसितम्।

▪️वैज्ञानिकपदं परित्यज्य शिक्षाक्षेत्रं प्रति गतवती अपि डॉ. दीपा जी. मुरिक्कन् अनुसन्धान मनोवृत्तिं न परित्यजति।

▪️सार्वजनिक सेवासंस्थया स्थगिताः परीक्षाः नवतिथिषु आयोजिताः सन्ति इति सूचना प्रदत्ता।

धन्यवादः
शुभदिनम्

मासो∫यं शोभतेतराम् (भागः ४०३) 02-08-2025

EPISODE – 403

नूतना समस्या –

“मासो∫यं शोभतेतराम्”

പ്രഥമസ്ഥാനം

“ആർദ്രതാം യാന്തി കേദാരാഃ
കൂപാശ്ച ജലനിർഭരാഃ
ഹരിതാഭാ ച സർവത്ര
മാസോഽയം ശോഭതേതരാം

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

अद्यतन वार्ताःl

♦️♦️♦️♦️♦️♦️♦️
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवविंशतिः जूलाइ २०२५ (पंचविशत्यधिक द्विसहस्रम्) मंगलवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
♦️♦️♦️♦️♦️♦️♦️

♦️आरोग्यमन्त्री श्रीमती वीणा जॉर्ज् उक्तवती यत् इ-स्वास्थ्य-व्यवस्थया पङ्क्तिं विना स्थित्वा ओपी-पत्रं प्राप्यते।

♦️ गर्भाशय-अर्बुद-रोग-प्रतिबन्धाय राज्ये प्लस्-वन्, प्लस्-टू पठन्तीनां विद्यार्थिनीनां कृते एच्.पी.वी. वाक्सिनेषन् आरभ्यते इति स्वास्थ्य-मन्त्री उक्तवती।

♦️पञ्चायत्-सभापतिपदं वहन्तः महाविद्यालय-शिक्षकाः वेतनं विना विशेष-अवकाशं , वृद्धिवेतनं च लब्धुं अर्हाः सन्ति इति उच्चन्यायालयेन निश्चितम्।

♦️ तत्काल-टिकट्-बुकिङ् जनप्रियं जातम् इति रेलयात्रायाः विषये वक्तव्यम्।

♦️प्रवृत्तिदिनेषु याः पी.एस्.सी. परीक्षाः सम्पद्यन्ते, तासां समय-क्रमणम् सप्तम्बर्-मासस्य प्रथम-दिनाङ्कतः प्रवर्तिष्यते।

♦️ तैलमूल्यं तीव्रं जातम्, अनेन कारणेन केरलीयाः चिंतिताः सन्ति।

♦️सौर्य-ऊर्जाया: प्रोत्साहनं केन्द्र-राज्यसर्वकाराभ्यां यदा प्रदत्तं, तदा के.एस्.ई.बी. तेन नाम्ना विद्युत्शुल्कं वर्धयितुं यत्नं करोति।

♦️ विंशतिःसहस्रम् रूप्यकाणाम् अतीत्य ये व्यवहाराः सन्ति, ते खातापथेनैव करणीयाः इति उच्चन्यायालयः निर्णीतवान्।

♦️केरल-केन्द्र-विश्वविद्यालये कासरगोड् इत्यस्मिन् संयुक्त-शिक्षक-शिक्षण-कार्यक्रमस्य पञ्जीकरणम् एकत्रिंशतितम-दिनाङ्कपर्यन्तं स्यातिति निर्दिष्टम्।

♦️विदेशीजनाः स्थावर-संपत्तिं प्रत्यक्षतः क्रेतुं शक्नुवन्ति वा इति विषये सौदी-प्राधिकरणेन विवरणं प्रकाशितम्।

♦️ प्रवासीजनानाम् अहितकरं विधाय स्वदेशीकरणं सौदी-अरबिया राष्ट्रे कठिनं जातम्।

धन्यवादः
शुभदिनम्

जनचित्तेषु जीवति (भागः ४०२) 26-07-2025

EPISODE – 402

नूतना समस्या –

“जनचित्तेषु जीवति”

प्रथमस्थानम्

“സന്തതം പുണ്യകർമാണി
സമാചരതി യോ നരഃ
സ്മര്യതേ സ തു നിത്യം ഹാ!
ജനചിത്തേഷു ജീവതി”

Radhakrishnan

“अभिनन्दनानि”

 

समरनायकः स्मृतिपथमगात्। वि एस् अच्युतानन्दः दिवंगतः।

अनन्तपुरी – केरलस्य भूतपूर्वमुख्यमन्त्री तथा भारतीयमार्किस्वादी साम्यवादीदलस्य समुन्नतनेता वि एस् अच्युतानन्दः अद्य दिवं गतः। स१०१ वयस्कः आसीत्। किञ्चित् कालम् अनन्तपुर्यां एस् यू टि चिकित्सलये परिचर्यायामासीत्।
भारते साम्यवादीदलस्य स्थापकनेतृषु अग्रेसरः आसीत् अयं महाशयः। केरलेषु मुख्यमन्त्रिपदे, विपक्षनेतृपदे, विधानसभासदस्यपदे च विराजितः अयं जनप्रियनेता इति स्थानमवाप। मार्क्स्वादीसाम्यवादीदलस्य पोलिट् ब्यूरो इति उन्नतसमित्याम् अङ्गत्वेन बहुवर्षं प्रवर्तितः। स्वातन्त्र्यसमरे, कृषकाणां समरे च तस्य योगदानं महत्तरमासीत्।

     बहुवर्षं यावत् कारागृहवासम् अनेन अनुभूतम्। सर् सि-पि वर्यस्य रक्षिभटैः अयं मृतप्रायं यावत् मर्दित‌ः। आपातस्थितेः घोषणेन स कारायां बद्धः बहुधा पीडितश्चासीत्।

       अस्य भौतिकं देहं सामाजिकान्त्योपचारार्थं ‘ए के जि मन्दिरम्’ इति दलास्थाने विन्यसितम्। तस्य अन्त्यदर्शनार्थं जनसहस्राणि तत्र प्रतीक्षन्ते। भौतिकसंस्कारकर्माणि बुधवासरे आलप्पुष़ायां स्वभवनाङ्कणे सम्पत्स्यन्ते। वि एस् वर्यं प्रति आदरसूचकेन श्वः सामाजिकविरामदिनत्वेन सर्वकारेण विज्ञापितम्।

std 8 chapter 2 new text book

std-5 chapter-1 new text book

std-6 chapter 2 new text book

std 6 – new text book

वाग्वादश्च विनाशकः (भागः ४०१) 19-07-2025

EPISODE – 401

नूतना समस्या –

“वाग्वादश्च विनाशकः”

പ്രഥമസ്ഥാനം

“ദ്വയോർമധ്യേ വിവാദശ്ചേ –
ദനൈക്യം സംഭവേത് ക്വചിത്
സാരശൂന്യശ്ച ശുഷ്കശ്ച
വാഗ്വാദശ്ച വിനാശക:

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”