अद्यतन वार्ताः – 13-06-2025

🔸🔸🔸🔸🔸🔸
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रयोदश जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔸🔸🔸🔸🔸🔸

🔸उहमदाबादे सरदारवल्लभाईपटेल-आन्तरराष्ट्रीयविमानपत्तने समीपस्थिते मेघानिनगरे लण्डनं प्रति यात्रां कुर्वतः एर्-इण्डिया-विमानस्य दुःखदं पतनं जातम्। मृतानां प्रति CAF-संस्थया श्रद्धाञ्जलिः समर्पिता। 🙏💐

🔸वित्तमन्त्रिणी निर्मलासीतारामेण निगदितम्—बैंक्-संस्थायां स्थितं अव्यवहितं धनं यथाशक्ति शीघ्रं स्वामिनां प्रति प्रत्यर्पणीयम्।

🔸आतङ्कवादेन भारतं प्रति प्रवर्त्यते चेत्, तर्हि भारतः पाकिस्तानराष्ट्रे तीव्रं प्रत्याक्रमणं करिष्यति। इति विदेशकार्यमन्त्री एस् जयशङ्करः उद्घोषयत्।

🔸अङ्कमालि-शबरी नामकस्य रेलमार्गस्य निर्माणकार्याणि शीघ्रीकर्तुं राज्यरेलमन्त्री वि. अब्दुर्रहिमानः निर्देशं दत्तवान्।

🔸उच्चशिक्षाक्षेत्रे विद्यमानसमस्या विचिन्तयितुं राज्यपालः राजेन्द्रविश्वनाथः अर्लेकरः कुलपतिभिः सह सभां कर्तुं आहूतवान्।

🔸डॉ. ई. श्रीधरः उक्तवान् यत् केरलराज्ये प्रस्ताविते अतीववेग-रेलयोजनायाः विषये केन्द्रसर्वकारात् कोऽपि सम्पर्कः न प्राप्तः।

🔸विद्यालयेषु समयपरिवर्तनं ,धार्मिकशिक्षां दत्तः छात्राणां कृते क्लेशकारकमिति समस्तसंस्थायाः अध्यक्षेन मुख्यमंत्रीं प्रति निवेदनं कृतम्।

🔸कोच्चीनगरस्य समीपे एल्स्-३ इत्यस्य नौकायाः समुद्रे पतनं जातम्। तस्या स्वामिनः MSC-सम्बद्धनौकां न्यायालयेन स्थगयितुं निर्देशः दत्तः।

🔸यदि विद्यालये दश बालकाः सन्ति चेत्, तर्हि अरबीक्-शिक्षकस्य पदं तत्र स्थायित्वेन स्वीकरणीयमिति राज्यशिक्षाविभागस्य नवादेशः।

🔸राज्येषु मुख्यवन्यप्राणिसंरक्षकैः वन्यमृगवधस्य अनुमतिः केवलं निर्दिष्टनिबन्धनानुसारमेव दातव्या इति केन्द्रसर्वकारेण स्पष्टिकृतम्।

🔸संयुक्तअरबएमिरेट्स् (UAE) राष्ट्रे बीमाव्यवस्थायां स्वदेशीयीकरणं सशक्तं कर्तुं योजनाः क्रियन्ते।

धन्यवादः
शुभदिनम्

Leave a Reply

Your email address will not be published. Required fields are marked *