Daily Archives: June 9, 2025

स्निह्यामि भारते सदा (भागः ३९६) 14-06-2025

EPISODE – 396

नूतना समस्या –

“स्निह्यामि भारते सदा”

प्रथमस्थानम्

“യസ്മിൻ സത്യഞ്ച ധർമശ്ച
യഥായോഗ്യം സുപാല്യതേ
തസ്മിൻ മനോഹരേ ദേശേ
സ്നിഹ്യാമി ഭാരതേ സദാ”

Bhaskaran N K

“अभिनन्दनानि”

 

अद्यतन वार्ताः – 09-06-2025

🪭🪭🪭🪭🪭🪭
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नव मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) सोमवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🪭🪭🪭🪭🪭🪭

🪭सर्वकारीयविद्यालयानां पिधानम् इति प्रचारः असत्यः इति शिक्षामन्त्री वि. शिवनकुट्टिः उक्तवान्। सर्वकारस्य अनुमfत विना विद्यालयानां पिधानं न शक्यते। यदि कुत्रचित् दोषः जातः चेत्, तस्य परीक्षणं करिष्यतीति अपि सः अवदत्।

🪭बहिराकाश-सञ्जारी शुभांशु शुक्लः अन्ये च ये बहिराकाश-निलयम् प्रति गन्तुम् इच्छन्ति, तान् वहन्तुं नियोजितं ड्रैगन् नामकं बहिराकाश-यानं स्पेस् एक्स् इत्यनेन प्रक्षिप्तम्।”

🪭राज्यस्य विद्यमानस्य द्वितीयपथस्य समांतरं तृतीयं , चतुर्थं च रेलमार्गौ स्थापनीयौ इति रेल् विभागस्य निर्देशः अप्रायोगिकः इति ई. श्रीधरः उक्तवान्।

🪭विऴिञ्ञं इत्यस्मिन्नेव अतीव आधुनिकसाधनयुक्तं कोस्ट्गार्ड् जेट्टि उद्घाटितम्।

🪭उन्नतशिक्षासंस्थासु अतिथिशिक्षकाणां वेतनं वृद्धं कृत्वा उन्नतशिक्षाविभागः निर्णयं कृतवान्।

🪭सिन्धुनदीजलसन्धिं रद्दीकृत्य भारतः पुनःपरिशीलनं करोतु, जलं मोचयतु इत्यभ्यर्थनां पाकिस्तान् राष्ट्रं कृतवन्।

🪭प्लसवन् प्रवेशनाय प्रथमम् अलॉट्मेण्ट् प्रकाशितम्। तत्र जिलायाः २४३९८ छात्राः बहिः स्थिताः।

🪭किञ्चनदिनानां विरामात् अनन्तरं आगामिन्यां सप्ताहे राज्ये पुनः वृष्टिः आगमिष्यति।

धन्यवादः
शुभदिनम्